________________
सम्मति. काण्ड १, गा० ४३
१७८
धर्म धर्ममपेक्ष्य वाक्यरचनाऽर्थेऽनन्तधर्मात्मके, या प्रश्नर्विधिपर्युदासभिदया सा सप्तधा नाष्टधा । यद्धर्माः किल सप्त नाष्ट पुनरुक्तत्वाख्यदोषोद्भवात्, सन्देहा अपि सप्त तद्विषयका नैयत्यतस्तद्भवाः ॥१॥ जिज्ञासा अपि सप्त तत्र तदनु प्रश्नाश्च सप्त प्रति. पाद्यानां प्रतिपादकप्रतिवचांस्यत्रापि सप्तैव वै । इत्थं सागमयुक्तितो मितिनयापेक्षा प्रमात्वं गता,
तदूगर्भा प्रभुभारती विजयतां या श्रोतृवाक्शुद्धिदा ॥२॥ युग्मम् ॥ अथ गजनिमीलिकान्यायेनेतरांशौदासीन्येनैकांशावगाहिसनहायेककद्वित्रिनयाधीनप्रवृ. त्तिकसप्तभङ्गीस्वरूपं प्रतिपाद्य सप्तमङ्गीप्रवर्तकसङ्ग्रहादिनयमूलभूतद्रव्यार्थिकपर्यायार्थिक योर्मध्ये एकान्तपर्यायार्थिकनयवादं प्रदर्य तत्राप्रामाण्यं प्रदर्शयितुमाह
जह दवियमप्पियं तं, तहेव अस्थित्ति पज्जवणयस्स ।
ण य स समयपन्नवणा, पज्जवणयमेत्तपडिपुण्णा ॥ ४२ ॥ __ यदर्थक्रियाकारि तदेव सत् , अर्थक्रियाकारि च वर्तमानक्षणवत्यैव वस्त्विति तदेव सत् , सद्विषयिकैव प्रतीतिः प्रमात्मिकेति तया कारणभूतया 'जह दवियमप्पियं' यथा वर्तमानक्षणसम्बन्धित्वप्रकारेण, अग्रे तच्छब्दोपादानाद् यत्तदोनित्यसम्बन्धाद् यदित्यध्याहृत्य यद्रव्यमर्पितं प्रतिपादयितुमभीष्टं तं तहेव अत्थित्ति' तत्तथैवास्ति तद्रव्यं वर्तमानक्षणसम्बन्धित्वप्रकारेणैवास्ति, सत्स्वरूपतां विभार्ति, नातीतानागतकालसम्बन्धित्वप्रकारेण, अतीतानागतकालसम्बन्धिनोविनष्टानुत्पन्नत्वेनासद्रूपत्वादिति 'पजवणयस्स' पर्यायार्थिकनयस्य पर्यायार्थिकनयवादस्य एतदनन्तरं " अभिप्रायः" इति शेषः, एतदेकान्तपर्यायार्थिकनयवादमन्तव्यं श्रोतगतयथार्थप्रतीत्यजनकत्वाअव प्रमाणमिति ज्ञापनायानेकान्तवादी उत्तरार्द्धमाह-'ण य स समयपण्णवणा पञ्जवणयमेत्तपडिपुराणा' न च स समयप्रज्ञापना पर्यायनयमात्रप्रतिपूर्णा, न इति प्रतिषेधे, तच्छब्दस्य पूर्वपरामर्शकत्वात् स इत्यनेन पूर्वव्यावर्णितस्वरूपैकान्तपर्यायार्थिकनयवादः परामृश्यते, समयः सम्यग् ईयते परिच्छिद्यत इति समय:, अर्थी, तस्य प्रज्ञापना प्रकर्षण असंदिग्धाविपर्यस्तस्वरूपत्वेन ज्ञाप्यन्ते बोध्यन्ते श्रोतबुद्धावर्था विषयीक्रियन्तेऽनया सा प्रज्ञापना, श्रोहगतप्रमात्मकाऽर्थबोधजनिका प्ररूपणेति यावत् , एवम्भूता सा 'पजवणयमेतपडिपुण्णा' पर्यायनयमात्रप्रतिपूर्णा, अत्र मात्रपदस्येतरवारकत्वाद्रव्यनयनिरपेक्षे केवले पर्यायनये प्रतिपूर्णा पुष्कला, “सर्व वाक्यं क्रियया परिसमाप्यते" इति वचनादध्याहतायां 'सम्पद्यते' इति क्रियायां पूर्वोक्तनोsन्वयान सम्पद्यते, न स पूर्वोक्तवादः श्रोरगतसम्यगर्थप्रत्ययं कत्तुं शक्नोतीति न स यथा
"Aho Shrutgyanam"