________________
सम्मति० काण्ड १, गा० ४१.
૨૭૭
त्वात्तेषु त्रिषु नयेषु स्यादवक्तव्य इति तृतीय भङ्गः । प्रथमद्वितीयभङ्गसंयोगे चतुर्थः, प्रथमद्वितीयचतुर्थेषु भङ्गेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमा वचनमार्गा भवन्ति, अथवा प्रदर्शितस्वरूपा सप्तभङ्गी सङ्ग्रह - व्यवहार - ऋजुसूत्रेष्वेवार्थनयेषु भवतीत्याह- -' एवं सत्तवियप्पो' इत्यादि । 'एवं सत्तवियप्पो' पूर्वनीत्या सप्तविकल्पः सप्तभेदः "वयणपहो होइ अस्थपजाए " वचनपथः वचनमार्गों भवति अर्थपर्याये, विषयस्य विषयिणि लक्षणया अर्थनये ' वंजणपजाए उण " व्यञ्जनपर्यायेअत्रापि विषयस्य विषयिणि लक्षणया शब्दनये साम्प्रतसमभिरूढैवम्भूताख्यनयत्रयात्मके पुनः " सवियप्पो णिवियप्पो य" सविकल्पो निर्विकल्पच, आद्यद्वितीयावेव भङ्गौ भवत इति । एतत्तास्पर्यार्थश्चैवम् - अर्थनय एव सप्तभङ्गाः, शब्दादित्रिनयेषु त्वाद्यौ द्वावेव भङ्गौ, यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रह-व्यवहार-ऋजुसूत्राख्यो मतिज्ञानात्मकः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्धवशेन तदुत्पत्तेः, अर्थप्ररूपणायां प्रवीणत्वेनार्थं प्रधानतयाऽसौ व्यवस्थापयति, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्द- समभिरूढ - एवम्भूताख्यः प्रत्ययश्श्रुतज्ञानात्मकः शब्दवाच्यार्थगोचरः, तस्य शब्द: प्रधानम्, तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनम्, तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते, तत्र च वचनमार्गः सविकल्पनिर्विकल्पतया द्विविधः, सविकल्पं सामान्यम्, निर्विकल्पः पर्यायः, तदभिधानाद्वचनमपि तथा व्यपदिश्यते । तत्र शब्दस्सञ्ज्ञाभेदेऽप्यभिन्नमर्थमङ्गीकरोति, समभिरूढश्च तदानीं पूर्वं पश्चाद्वा व्युत्पत्तिनिमित्तक्रियापरिणतिभावेन विवक्षितार्थो विवक्षितशब्दवाच्य एवेति शब्दप्रतिपाद्यक्रियायां सत्यामसत्यामप्यभिन्नमर्थं प्रतिपादयतीति शब्दसमभिरूढाभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः सञ्ज्ञाक्रिया भेदेनाभिन्नार्थप्रतिपादकत्वेऽपि भेदजिज्ञासारूप विकल्पसाहित्यात्, एवम्भूतस्तु कालभेदेन क्रियाभेदाद् भिन्नमेवार्थं विवक्षितशब्दस्य प्रतिपादयति, यतो यदा घटते तदैवासौ घटः, न पुनरघटत घटिष्यते वा तदा घट इति व्यपदेष्टुं शक्यः सर्ववस्तूनां घटताप्रसङ्गात्, तन घटनसमयात्प्राक् पचाद्वा घटस्तद्व्यपदेशमासादयतीत्येतन्नयापेक्षया निर्विकल्पो द्वितीयमङ्गकरूपो वचनमार्गः । तदुत्तरं भेदजिज्ञासारूप विकल्प विरहादिति भङ्गद्वयमेवावतिष्ठते, अवक्तव्यभङ्गकस्तु जञ्जननये न सम्भवत्येव, यतः शब्दश्रवणोद्गत श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते, न शब्दाऽश्रवणात्, अवक्तव्यं त्वेकशब्देनोभयधर्मोपरक्तवस्तुविवक्षायामेकेन केनापि शब्दे - नैकदा न वाच्यमिति शब्दाप्रतिपाद्यत्वान्नाऽवक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्पनिर्विकल्पौ प्रथमद्वितीयावेव भङ्गावभिहितावाचार्येण । ' च ' शब्दस्य गाथायामेव कारार्थत्वादिति ।
२३
OXULUI.
सप्तभङ्गीप्रकरणं समाप्तम् ॥
Sxx
"Aho Shrutgyanam"