________________
१७४
सम्मति० काण्ड १ ० ४१
एवं सत्तवियप्पो, वयणपहो होइ अत्थपज्जाए । वंजणपजाए पुण, सवियप्यो णिब्वियप्पो य ( उ ) ॥ ४१ ॥
,
"
' एवं ' उक्तप्रकारेण, ' सत्तत्रियप्पो' सप्तविकल्पः सप्तभेदः, 'वयणपहो ' वचनपथो वचनमार्गः, ' होइ अत्थपजाए ' भवत्यर्थपर्याये विषयस्य विषयिणि लक्षणया तद्राहिण्यऽर्थनये सहव्यवहारर्जुसूत्र लक्षणे । सप्ताप्यनन्तरोक्ता भङ्गा अर्थनये भवन्तीति भावः । तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयो भङ्गो व्यवहारे विशेषग्राहिणि, तृतीयभङ्गस्तु ऋजुसूत्रे सूक्ष्मवर्त्तमानक्षणग्राहिणि, एकदोभयार्पणाया वर्त्तमानक्षणनियतत्वात् चतुर्थः 'सङ्ग्रहव्यवहारयोः, पञ्चमः समहर्जुसूत्रयोः, षष्ठो व्यवहारजुसूत्रयोः, सप्तमः सहव्यवहारर्जुसूत्रेषु । वस्त्वेकांशग्राही नय इत्येकैकधर्मविषय केनैकैकन ये नै केकधर्मप्रतिपादकाद्यभङ्गत्रयप्रवृत्तिः । धर्मद्वयस्य नयद्वयविषयत्वात्तद्विषयकेण नयद्वयेन भङ्गद्वयसंयोगोत्था धर्मद्वयप्रतिपादकाश्चतुर्थपञ्चमषष्ठभङ्गाः प्रवृत्ताः, सप्तमभङ्गस्त्वाद्य भङ्गत्रय संयोगोत्थो धर्मत्रयप्रतिपादक इति धर्मत्रयस्य नयत्रयविषयत्वात्तद्विषयकेण नयत्रयेण स प्रवृत्तः तथाहिअर्थनयानाश्रित्य विचारे कर्त्तव्ये अस्तित्वस्य सामान्यस्य सङ्ग्रहविषयत्वेन तत्प्रतिपादको भङ्गः सङ्ग्रहनयात्प्रवर्त्तते, सामान्यरूपस्यास्तित्वस्य विशेषग्राहिव्यवहारनयाऽविषयत्वेन तत्प्रतिपक्षभूतं नास्तित्वं व्यवहारनयविषय इत्यतो नास्तित्वप्रतिपादको द्वितीयमङ्गस्तस्मा स्प्रवर्त्तते, अवक्तव्यत्वप्रतिपादकस्तु तृतीयो भङ्ग ऋजुसूत्रनयात्प्रवर्त्तते, यतस्सहव्यवहारौ न युगपदस्तित्वनास्तित्वे आदिशतः, अस्तित्वस्य सङ्ग्रहविषयत्वेऽपि नास्तित्वस्य तदविषयत्वेन तस्य स्वानभिमतस्यादेशे एवं नास्तित्वस्य व्यवहारविषयत्वेऽप्यस्तित्वस्य तदविषयत्वेन तस्य स्वानभिमतस्यादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्तु युगपदस्तित्वनास्तित्वे आदेष्टुमर्हति । यद्यपि परमार्थतोऽस्तित्वनास्तित्वे परमार्थतो वर्त्तमानक्षण मात्र वर्थावगाहिन ऋजुसूत्रस्य न विषयौ तथापि तन्मते सांवृत्तत्वेन रूपेण ते तद्विषयतां गच्छत एव, कल्पितेनापि रूपेण युगपदादिष्टयोस्तयोरवक्तव्यत्वप्रतिपादको मङ्गः पारमार्थिक एव, विषयस्याबाधितत्वात्, यथा धूमत्वेनारोपिताद् धूलिपटलाल्लिङ्गादः पारमार्थिकादपि वस्तुगत्या वह्निमति देशे वन्यनुमितिरवाधितविषयकत्वात्पारमार्थिकी । क्रमार्पितास्तित्वनास्तित्वप्रतिपादकश्च चतुर्थभङ्गः सङ्ग्रहविषयस्यास्तित्वस्य व्यवहारनयविषयस्य नास्तित्वस्य च प्रतिपादकत्वात्ताभ्यां प्रवर्त्तते । एवं संग्रहविषयस्यास्तित्वस्यर्जुसूत्रविषयस्य चावक्तव्यत्वस्य प्रतिपादकत्वात्ताभ्यां पश्चमभङ्गः प्रवर्त्तते । तथैव व्यवहारनयविषयस्य नास्तित्वस्यर्जुमूत्रविषयस्य चावक्तव्यत्वस्याभिधायित्वात्ताभ्यां षष्ठभङ्ग उत्तिष्ठते, सप्तमभङ्गश्व सङ्ग्रहविषयस्यास्तित्वस्थ व्यवहारविषयस्य नास्तित्वस्यर्जुमूत्रविषयस्य चाऽवक्तव्यत्वस्य प्रतिपादकत्वात्तैरुद्भवतीति । अत्र यद्धर्मप्रकार कसङ्ग्रहाख्यबोधः प्रथममङ्गफलत्वेनाभिमतस्तद्धर्माभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्ग फलत्वेनैष्टव्यः,
"Aho Shrutgyanam"