________________
सम्मति० कान्ह १, गा० ४१
K
अत एव स्याद् घट इति प्रथमभङ्गफलत्वेन घटत्वप्रकारकसङ्ग्रहाख्यो बोधोऽभिमत इति घटत्वाभावप्रकारको व्यवहाराख्यो बोधः स्यादऽघट इति द्वितीयमङ्गफलतया ज्ञातव्यः, तेन घटत्वलक्षणसामान्यविषयक सहनी लघटत्वलक्षणविशेष विषयकव्यवहाराभ्यां ' स्यादू घटः स्यान्नीलः' इत्याकारकौ यौ प्रथमद्वितीयभङ्गौ तद्द्घटितसप्तभङ्गीप्रवृत्तिर्न सम्भवति, न वा सामान्यमेकमाश्रित्यैकवचनमिति तद्विषयक सङ्ग्रहः, अनेकान् विशेषान् समाश्रित्य बहुवचनमिति तद्विषयको व्यवहार इति ताभ्यां 'स्यादुद्घटः स्यादुद्घटा:' इत्येवं रीत्याऽपि मङ्गान्तरवृद्ध्याऽष्टभङ्ग्यादिप्रवृत्तिरपि सम्भवतीत्यवधेयम् । शब्दनयानाश्रित्य विचारोपदर्शनार्थमुत्तरार्द्धमाह - ' वंजण पजाए पुण' व्यञ्जनपर्याये पुनः, विषयस्य विषयिणि लक्षणया शब्दनये पुनः 'सवियप्पो' सविकल्पः, साम्प्रताख्याद्य भेदात्मकशब्दनये पर्यायशब्दवाच्यताविकल्प सद्भावेऽप्यर्थस्यैकत्वात् । अयम्भावः - घटकुटनिपकुम्भ कलशादिपर्यायशब्दभेदेऽपि घटरूपस्यार्थस्य न भेद इति सज्ञाभेदेऽप्यर्थाभेदाभ्युपगन्तरि तस्मिन्नये सविकल्पः, तनये घटवाचकयावत्पर्यायशब्दवाच्यत्वावच्छिन्न एको घटोऽस्त्येवेति प्रथमभङ्गस्यास्तित्वसामान्याभिधायकस्य प्रवृत्तिभावात् पर्यायशब्दवाच्यताविकल्पसद्भावाच्च । समभिदैवम्भूताख्यद्वितीय तृतीय भेदात्मकशब्दनये 'णिवियप्पो य' निर्विकल्पश्च द्रव्यार्थात्सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वादुक्तद्वितीयमेदयोः तथाहि समभिरूढस्य मते घटशब्दस्य योऽर्थः स न कुम्भकलशादिशब्दानां, किन्तु व्युत्पत्तिनिमित्तभेदेन भिन्नभिन्न एवार्थः, सञ्ज्ञा भेद नियतार्थ भेदाभ्युपगन्तृत्वं समभिरूढत्वमिति लक्षणस्य सैद्धान्तिकैरुक्तत्वात्तेन नयेन सज्ञामेदेनार्थ मेदस्याभ्युपगमेन यत्र सञ्ज्ञाभेदस्तत्र व्युत्पत्तिनिमित्तक्रियाभेदप्रयोज्यार्थभेदस्यावश्यम्भावात् । अत्रेदमवधेयम् - शब्दविषये शास्त्रे व्युत्पत्तिपक्षोऽव्युत्पत्तिपक्षश्चेति पक्षद्वयमुररीकृतम्, अव्युत्पत्तिपक्षे सर्वे शब्दाः सिद्धा एव, नैषां व्युत्पादनाय शब्दशास्त्ररूपप्रयास आश्रयणीयो भवति । व्युत्पत्तिपक्षे तु सर्वे शब्दा धातुना व्युत्पादनीयाः, अतस्सङ्क्षेपेण तेषां व्युत्पत्तिसाधनाय व्याकरणनिरुक्तादिकं प्रवृत्तम् । अत एवाह- नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न विशेषपदार्थसमुत्थं, प्रत्ययतः प्रकृतेश्व तदूह्यम् ||१|| इति । अस्यायमर्थः - निरुक्तनामके ग्रन्थे तद्रचयिता तथा स्वरचिते व्याकरणे शाकटायनः सर्वाणि नामानि प्रातिपदिकानि धातुजानि तत्तद्धातुभिः प्रकृतिभूतैः तान् तान् प्रत्ययागमानुबन्धादीन् कल्पयित्वा व्युत्पादितानि भवन्तीत्याह । एव येषां नाम्नां निरुक्ते व्याकरणे च व्युत्पादनं नास्ति तेषामपि नाम्नां व्युत्पादनमूहनीयमित्याशयेनाह - यनेत्यादि । यन्नाम निरुक्ते व्याकरणे च विशेषपदार्थेन प्रकृतिप्रत्ययविशेषेण समुत्थं व्युत्पादितं नास्ति तत् प्रत्ययतः प्रत्ययविशेषकल्पनया प्रकृतेः प्रकृतिविशेष कल्पनया अनुबन्धादिकल्पनया चोही व्युत्पाद्यम्, अत एव " उणादयो बहुलं " इति सूत्रं प्राणायि पाणिनिना । संवदति चात्र ।
"Aho Shrutgyanam"
: