________________
सम्मति० काण्ड १, गा० ४०
१७७ न्मतम् , स्वद्रव्याद्यपेक्षया वस्तुनि सत्वमेव, नासत्वम् , परद्रव्यायपेक्षया चासत्त्वमेव, न सच्चम् , एककालावच्छिन्नस्वद्रव्यादिपरद्रव्याधुभयनिमित्तापेक्षयाऽनिर्वचनीयमेव, न त्वेकैकरूपमित्येवमुत्तरभङ्गेऽपि तत्तन्निमित्तापेक्षया तत्तद्रूपमेव वाच्यमिति यनिमित्तापेक्षया सवादि तन्निमित्तापेक्षया तद्विरोध्यसञ्चादिरूपाऽभावेन तत्तनिमित्तापेक्षयेदमित्थमेवेति निश्चयसद्भावेन सवादीनां निर्धारितरूपत्वेनैवाभ्युपगमात् , तथापि तत् अहेन्मततयाऽभ्युपगम्य शिरोमणिना सच्चादीनामनिर्धारितत्वं प्ररूपितमिति तस्य सुस्पष्टं ध्यानध्यमेवेति । एतेन सप्तमङ्गधादिखण्डनपरं “ नैकस्मिन्नसम्भवात् ॥२॥ २॥ ३३ ॥ इति शारीरकमीमांसा. सूत्रमपि निरस्तम्, तदुक्तिप्रत्युक्तीनां पूर्वोक्तसाम्यात , यथैवैकस्मिन् वस्तुन्यस्तित्वधर्मविषयकपर्यनुयोगवशादविरोधेन व्यस्तसमस्तविधिनिषेधकल्पनया स्यात्पदलाञ्छितसप्तधर्मप्रकारवाक्प्रयोगलक्षणसप्तमङ्गी प्रदर्शिता तथैव तदन्यभेदनित्यत्वाद्येकैकधर्मापेक्षयापि सप्तभङ्गी ज्ञेया, एवञ्च वस्तुनोऽनन्तधर्मात्मकत्वेन तदपेक्षया सप्तमङ्गीनामानन्त्यं यदायातं तदप्यऽभीष्टमेवार्हतः। एतेनैकस्मिन् वस्तुनि विधीयमाननिषिध्यमानानन्तधर्मात्मकत्वेन तदपेक्षयाऽनन्तभङ्गप्रसक्त्या सप्तभङ्गीति वचो न युक्तमित्यारेकाऽपि निरस्ता, यत एकैकपर्यायमाश्रित्य वस्तुनि विधिनिषेधकल्पनाभ्यां व्यस्तसमस्ताभ्यां सप्तैव भङ्गारसम्भवन्ति, एवंविधास्सप्तमगाश्च अनन्ताः प्रतिपर्याय सप्तभङ्गीभावात पर्यायाणाश्चैकवस्तुन्यनन्तत्वादिति, यदुक्तं तातपादवादिदेवसूरिभि:-" एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तमङ्गीप्रसङ्गादसङ्गतैव सप्तमङ्गीति न चेतसि निधेयम् ।। ४ । ३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्याय, वस्तुन्यनन्तानामपि समभङ्गीनामेव सम्भवात् ॥ ४ । ३८ ।। इति । एतेन स्यात्पदमनेकान्तवाचकमिति स्यात्सन् घटः स्यादसन् घट इत्यादिसप्तभङ्गी. वचनमनर्थकम् , स्यात्सन् घट इत्येकभङ्ग उत्तेऽपि तद्घटकस्यात्पदादेव सत्यासत्यादिधर्मसप्तकशबलत्वस्यापि स्याच्छब्दार्थकुक्षिप्रविष्टत्वात्तद्बोधोपपत्तेरित्यप्यारेका निरस्ता, सामा. स्यतोऽनेकान्तस्य प्रतिपत्तावपि विशेषार्थिना विशेषस्यानुप्रयोगात्, वृक्षो न्यग्रोध इति वचनवत् । अयम्भावः स्यात्पदादनेकान्तपदाद्वा एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयताबच्छेदकत्वेनैवानन्तधर्मान्तर्गतसप्तधर्मबोधेऽपि प्रातिस्विकरूपेण तद्धोधनार्थं विशेष. प्रयोगोऽवश्यमाश्रयणीयः। यथा वृक्ष इत्युक्ते वृक्षत्वेन न्यग्रोधबोधेऽपि न्यग्रोधत्वेन तदोधार्थ विशेषप्रयोग आश्रीयते तथा प्रकृतेऽपि । स्यात्पदस्यानेकान्तत्वद्योतकत्वपक्षे तु न्यायप्राप्तं सदसदादिवचनम् , सदसदादिशब्दोक्तस्य स्वरूपपररूपचतुष्टयादिना सस्वासत्वादिविशिष्टः वस्तुनस्स्याच्छब्देन द्योतनादिति ग्रन्थगौरवमीत्या नाधिकं वितन्यते ॥ ४० ॥ . अथोक्तसप्तमङ्गयां केन नयेन को भङ्ग इति जिज्ञासया शिष्येण तत्प्रने कृते सतिं यस्य यस्य भङ्गस्य मूलभूतो यो यो नयस्तत्तद्भङ्गप्रवर्तकतत्तत्रयप्रदर्शनपूर्वकतदुत्तराभिधिसया सरिराह---
"Aho Shrutgyanam"