SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ १७२ सम्मति. काम , गा० ४. कश्चिदरस्तावान् कथञ्चिद् यावद्वीजजन्य इत्याधाकारस्यैव कार्यकारणभावग्रहस्य स्याद्वादसंस्कृतात् ऊहप्रमाणात सिद्धेः कारणतात्वव्यापकत्वं स्याद्वादस्य सिद्ध्यत्येव । ननु कारणं स्यात्कार्यकारणमित्येकेनैव भङ्गेन कारणत्वे कथञ्चित्तवसिद्धौ किं तत्र सप्तमङ्गीकल्पनयेति चेत् , मैवम्, प्रथमभोक्ती किं कारणं स्यात्कार्याकारणं न वेत्यादि संशयोत्पत्तेस्तजिज्ञासा तत्पश्नद्वारा भङ्गान्तरप्रवृत्तेरावश्यकत्वेन नैवैकभङ्गमात्रेण निराकासप्रतिपत्तिर्जायते, किन्तु सप्तमङ्गथैव,तस्या एव पूर्णोत्तरत्वात् ,यादृशेन बोधेन प्राश्निकस्याकाजोपशाम्यति तादृशबोधस्यैव परिपूर्णबोधत्वेन तं प्रति जनकत्वात् , तदुक्तं खण्डखाये-" यावति विचारे किंवृत्तचिद्विधिः पूर्यते तावत एव प्रमाणत्वादिति । एतेन सप्तभङ्गीजन्यबोधस्य तत्तदभावप्रकारकत्वात्संशयात्मकत्वं स्यादित्यारेकाऽपि निरस्ता, एकत्र धर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशय इति लक्षणे एकस्मिन्नेव वृक्षे विभिन्नावच्छेदेन कपिसंयोगतदभावप्रकारकज्ञानस्य प्रमात्मकस्य संशयत्वं मा प्रसासीदित्येतदर्थ विरुद्धेति नानाधर्मविशेषणं परेणापि स्वीक्रियत इति धर्मविशेषणतया संसर्गतया वा विरोधमानं संशये नियतमेव, विरोधमाने चाध्याप्यवृत्तित्वज्ञान प्रतिबन्धकमिति तदभाव: कार्यसहभावेन प्रतिबन्धकाभावविधया कारणम् , सप्तमङ्गीपटकस्यात्पदेन चानेकान्तार्थस्य द्योतकेन वाचकेन वाऽव्याप्यत्तित्वमेव धर्मेऽवमासत इति कार्यसहभावेन कारणीभूतस्याव्याप्यवृत्तित्वज्ञानामावस्य प्रतिबन्धकामावस्याभावादेव सप्तभङ्गीजन्यज्ञाने विरोधभानस्यामावे तन्नियतस्य संशयत्वस्याप्यनवकाशात् । अत एव शिरोमणिस्तु निपुणंमन्यः प्राह-स्यादिति तिङन्तप्रतिरूपको निपातोऽनेकान्तवाची, दिगम्बरा वस्तूनां सत्चासत्त्वानिर्वचनीयत्वानि अनिर्धारितानि प्रतिजानते, तथाहि-सप्तमङ्गी. नामकं नयमाचक्षते, स्यादस्ति, स्यानास्ति, स्यादवक्तव्यः, स्यादस्ति नास्ति च, स्याद. स्ति चावक्तव्यश्च, स्यानास्ति चावक्तव्यश्च, स्यादस्तिनास्ति चावक्तव्यश्चेति, वस्तु सत्त्वाश्रय इत्यनिर्धारितम् , तथाऽसत्त्वाश्रय इति, अनिर्वचनीयत्वाश्रय इति, सत्यासत्वाश्रय इति, सच्चाऽनिर्वक्तव्यत्वाश्रय इति, असत्त्वाऽनिर्वक्तव्यत्वाश्रय इति, सत्वासचाऽनिर्वक्तव्यत्वाश्रय इति । एवं सप्तधाऽप्यनिर्धारितमित्यर्थः । तथा च स्यात्पदस्यानिर्धारणार्थत्वाद्विरोध्युभयगोचरज्ञानस्य संशयत्वेनाप्रमाणत्वाच्च सप्तभङ्गीनयो न प्रमाणमिति । इत्थं वदतशिरोमणेस्स्याद्वादस्वरूपाऽनभिज्ञता प्रकटीकृता महोपाध्यायेन न्यायखण्डखाये-" न ह्येकत्र नानाविरुद्धधर्मप्रतिपादकरस्याद्वादः, किन्त्वपेक्षाभेदेन तदविरोधद्योतकस्यात्पदसमभिव्याहृत वाक्यविशेषः स इति, धोतिते च तदविरोधे संशयावकाशस्यैवाऽभावात् कथं स्वहृदयगत. मनवधारणमस्मास्वारोप्यते शिरोमणिना" इत्याधुत्तरग्रन्थेन ॥ अयम्भाव:-यद्यपीत्थमेवेति निश्चयस्तद्विरोधिधर्मान्तररूपत्वाभाव एव भवतीति नाहन्मते तथानिश्चयस्सम्भवति, विरोधिधर्मान्तराभ्युपगमात् । तथा च सत्यमेवेति वा असत्वमेवेति वा अनिर्वचनीयमेवेति वा सदसदुभयरूपमेव वेत्यादि नार्हता निश्चिन्वन्तीत्यनिर्धारितत्वं सच्चादीनामित्येवं नाई "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy