________________
१७१
सम्मति• कान १, गा• ४० एतदपेक्षया चायं धर्म इति पृथग्विवेचनं नैकभङ्गेनोपपादयितुं शक्यम् , किन्तु सप्तभङ्गायक, तदुक्तं खण्डखाये-'सकलादेशमहिम्नकाहेऽपि सर्वग्रहात्, निमित्तभेदविवेचनस्य च सप्तमङ्गथैवोपपत्तेरिति ।। अस्तित्वनास्तित्वादिवत्कारणत्वतदभावयोरप्यव्याप्यवृत्तित्वमेव, कस्या अपि कारणतायाः केनापि रूपेण स्याद्वादं विना नियन्तुमशक्यत्वात, स्याद्वादश्चैकाधिकरणवृत्तितत्तन्मयप्रयोज्यभिन्नभिन्नतत्तदवच्छेदकावच्छिन्नतत्तदभावस्वीकारात्मैव, न चात्र विरोधः, अपेक्षामेदेन तत्तदभावाभ्युपगमात् , तथापि तत्त्वे एकस्मिन्नेव वृक्षे शाखामूलावच्छिन्नकपिसंयोगतदभावाभ्युपगमस्येदमेतदपेक्षया इस्वमेतदपेक्षया च महदिति प्रतीतिसिद्धकाधिकरणवृत्तिमिन्नापेक्षकइस्वत्वदीर्घत्वाभ्युपगमस्य च विरोधदोषदुष्टत्वं स्यात्, किञ्च विरोधस्य किं लक्षणमिति वाच्यम् , तावदेकाधिकरणाऽवृत्तित्वं तद् , एकसम्बन्धेन प्रतियोगिमत्यपि सम्बन्धान्तरावच्छिन्नप्रतियोगिताकतदभावस्य परैरपि स्वीकारेण तत्तद. भावयोविरुद्धयोरप्यविरोधस्स्यात् । नापि येन सम्बन्धेन यस्य यदधिकरणं तस्मिमधिकरणे तत्सम्बन्धावच्छिन्नतभिष्ठप्रतियोगिताकाभावस्यावृत्तित्वं तत्, एकरूपेण तद्वत्यपि रूपान्तरेण तदभावस्य भावात् । नापि रूपविशेषस्योक्तविरोधलक्षणकोटौ निवेशेऽपि निस्तारः, तेन रूपेण तेन सम्बन्धेन तद्वत्यपि कालान्तरे तेनैव रूपेण तेनैव सम्बन्धेन तदभावस्य भावात् । नापि कालविशेषस्य तत्र प्रवेशेऽपि निर्वाहा, वर्तमानकालावच्छेदेन प्रतियोगिमत्यपि वर्तमानकालावच्छेदेनैव तदभावस्य देशभेदेन स्वीकारात्, तस्माद् यद्रूपेण यत्सम्बन्धेन यत्कालावच्छेदेन यद्देशावच्छेदेन यस्य यदधिकरणं तद्रूपावच्छिन्नतत्सम्बन्धावच्छिन्नतनिष्ठप्रतियोगिताकामावस्य तत्कालावच्छेदेन तद्देशावच्छेदेन तस्मिन्नधिकरणेऽवृतित्वमित्येवं तस्य लक्षणं वाच्यम् , तारशलक्षणविरोधस्य मिन्नमिभनिमित्तरूपावच्छेदकावच्छेदेनास्तित्वनास्तित्वमेदाऽभेदादीनामेकत्र स्वीकृतौ न भवति भावकाशः । अत एव स्यादस्ति स्यानास्तीत्यादौ सर्वत्राविरोधद्योतनाय स्यात्पदं प्रयुज्यते स्याद्वादतत्त्वज्ञैः, तथा च कस्या अपि कारणतायास्स्याद्वादनियन्त्रितत्वे च सिद्धे सापि सप्तमङ्गीमुपादायैव सम्भवति, अत एव " सप्तभङ्गीविधिसमारूढत्वेनार्थक्रियाकारित्वम्" इति प्राचीनोक्तिरपि सङ्गच्छते । ननु कार्यकारणभावग्रहोऽन्वयव्यतिरेकाभ्यां जायते, तौ च वीजत्वेन बीजसत्वेऽरत्वेनाऽरसत्रं तदभावे तदभाव इत्येवंरूपावेव, न च ती कथञ्चिद्घटिताविति कथं कारणतात्वव्यापकत्वं स्याद्वादस्येति चेत्, मैवम्, यतो नैवमन्वयोऽभ्युपगमाई, तथा सति कुशूलस्थदशायामपि बीजमहरोत्पादकं स्यात्, स्याच क्षेत्रस्थतादशायां यावद
रोत्पादकं बीजम्, किन्तु स्वेतरसकलकारणसमवहितस्य बीजस्य कस्यचिद् बीजत्वेन सत्वे कस्यचिदेवाङ्करस्याङ्करत्वेनोत्पादकं बीजमित्येवं स्वरूपा, व्यतिरेकोऽपि तद्घटित तदभाक्योरेवेति कथं न कश्चिद् घटितत्वं तयोर, उक्तविशेषणस्यैव कश्चिद्रूपत्वात् , उक्तान्वयव्यतिरेकगृहीतस्य यावत् किश्चिद्वीजं तावत्कथश्चिद् यावदारजनकम् , यावान्
"Aho Shrutgyanam"