________________
पम्मति• कान्, गा• ४. ज्ञानात् , आधभङ्गादिजन्यबोधस्य द्वितीयादिभङ्गजन्यशाब्दबोधे हेतुत्वाच्चेति । " अत्र केचिदाचार्यास्तृतीयचतुर्थभङ्गयोय॑त्यासमिच्छन्ति । अत एव पूज्यश्रीमद्वादिदेवसरिभिः 'स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया | तृतीयः ४-१७ । स्याद्वक्तव्य. मेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । ४-१८ । इति सूत्रद्वयं तृतीयचतुर्थभङ्गप्रदर्शकं प्रणीतम्, न्यायाचार्यश्रीयशोविजयोपाध्यायैरपि पूर्णोत्तरात्मकं महावाक्यं स्वरूपतस्तथैव प्रदर्शितम् । तथाहि-बीजं स्यादराऽक्षेपकार्येव । १। स्यादपुरक्षेपकार्येव । २ । स्यादुभयमेव । ३ । स्यादवक्तव्यमेव । ४ । स्यादराऽक्षेपकार्येव स्यादवक्तव्यमेव । ५ ! स्याद
कुरक्षेपकार्येव स्यादवक्तव्यमेव । ६ । स्थादङ्कुराऽक्षेपकार्येव स्यादङ्गुरक्षेपकार्येव स्यादवक्तव्यमेव च । ७ । इति प्रमाणोत्तरं युक्तमिति । अस्तित्वादिधर्मः स्वाभावसमानाधिकरण: स्वसमानाधिकरणात्यन्ताभावप्रतियोगिभूतधर्मत्वात् धर्मत्वाद्वा कपिसंयोगवदित्यनुमानेनास्तित्वादावव्याप्यवृत्तित्वसिद्धौ तदन्यथाऽनुपपत्त्याभ्युपगम्यमानशाखामूलात्मकभिनमिन्ना. बच्छेदकावच्छेदेनैकस्मिन् वृक्षे कपिसंयोगतदभावयोरिव घटायेकैकवस्तुषु तत्तन्नयार्पणया भिन्नाभिन्ननिमित्तरूपावच्छेदकावच्छेदेन सच्चतदभावभेदाभेदनित्यत्वानित्यत्वादिसर्वधर्माणां सत्त्वेन निमित्तभेदापेक्षया तत्वदभावप्रतिपादनरूपकथञ्चिद्विध्यात्मा यस्स्याद्वादस्सोऽपि सप्तभङ्गथपेक्ष एव, नैकभङ्गापेक्षा, तेनैकस्यैव प्रकारस्य प्रतिपादनेन सप्तविधजिज्ञासाऽपूर्तेश्शान्ताकासात्वाभावात् । ननु " इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च” ॥४३॥ इति प्रमाणनयतत्त्वालोकालङ्कारग्रन्थवचनादेकस्यापि भङ्गस्य विकलादेशत्ववत् सकलादेशत्वात्
"कालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा ।
गुणिदेशार्थशब्दाश्चे,-त्यष्टौ कालावयस्स्मृताः॥१॥" इति पद्योक्तकालादिभिरष्टाभिारः पर्यायार्थिकनयसापेक्षद्रव्यार्थिकनयेनाऽभेदप्राधान्याद् द्रव्यार्थिकनयसापेक्षपर्यायार्थिकनयेनामेदोपचाराद्वा योगपधेन प्रमाणप्रतिपनानन्तधर्मात्मकस्य वस्तुन एकधर्ममुखेन तदन्येषां सर्वेषां धर्माणां प्रतिपत्तिजनकत्वेनास्तित्वाद्येकै कधर्मज्ञानेऽपि तद्धर्मद्वारा तदमिन्ननिखिलधर्मावबोध इति तद्घटकतया सप्तधर्मप्रतिपत्तिरप्ये. केनापि भङ्गेन सजातैवेति सप्तभङ्गकल्पनया किम् , तथापि तथाकल्पने आधेन भङ्गेन यदेव प्रमाणप्रतिपन्नानन्तधर्मात्मकं वस्तु प्रतिपादनीयं तदेव द्वितीयादिनेत्यर्थैक्यात् पौनरुत्यं स्यादिति चेत्, सत्यम् , तथापि भावार्थाऽनवबोधान्न युक्तम्, आधादिभङ्गेन स्वद्रव्यक्षेत्रादिनिमित्तापेक्षकास्तित्वादिमुखेन तदभिन्ननास्तित्वाचनन्तधर्मात्मकस्य वस्तुना प्रतिपाद: नेऽपि परद्रव्यक्षेत्रादिनिमित्तापेक्षकनास्तित्वादिमुखेन तेनाऽप्रतिपादितस्यानन्तधर्मात्मकवस्तुनो द्वितीयादिभङ्गेन प्रतिपादनेन पौनरुक्याऽभावात् , तस्मादेकस्यापि भङ्गस्य वस्तुनि तत्प्रतिपाद्यैकधर्मद्वारा तदभिन्नतदितराशेषधर्मप्रतिपादकत्वेऽपि तत्रैतनिमित्तापेक्षयाऽयं धर्म
"Aho Shrutgyanam"