________________
१६९
सम्मति• काड, पा... शतवर्षजीवीत्युपदेशश्रवणानन्तरमयं कररेखाविशेषवानिति ज्ञाने सति पथाऽयं शतवर्षजीवीति सङ्कलनात्मकं प्रत्यभिज्ञानम् , तादृशविषये मानान्तरानवकाशात, तथा सर्व वस्तु सप्तमङ्गीसमभिरूढधर्मात्मकमित्युपदेशं श्रुतवत इदं वस्त्विति ज्ञानानन्तरमेवेदं सप्तमङ्गीस. मभिरूढतत्ताश्रयाऽभिन्नमिति प्रत्यभिज्ञान व्युत्पन्नानां न दुर्घटमिति दिक्" इति ग्रन्थेन । एतेन वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेनैकैकमङ्गस्य सप्तमङ्गयाश्च प्रयोक्तीने प्रत्यक्षाद्यात्मके तत्तद्भङ्गप्रतिपाद्यतत्तद्धर्मस्य सप्तमङ्गीप्रतिपाद्यसप्तधर्माणाश्च प्रतिभासनं स्थादित्यारेकापीष्टत्वेन निराकृतेति । यतो यदा परोक्षज्ञानात्मके प्रत्यभिज्ञाने क्षयोपशम. विशेषात्स्याद्वादव्युत्पत्तिसहकृतात्सप्तमङ्गीसमभिरूढसप्तधर्मभानं युक्तितो निष्टङ्कितं तदा प्रत्यक्षेऽपि तथैव सामग्रीसम्पच्या तथाभानस्य को वारयितेति विदांकुर्वन्तु सुधियः। ननु कि वाक्यं पूर्णोत्तरं किञ्चांशोत्तरमिति जिज्ञासापुरस्सरं प्रश्नोद्भवे किमुत्तरमिति चेत्, उच्यते, स्वेतरांशीदासीन्येन स्वविषयवस्त्वंशमात्र प्रतिपादनपरं प्रतिभङ्गरूपं वाक्यमंशोत्तरम् , तस्य खण्डवाक्यरूपतया देशजिज्ञासानिवर्तकत्वात् , अनन्तधर्मात्म के वस्तुन्येकैकपर्यायमाश्रित्य क्रमेण युगपद्वा विधिनिषेधप्रधानभावनोत्पद्यमानस्यात्कारलाञ्छितसप्तविधधर्मप्रकारकसप्तविधसंशयमूलकसप्तविधजिज्ञासाऽऽधीनसप्तविधप्रश्नतद्विषयविषयकज्ञानहेतुकप्रतिपिपादयिषापूर्वकाविरुद्धसप्तविधधर्मप्रकारकैकधर्मिविशेष्यकशाब्दबोधजनकतापर्याप्तिमत्साक्षात्परम्पराव. टिततदुत्थापिताऽऽकासानिवर्तकत्वतनिवर्तनीयाकाजोत्थापकत्वान्यतरवत्सप्तमगात्मकमहा-- वाक्यमेव च पूर्णोत्तरम् , प्रतिपर्यायं विधिनिषेधप्रकारापेक्षया सप्तभिरेव धर्जिज्ञासितस्य वस्तुनस्तावद्भिरेव धर्मेरभिधानेन श्रोतुरभिलषितपोधोपपत्तेजिज्ञासान्तरानुदयादुक्तवाक्यस्य शान्ताकासात्वात् । ननु यद्यपि महावाक्यार्थबोधे तत्तत्खण्डवाक्यार्थबोधस्य कारणत्वेन भवतु पूर्व तत्तत्खण्डवाक्यार्थबोधः, पश्चान्महावाक्यार्थबोधः, तथापि स्वद्रव्यक्षेत्रादिरूपेण घटस्स्यादस्त्येवेति प्रथमभङ्गरूपखण्डवाक्यतः स्वद्रव्यक्षेत्रायवच्छिन्नप्रधानीभूतकथञ्चिद. स्तित्वप्रकारकपटविशेष्यकबोधः प्रथम, पश्चात्परद्रव्यादिरूपेण घटस्स्यानास्त्येवेति द्वितीय. मङ्गजन्यः परद्रव्याधवच्छिन्नप्रधानीभूतकथञ्चिन्नास्तित्वप्रकारकघटविशेष्यकबोधः तत्पश्चा तृतीयादिभङ्गजन्यबोध इत्येवं सप्तविधबोधक्रमे को हेतुरिति चेत्, तत्र वाक्यक्रमगर्भतात्पर्यज्ञानमेव हेतु:, यद्वा पूर्वपूर्वभङ्गजन्यशाब्दबोधानामुत्तरोत्तरभङ्गजन्यशाब्दबोध. कारणत्वेन कारणक्रमात्कार्यक्रम इति सामान्यनियमावष्टम्भेन ताशकारणक्रम एव हेतुः। सदुक्तं खण्डखाये न्यायाचार्यैस्तातपादश्रीयशोविजयोपाध्यायः-" औदासीन्येन स्वार्थावधारणमात्रपरत्वेऽप्यंशोत्तरम् । सप्रतिपक्षधर्मद्वयस्थले सप्तधर्मजिज्ञासया सप्तमिः प्रश्नर्मिथः साकाङ्क्षसप्तभङ्गात्मकमहावाक्यस्यैत्र पूर्णोत्तरत्वात् , सबलं हि वस्तु यावद्धमैजिज्ञासितं तावद्धर्माऽभिधान एव वाक्यं निराकाङ्क्ष भवति, भङ्गार्थबोधक्रमो वाक्यक्रमगर्भवात्पर्य. २२
"Aho Shrutgyanam"