________________
६८
सम्मति० काम , गा. ४. सहयात्, द्वितीयत्तीयमङ्गसंयोगे षष्ठभङ्गावकाशस्स्यात् , प्रथमद्वितीयतृतीयसंयोगे सप्तममङ्गो लब्धस्स्यात् , प्रथमचतुर्थादिभङ्गकल्पनायां पौनरुक्त्यदोषापत्तिस्स्यादिति । किञ्च प्रथमचतुर्थसंयोगे न भङ्गान्तरप्रवृत्तिः प्रथमभङ्गप्रतिपाद्यचतुर्थभङ्गप्रतिपाद्ययोर्धर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्याऽसम्भवात् , विवक्षितस्वरूपादिना सत्त्वस्यैक्यांत , तदन्यस्वरूपादिना द्वितीयस्य सच्चस्य सम्भवेऽपि विशेषादेशात्तत्प्रतिपक्षभूताऽसत्त्वस्यापि परस्य मावादपरधर्मः सप्तकसिद्धेः सप्तभङ्गयन्तरसिद्धिस्स्यात् । एवं द्वितीयचतुर्थभङ्गसंयोगेनापि न भङ्गान्तर. प्रवृत्तिः, पूर्ववनास्तित्वद्वयाऽभावाद , न चात्र युगपदस्तित्वनास्तित्वोमयापेक्षया स्यादवक्त. व्य एव घट इति तृतीयभङ्गप्रवृत्तिवदस्तित्वादिप्रत्येकनिमित्तापेक्षया वक्तव्यत्वमप्यस्तीति तत्प्रतिपादकस्याद्वक्तव्य एव घट इत्यष्टमभङ्गोऽपि किन्न स्यादित्याशङ्कनीयम् , यतो न हि स्याद्वादिनामयमभ्युपगमो यावन्तो धर्मा घटे सम्भवन्ति तावद्धर्मप्रतिपादका भङ्गा एकस्यां सप्तमङ्गयां निवेशनीया इति, तथा सत्यनन्तभङ्गथेव स्यात् , न तु सप्तमङ्गी, किन्तु सप्तविधसंशयजिज्ञासापर्यनुयोगवशादस्तित्वादिप्रत्येकधर्माणामविरोधेन विधिनिषेधकल्पनया सप्तधर्मप्रतिपादिका सप्तमङ्गीत्येवाभ्युपगमः, तथा चात्रापि वक्तव्यत्वधर्म प्रधानीकृत्य तद्विधिनिषेधकल्पनया सप्तधर्मप्रतिपादिका स्याद्वक्तव्यत्वधर्मप्रतिपादकप्रथमभङ्गोत्थापिताकासाकमेण जायमानाऽन्येव सप्तभङ्गीत्यभ्युपगन्तव्यम् । अनन्तधर्मात्मके वस्तुनि प्रतिधर्म सप्तभङ्ग्या नियतत्वादिति । ननु सप्तभङ्गीजन्याखण्डशाब्दबोध इव किमन्यज्ञानेऽपि सप्तधर्मावभासो भवति न वेति चेत्, तत्प्रतिमासे स्याद्वादव्युत्पत्तेरपि प्रयोजकतया स्याद्वादाऽव्युत्पन्नस्य प्रत्यक्षादिज्ञाने तदप्रतिभासेऽपि तद्व्युत्पन्नस्य ज्ञाने तत्प्रतिमासो भवत्येव, अत एव न्यायाचार्य श्रीमद्भिर्यशोविजयोपाध्यायैमहावीरस्तवे प्रत्यभिन्नाविचारे"पर्यायतो युगपदप्युपलब्धभेदं, किं न क्रमेऽपि हि तथेति विचारशाली। स्याद्वादमेव भवतः श्रयते स भेदा-भेदक्रमेण किमु न स्फुटयुक्तियुक्तम् ॥२७॥"
इति पद्येन शाब्दबोधातिरिक्तस्यापि भेदाभेदोभयात्मकस्यादर्थविषयकस्य प्रत्यभिज्ञानस्यापि स्यादभिन्न एवं स्याद्भिन एवेत्यादिसप्तभङ्गीसमभिरूढसप्तधर्मविषयकत्वमावेदितम् , व्युत्पादितश्चैतदेव तट्टीकायां न्यायखण्डखाद्याभिधायां तैरेव-" एवञ्च स्यात्स एव स्यादऽस एवेत्यादिसप्तभङ्गक्रमानुरोधी प्रत्यभिज्ञानबोधो वक्तव्य इत्यर्थः। एवं सति तदिदन्तास्पदाभेदविषयकमेव प्रत्यभिज्ञानमिति प्रवादस्य कथमुपपत्तिरिति चेत्, स्याद्वादव्यु. त्पन्नापेक्षयेति प्रतीहि । स्याद्वादव्युत्पत्तेः केहोपयोगः शाब्दबोध एव तदुपयोगादिति चेत्, न, स्वप्रभवसंस्कारोत्पन्नमतिज्ञानद्वारा तत्र तदुपयोगात्, अत एव कारणसाम्राज्य मपि दर्शितम् , तथाऽनुभवस्मरणयोः स्वप्रयोज्यक्षयोपशमद्वारकयोस्तथाप्रत्यभिज्ञानकार• णयोः सत्त्वाद, उद्देश्यविधेयमावविपर्ययस्याप्यैच्छिकत्वात् । वस्तुतः कररेखाविशेषवान्
"Aho Shrutgyanam"