________________
अम्मतिः काण, गा० .. भानानुपगमेऽपि संसर्गविधया भानाम्युपगमे न काऽपि क्षतिः। एवं द्वितीयादिभङ्गजन्यबोधेऽपि प्रकृतधर्मात्मकत्ववत् तदितराशेषानन्तधर्मात्मकत्वस्यापि प्रकारविधया संसर्गविधया बोक्तदिशा मानमालोचनीयमिति । अत्राष्टसहस्रीविवरणे इत्थं विवेचितम्-प्रमाणवाक्यानां सर्वैः पदैमिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन. एव तात्पर्यम् , वेदान्तवाक्यानामिवाखण्डब्रह्मबोधने, तथा च स्यादस्त्येव द्रव्यमित्यतः स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्ति. त्ववदेव द्रव्यमिति प्राथमिकबोधानन्तरं तसादनन्तधर्मात्मकमेव सर्व वस्त्वित्यौपादा. निकबोधः सकलादेशजन्यस्स्वीक्रियते, स च द्रव्यार्थिकार्पणयाऽनुपचरितकविशेष्यताका पर्यायार्पणया चोपचरितैकविशेष्यताक इति तात्पर्यार्थमादाय तत्र न प्रधानैकार्थत्वव्यापातः, सकलादेशान्यार्थ एवं गुणप्रधानभावेन बोधकत्वनियमस्य चरितार्थत्वादित्यादि । स्यात्पदाऽलाञ्छितोऽवधारणैकस्वभावः अस्त्येवेत्यादिदुर्नया, एवकारेणेतरधर्मतिरस्कारेणैकान्तास्तित्वस्य तत्प्रतिपाद्यतयाऽभिमतस्य शशशृङ्गकल्पतयाऽसत्त्वाद् यथार्थतद्विषयकबोधस्यासम्भवेन तजनकत्वाऽसम्भवात् । अस्तीत्यादिका सुनयः, न तु स स्यात्कारवकारविनिमुक्तत्वेन धर्मान्तरोपादानप्रतिषेधाऽकरणात् स्वार्थमात्रप्रतिपादनप्रवणोऽपि व्यवहाराङ्गम् , स्यादस्त्येवेत्यादिकस्तु सुनय एव व्यवहारकारणम् , स्वपरानुवृत्तव्यावृत्तवस्तुविषयकप्रवर्त्तकवाक्यस्य व्यवहारकारणत्वात् । स्यादस्त्येवेत्यत्रास्तित्वरूपं यत्सामान्यं तदेवानुगतरूपं तदात्मकतया कथञ्चिदस्तित्वस्य विपरीतं सर्वथाऽस्तित्वं कथश्चिदस्तित्वात्मकस्वावच्छेदकावच्छेद्यनास्तित्वश्च तदेव तत्रावर्चमानत्वादेवकारव्यवच्छेद्य, तद्वथावृत्ततया च वस्तुनो भासमानत्वादुक्तवाक्यजन्यबोधस्य तथाविधार्थप्रवृत्तिजनकत्वेन तजनकोक्तवाक्यस्य स्वपरानुवृत्तव्यावृत्तवस्तुविषयकप्रवृतिजनकबोधजनकत्वेन व्यवहारकारणत्वमुपपद्यत एवेति । एवं स्यादस्त्येव स्यान्नास्त्येवेत्यादिसप्तभङ्गीवद् वस्तु स्यानित्यमेव ।११ स्यादनित्यमेव ।२। स्यादवक्तव्यमेव ।३। क्रमतः स्यानित्यमेव स्यादनित्यमेव ।४।इत्यादिसप्तभनथपि ज्ञेया, यथायोगमेतत्सप्तमङ्गीव्यवस्थापनप्रक्रिया नयप्रमाणापेक्षया योजनीया, अत्र च नित्यत्वानित्यत्वादि. व्यवहारे आकाशघटादौ द्रव्यार्थत्वपर्यायार्थत्वयोस्तुल्यवदाकाशत्वघटत्वादीनां च स्यास्पदद्योतनमर्यादया प्रतिस्वं ग्रहानातिप्रसङ्गः, नयवाक्येऽपि यद्धर्मविशिष्टविशेष्यवाचकपदसममिव्याहारेण नित्यत्वादिविशिष्टवाचकं पदं प्रयुज्यते तद्धविच्छेदेन तत्र नित्यत्वादिबोधन एवं तत्साकाङ्क्षामित्याकाशमनित्यं घटो नित्य इत्यादेनेयवाक्यस्य न प्रयोग इति बोध्यम् । नन्वनन्तधर्मात्मके वस्तुनि प्रतिपर्याय सप्तैव भङ्गा इत्यत्र किं वीजमिति चेत् , उच्यते, संशयजिज्ञाझाप्रतिपाद्यपर्यनुयोगानां कार्यकारणभावापन्नानां सप्तविधत्वात् तत्प्रयुक्तभङ्गा अपि सप्तविधा एव; संशयादीनां सप्तविधत्वमपि स्वगोचरास्तित्वादिधर्माणां सप्तविधत्वस्यैवोपपत्ते, तथा च नाधिकभङ्गावकाशः । तथाहि-प्रथमद्वित्तीयभङ्गप्रतिपाद्यसत्त्वासत्त्वयोः क्रमेण विवक्षणे चतुर्थभङ्गप्रवृत्तिा, युगपद्विवक्षणे तृतीयमङ्गप्रवृत्तिः प्रथमत्तीयमङ्गसंयोगे पश्चमभङ्गाप्रसर
"Aho Shrutgyanam"