________________
सम्मति काण्ड , गा० ४०. 'आइडो' इत्यस्यात्राप्यनुकर्षणात् आदिष्टः विवक्षितः 'तं नत्थि अवत्तव्वयं च होह दवियं वियप्पवसा' तद् द्रव्यं नास्ति चावक्तव्यं च भवति विकल्पवशात् , अयम्भाव:-यद्यप्यनेन भङ्गेन तत्तदपरावयवावेवोक्तधर्माकान्ताविति प्रतिपादितं तथाप्यवयविनि तव्यपदेश्यावयवाग्मेदोपचारादवयविरूपद्रव्यमपि तव्यपदेशमासादयति । देशानुपरक्तद्वितीयत्तीयभङ्गव्युदासेनायं षष्ठो भङ्गः प्रवर्तते ॥ ३९ ॥
देशेऽस्तित्वस्य देशे नास्तित्वस्य देशे च युगपदस्तित्वनास्तित्वोमयोर्विवक्षायां चतुर्थभङ्ग मूलाधमङ्गापेक्षया सप्तमभङ्गं प्रतिपादयितुमाह
. सम्भावासम्भावे, देसो देसो य उभयहा जस्स ।
तं अस्थि नत्थि अवत्त-व्वयं च दवियं वियप्पवसा ॥ ४०॥ 'जस्स' यस्य देशिनो 'देसो' देश एकः । 'सब्भावासम्भावे' सद्भावे सत्त्वे निश्चितः, 'देसो य' देशश्च द्वितीयः असद्भावे असत्वे, तृतीयस्तु 'उभयहा' सत्त्वासत्त्वोभयप्रकारेण युगपदादिष्ट इत्येवं सद्रूपासद्रूपावक्तव्यरूपव्यपदेश्यदेशाऽमेदोपचाराद्रव्यमप्यस्ति च नास्ति चावक्तव्यश्च भवतीत्याह-'तं अस्थि नत्थि अवत्तवयं च दवियं विअप्पवसा' इति । अनया विशिष्टविवक्षयाऽऽद्यमङ्गत्रयव्युदासः, एते च परस्परसाकाङ्क्षस्वभावेन सप्तमङ्गथास्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति, नान्यथेति प्रत्येकं तत्समुदायो वा सप्तमङ्गात्मका प्रतिपाद्यमपि तथाभृतं दर्शयतीति सम्प्रदायविदो वदन्ति । तत्र प्रतिपर्यायं जिज्ञासितसप्तधर्मप्रकारकैकधर्मिविशेष्यकशाब्दबोधजनकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तमङ्गीत्वं समुदाय एव, निरुक्तजनकत्वाधिकरणवाक्यत्वरूपं च तत्प्रत्येकमपीति विवेकः, अत एवं स्यात्पदार्थलाञ्छितविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्य सप्तमङ्गथात्मकमहावाक्यैकवाक्यतापनवाक्ये, अन्त्यश्चोदासीने धर्मान्तरोपादानप्रतिषेधाऽकारिणि, इत्थश्च स्यादस्तीत्यादि प्रमाणम् , तेनास्तित्वत्वेन रूपेणास्तित्वस्य तदभिन्नस्वेतरसकलधर्माणाञ्च प्रतिपादनात् । अयम्भाव:-अस्तिपदेन स्यात्पद. लाञ्छितेन स्वेतरानन्तधर्माभिन्नास्तित्वत्वेन रूपेणास्तित्वं धर्मिणि प्रतिपाद्यते, तदानीं प्रकारतया भासमानेऽस्तित्वेऽभेदसम्बन्धेन तद्विशेषणतया धर्मान्तराणामपि प्रथमभङ्गजन्यबोधे भानमिति तद्विशिष्टस्य भाने तस्यापि भानमिति न्यायेन धर्मान्तराणामपि धर्मिणि भानमिति प्रकारमुद्रया सर्वधर्मावगतिः प्रथमभङ्गात् । अथवाऽस्तित्वधर्मस्य स्यात्पदमहिम्ना स्वस्वेतरानन्तधर्मात्मकत्वसम्बन्धेन धर्मिणि प्रकारतया भानम् , तथा चाऽस्ति. स्वेतराऽशेषानन्तधर्मात्मकत्वस्य संसर्गविधया धर्मिणि भानम् । तथा च स्वामिन्नानन्तधर्मात्मकत्वसंसर्गेण. स्वाश्रयविशेष्यकैकधर्मप्रकारकबोधः, एवञ्च धर्मान्तराणां पदान्तरादनुपस्थितत्वेऽपि संसर्गविधया शाब्दबोधे भानस्योपपत्तिा, अनुपस्थितस्यार्थस्य प्रकारविधया
"Aho Shrutgyanam"