________________
सम्मति०] काण्ड १ ० ३९
१६५
तस्यैव धर्मिणोऽपरो देशच ' उभयहा ' उभयथा, अस्तित्वनास्तित्वोभयप्रकारेण युगपदेव
•
आइडी' इत्यस्यात्राप्यनुकर्षणात् आदिष्टः अस्तित्वानुविद्ध एवावक्तव्यत्वस्वभावे विवक्षितः, अन्यथा तदसत्त्वप्रसक्तेः, न ह्यस्तित्वाभावे उभयाप्रविभक्तता शशशृङ्गादेखि तस्य सम्भविनी । उक्तप्रकारादेशेन द्रव्यं किं स्वरूपं प्रतिपादकेन प्रतिपादितं भवतीत्यत आह' तं अस्थि अद्यत्तवयं च होइ दवियं ' तद्द्रव्यमस्त्यवक्तव्यश्च भवति, ननु घटाय वयविद्रयस्यैवैको देशोऽव्यक्तव्यत्वानुविद्वस्वभावेऽस्तित्वेऽपरश्चास्तित्वोपरक्तावक्तव्यत्वस्वभावे पूर्वार्देन विवक्षित इति द्रव्यं कथं तथाविधं प्रतिपादकेन व्यपदिष्टं भवतीत्याशङ्कानिवृत्त्यर्थमाह- -" विष्पवसा" इति, विकल्पवशादुक्तोभयधर्माक्रान्तदेशद्वारेण धर्मिणो विवक्षावशात् । अयम्भावः- तद्धर्मविकल्पवशाद्वर्मयोस्तथा परिणतयोस्तथाव्यपदेशे धर्म्यपि तद्वारेण तथैव हि व्यपदिश्यते । ननु प्रथमतृतीयभङ्गाभ्यामेवैतद्भङ्गकार्यसिद्धेः किमनेन भङ्गेनेति चेत्, उच्यते, आद्येन भङ्गेन संशयजिज्ञासाप्रश्नद्वारा द्रव्येऽस्तित्वमात्रं, तृतीयभङ्गेन चावक्तव्यत्वमात्रमेव प्रतिपाद्येनाधिगन्तुमिष्टं प्रतिपादकेनापि देशाविशेषितद्रव्य एव केवलधर्मविवक्षया तथैवाऽऽद्यतृतीयभङ्गाभ्यां प्रतिपादितम् अनेन भङ्गेन तु प्रतिपाद्येन संशयजिज्ञासामूलके किं द्रव्यमस्ति चाऽव्यक्तव्यञ्चास्ति न वेति पुनः प्रश्ने कृते प्रतिपादकेन प्रतिपाद्यप्रश्नानुबोधेनानन्तधर्मात्मकस्य धर्मिण उक्तोभयधर्माक्रान्तदेशद्वारोभयधर्माक्रान्तत्वेन प्रतिपादयितुमिष्टत्वादस्य ताम्यां भङ्गाभ्यां सुस्पष्ट एव मेद इति । अत्रेदमवधेयम् - तद्रव्यमस्त्यवक्तव्यश्च भवतीत्यत्र चकारवलाइ 'एकत्र द्वयम् ' इति न्यायेन विदेशे दण्डी कुण्डली चेत्यत्र विभिन्नदेशावच्छेदेन चैत्रे दण्डकुण्डलयोरिव प्रकृते घटे विभिन्नदेशावच्छेदेनाऽस्तित्वाऽवक्तव्यत्वयोः परस्पराऽविशेषणीभूतयोरेव शक्त्या भानं स्यादित्यतः प्रकृतेऽस्त्यवक्तव्य पदयोर्देशाऽस्तित्व विशिष्ट देशाऽवक्तव्यत्वविशिष्टयोरेव तात्पर्यानुपपत्त्या लक्षणा स्वीकार्या तयोश्च तादात्म्येन वैशिष्ट्यबोधस्यैतद्भङ्गफलत्वात्, अयमेव परस्परानुवेधाऽर्थोऽपि दृष्टव्य इति । चतुर्थभङ्गेऽप्युभयप्रधानावयवभागेनैव विशेषोपदेशादत्राग्रेऽपि च तस्यैव विशेषस्याऽविशिष्टत्वादिति दिकू ।। ३८ ।।
देशेऽसत्वस्य देशे च युगपत्सच्वासत्वोभयोर्विवक्षणेन तृतीयभङ्ग मूलाद्यभङ्गापेक्षया षष्ठभङ्ग प्रतिपादयितुमाह
आइट्ठोsसम्भावे, देसो देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ॥ ३९ ॥
4 जस्स ' यस्य घटादिवस्तुनः 'देसो ' देश एकोऽवयवः, ' असम्भावे ' असद्भावे ' आइट्ठो' आदिष्टः, असन्नेवायमित्यवक्तव्यत्वानुविद्धेऽसत्त्वे विवक्षितः, 'देसो य अपर देशोsसानुविद्धे ' उमयहा ' युगपत् सत्त्वासत्त्वोभयप्रकारेणावक्तव्यत्वस्वभावे
1
"Aho Shrutgyanam"