________________
पम्मति० काण्ड १, गा• ३॥ प्रवृत्तेनोक्तदोष इति अवयवगतसत्त्वासत्त्वधर्माभ्यामवयव्यपि तथाधर्माकान्तो वाच्य इत्याह'तं दवियमत्थि णत्थि य ' तद्रव्यमस्ति च नास्ति चेति भवति, तत्र हेतुमाह-" आएसविसेसियं जम्हा" यस्मात्तद्रव्यमादेशविशेषितम् , आदेशेनोभयप्रधानावयवभागेन विशेषितम्, सत्त्वासचोभयप्रधानकावयवद्वयाभेदेनापितं तद् द्रव्यं यस्मादिति यावत् , तथाहिएकोऽवयवोऽस्तित्वविशिष्टोऽपरश्च नास्तित्वविशिष्ट इत्यस्तित्वनास्तित्वधर्माश्रयावयवाभ्यां सह यद्रव्यमभिन्नतया विवक्ष्यते तद्रव्यमस्ति नास्ति चेति व्यवहियते, तथा स्वद्रव्यक्षेत्रकालभावैर्विभक्तो घटः स्वद्रव्यादिरूपेणास्ति, परद्रव्यादिरूपेण च स एव नास्ति, अवय. वेन विशिष्टधर्मेण विभज्यैकमादिश्यमानं सुप्रसिद्धमेव, यथैक एव पुरुषो विवक्षितपर्यायेण बालादिना परिणता, कुमारादिना चापरिणत इति । अत्र यस्मात्तद्रव्यमादेशविशेषित. मित्यस्योभयप्रधानावयवाभेदेनाऽर्पित स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितैकविशेष्यताकौपादानिकबोधेच्छाविषयीकृतमिति यावत् , इत्यष्टसहरुयामर्थः कृत इति । अत्र यथा श्रुते घटपदस्य देशपरस्यावृत्त्या प्रकारताद्वयनिरूपितविशेव्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोधपर्यन्तानुधावनम् , एवमग्रेऽपि बोध्यम् । नन्वाद्यभङ्गेनाऽपि स्वद्रव्यादिना घटस्सन्निति द्वितीयभङ्गेनापि च परद्रव्यादिना घटोs. सन्निति विभज्यत एव घट इत्याद्याभ्यां भङ्गाभ्यां कोऽस्य भङ्गस्य विशेष इति चेत् , उच्यते, तत्रास्तित्वनास्त्विावच्छेदकद्वारा विभागेऽप्यवयवद्वारा विभागामावः, अत्र तु तद्द्वारा विभाग इत्यस्य विशेषो ज्ञेय इति । नन्वत्रावयवावयविनोः कथश्चिदभेदादवयवद्वारा ' कुण्ठो देवदत्तः' इत्यत्रेव तद्धर्माणामवयविनि व्यपदेशः कृतः, न तु साक्षादित्यवयवद्वारा विभागकरण एव किं वीजमिति चेत् ? सावयवनिरवयवात्मकवस्तुनस्तथाप्रतिपत्तिजनक सावयवनिरवयवत्वशवलैकखरूपवाक्यत्वेन तादृशवाक्यस्य प्रामाण्यरक्षार्थम् , अर्थात् एकस्थापि वस्तुनस्सावयवनिरवयवस्वरूपतया द्विविधत्वे तत्प्रतिपादकवाक्यस्यापि सावयवनिरवयवतया द्विविधत्वे सत्येव याथायन तत्प्रतिपादकत्वं सम्भवति, तत एव च तत्रार्थे तस्य प्रामाण्यमपि निवेहतीति सूचितं भवति ॥ ३७॥
एकस्य देशस्य सत्वेन प्राधान्यविवक्षणेनापरस्य च युगपत्सत्यासत्त्वोमयरूपेण प्राधान्यविवक्षणेन द्वितीयभङ्गं मूलाधभङ्गापेक्षया पञ्चमभङ्गं प्रतिपादयितुमाह---
सम्भावे आइट्ठो, देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं, च होइ दविअं वियप्पवसा ।। ३८ ॥ 'जस्स' यस्य घटादेर्धर्मिणः, 'देसो' एको देशोऽवयवः, 'सम्भावे ' सद्भावेऽस्तित्वेऽव्यक्तव्यत्वानुविद्धस्वभावे 'आइट्ठो' आदिष्टो विवक्षितः, अन्यथा तदसत्चप्रसङ्गात् ,न झपरधर्माप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति, खरविषाणादेरिख, 'देसो य'
"Aho Shrutgyanam"