________________
सम्मति० काण्ड , गा० ३७
१६३ .. अथ विधिमुख्यविषयताकबोषजनक आधभङ्गा, निषेधमुख्यविषयताकबोषजनको द्वितीयभङ्गः, युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वमुख्यविषयताकस्तृतीयभङ्ग इत्येवं प्राधात्येनैकैकधर्मप्रतिपादकं भङ्गत्रयं निरवयववाक्यरूपं प्रतिपायाधुना क्रमात्सत्त्वासत्त्वोमय. मुख्यविषयताकबोधजनकं स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया चतुर्थभङ्गं सावयववाक्यरूपं प्रतिपादयितुमाह-यद्वाऽऽद्येन भङ्गेन प्राधान्येन सत्त्वे द्वितीयेन च प्राधान्येनासरवे तृतीयेन च प्राधान्येनाऽवक्तव्यत्वे प्रतिपादिते सति घटादिकं वस्तु प्राधान्येनैकैकधर्माकान्तमिव तत् स्यादस्त्येव स्यानास्त्येवेत्येवं क्रमार्पितोमयधर्मा. क्रान्तमस्ति न वेति संशये सति तत्प्रभवया क्रमेण स्यादस्तित्वस्यानास्तित्वोभयधर्मविषयक शानं मे जायतामिति जिज्ञासया तादृशोभयधर्मविषयकप्रश्नवाक्यं घटादिकं क्रमेण स्यादस्ति स्यामास्ति न वेत्याकारकमुचारयतः श्रोतुः तदीयजिज्ञासाविशेषं तथाविधेन प्रश्नावगम्य वक्ता जिज्ञासाकारणसंशयनिवृत्तिर्यादृशवाक्यात्स्यात् तादृशमेवोत्तरवाक्यरूपं घटादिकं क्रमेण स्यादस्त्येव स्यानास्त्येवेत्याकारकं चतुर्थमङ्गं प्रतिपादयत्राह-यद्वा विवक्षाकृतप्रधानभावसदाधेकधर्मात्मकस्यापेक्षितापराऽशेषधर्मक्रोडीकृतस्य . वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात्प्रतीतेः स्यादस्त्येव घटः । १। स्यानास्त्येव घटः।२। स्यादवक्तव्य एव घटः । ३ । इत्येतद्भङ्गत्रयं प्रतिपाद्य विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य स्यात्पदाङ्कितचतुर्थादिभङ्गवाक्यात् प्रतिपत्तेस्स्यादस्त्येव स्यानास्त्येव घटः।१। स्यादस्त्येव स्यादऽवक्तव्य एवं घटः।२। स्यानास्त्येव स्यादवक्तव्य एव घटः ।३। स्यादस्त्येव स्यानास्त्येव च स्यादवक्तव्य एव घटः । ४॥ इत्येतद्वक्ष्यमाणभङ्गचतुष्टयं द्वित्रिसंयोगात्मकं प्रतिपादयिषुस्तत्राद्यभङ्ग मूलाधभङ्गापेक्षया चतुर्थभङ्गं प्रतिपादयितुमाह
अह देसो सम्भावे, देसोऽसम्भावपज्जवे णियओ।
तं दवियमत्थि नत्थि य, आएसविसेसियं जम्हा ॥ ३७॥ 'अह'-यदा, देसो-देशो वस्तुना एकदेशः अवयवः 'सम्भावे' सद्भावे अस्तित्वे, णियओ-नियतः-सनेवेत्येवं निश्चितः 'देसो' अपरश्च देश: 'असम्भावपज्जवे' अस. दावपर्याये नास्तित्वाख्ये, णियओ-इत्यस्यात्राप्यनुकर्षणाद् नियता-असन्नेवेत्येवं नियमेनावगतः, ननु वस्त्वेकदेशरूपस्य वस्त्ववयवस्य नियतं क्रमार्पितं स्यात्सत्त्वं स्यादसत्त्वं चेत्येवं पूर्वार्द्धन वक्त्रा प्रतिपादितम् , श्रोत्रा जिज्ञासया पृष्टश्च घटादिवस्तु किं क्रमार्पितसचासत्त्वोभयधर्मान्वितमस्ति न वेति, तथा चार्थान्तरदोषस्स्यादिति चेत् , सत्यम्, तथाऽप्यत्राऽवयवेभ्योऽवयविनः कश्चिदभेदो विवक्षित इति अक्षिगतकाणत्वयोगात्पादगतखञ्जस्वयोगाच्च काणा खञ्जश्च देवदत्त इत्यत्रेवावयवधर्माणामवयविनि व्यपदेशाचतुर्थभङ्ग
"Aho Shrutgyanam"