________________
पम्मति• काम , गा• ३६. महासामान्यस्वरूपसत्त्वस्य वा प्रतिपचये सन् घटोऽस्ति घट इत्यायेव प्रयुज्यते, अतोऽस्तिशब्दप्रतिपाद्यं सत्वमेव, न तु वृत्तित्वम् , अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते इत्यादिवचनतो नित्यद्रव्यभिन्नस्यैव वृत्तिमवलक्षणमाश्रितत्वमुररीकुर्वतो नैयायिकादेरपि गगनमस्ति आत्माऽस्ति ईश्वरोऽस्तीत्यादावस्तीत्यस्य वृत्तित्वार्थकत्वासम्भवात् सत्वमेवाऽर्थोऽभ्यु. पगतवीथीमवतरति, अस्तित्वं सवलक्षणं विधिस्वरूपं यथा वस्तुधर्मस्तथा नास्तित्वमपि तत्प्रतिपक्षभूतं विधिनिषेधात्मनो वस्तुनो धर्म एव, अस्तित्ववत्तस्याप्यखण्डत्वमेवेति घटो नास्तीत्यस्याप्यखण्डस्वरूपाऽसत्त्ववान् घट इत्येवार्थः, न तु अभावप्रतियोगित्ववान घट इति, अभावस्य निषेधरूपत्वेऽपि प्रतियोगित्वस्य विधिरूपत्वेन तद्योगानिषेधात्मकत्वाच्यवस्थानात् , भूतले घटोऽस्तीत्यादावपि सप्तम्या आधारत्वमर्थ इति प्राचीनमते तत्र प्रकृत्यर्थस्याधेयत्वसम्बन्धेनान्वयः,तस्य च घटे निरूपकत्वसम्बन्धेनान्वय इति, सप्तम्या आधेयत्वमर्थ इति नव्यमते तत्र प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः,तस्य च स्वरूपसम्बन्धेन घटेऽन्वय इति भृतले घट इत्येतावन्मात्रतो भूतलनिष्ठाधारतानिरूपको घट इति भूतलनिरूपिताधेयतावान् घट इति वा बोधः सम्भवत्येवेति अस्तीत्यधिकं पदं स्वरूपसत्त्वं महासामान्यलक्षणसत्त्वं वा प्रतिपादयदेव साफल्यमञ्चति, एवञ्च भूतलनिष्ठाधारतानिरूपको घटः सत्ववानिति भृतलनिरूपिताधेयत्ववान् घटः सत्ववानिति वा बोधो भूतले घटोऽस्तीति वाक्यप्रभवा, तत्र उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वय इति नियमाद्भूतलनिष्ठाधारतानिरूपकत्वस्य भूतलनिरूपिताधेयत्वस्य वा सच्चावच्छेदकत्वमायात्येवेति, धर्मिवाचकपदोत्तरसप्तमीविभक्तिसमभिव्याहारे नाऽत्यन्ताभावः प्रतीयते इति नियमाद्भूतले घटो नास्तीत्यतो भूतलविशेष्यकघटाभावप्रकारकबोधस्य सम्मवेऽपि तत्र भूतलनिरूपितवृत्तित्वाभावप्रकारकपटविशेव्यकबोधोऽप्यनुभूयते, नत्रऽसमभिव्याहारस्थले यद्धर्मप्रकारकयद्विशेष्यकबोधो भवति नञ्समभिन्याहारे तद्धर्माभावप्रकारकतद्विशेष्यकबोध उपजायत इति नियमात् । नमः समानानार्थक एव नास्तीति न तत्रास्तीत्यधिकमिति घटविशेष्यकभूतलनिरूपितवृत्तित्वाभावप्रकारकस्यैव बोधस्योक्तवाक्यात् सम्भवेऽपि भूतले घटानधिकरणत्वस्याप्यर्थतः प्रतीतिसम्भवेन भूतलावच्छेदेन घटे नास्तित्वस्यापि सच्चामावलक्षणासखस्वरूपस्याप्यवगमा सम्भवत्येव, अथवा भूतलनिष्ठाधारतानिरूपकत्वं भूतलनिरूपिताधेयत्वं वा घटस्य स्वरूपसवमेव, भूतलसंयुक्ततयोत्पन्नस्यैव घटस्य तद्रूपेण प्रतीते, कार्यसमानाधिकरणात्यन्ताभावप्रयोगितानवच्छेदकधर्मवत्त्वस्य कारणत्वरूपत्वे दण्डत्वमेव कारणत्वं तदवच्छेदकं च, तथैव भूतलनिष्ठाधारतानिरूपकत्वादिकमेव स्वरूपसत्वं तदवच्छेदकश्चेति, एवं भृतलनिष्ठाधारतानिरूपकत्वाभावो भूतलनिरूपितवृत्तित्वाभावो वाऽसत्वं तदवच्छेदकश्चेति । यत्र चाधिकरणवाचकपदसमवधानं नास्ति तत्रास्तिपदात्सत्त्वमेव प्रतीयते न तु वृत्तित्वम्, सनिरूपकस्य तस्य निरूपकमन्तरेण प्रतीत्यसम्मवादिति दिक् ॥ ३६॥
"Aho Shrutgyanam"