SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पम्नति. का-१, गा९ १६ खण्डस्वरूपत्वेऽपि तत्सनिविष्टं नावच्छेदकं स्वद्रव्यादिकम् , येन तद्घटितस्वरूपत्वादखण्ड. स्वरूपत्वं तस्य व्याहतं स्यात्, किन्तु स्वद्न्यादिना स्वद्रव्याद्यवच्छेदेन स्वद्रव्याद्यपेक्षया वा घटादेः सत्त्वमित्यादिप्रतीतिसिद्धं सत्त्वस्वरूपासन्निविष्टस्यापि स्वद्रव्यादेवछेदकत्वं सत्त्वनिरूपितं स्वीकरणीयमेव, एवं निरुक्तसवाभावलक्षणाखण्डासच निरूपितमवच्छेदकत्व. मपि परद्रव्यादिना परद्रव्याद्यवच्छेदेन परद्रव्याधपेक्षया वा घटादेरसस्वमित्यादिप्रतीतिसि. द्धमसत्त्वस्वरूपासनिविष्टस्यापि परद्रव्यादेः स्वीकरणीयमेव, एकस्यैव महासामान्यलक्षणस्य सत्त्वस्य सङ्ग्रहनयविषयत्वे स्वद्रव्यादिकं नास्त्येव, निरुक्तसत्वनिरूपितमवच्छेदकत्वादिकमपि नास्तीति कथं तन्नयाश्रितभङ्गः स्वद्रव्याद्यपेक्षया सत्वं प्रतिपादयेदिति तु नाशङ्कनीयम् , तथा सति तत्र प्रतिपाद्यपुरुषोऽपि नास्ति, प्रतिपादकः प्रमाताऽपि नास्ति, किञ्चिद्वचनमपि नास्तीति सङ्ग्रहः केवलं महासामान्यमेकमखण्डं स्वीकरोतीत्यस्यापि वचनस्य महासत्ताबनात्मकस्याभावात्तद्वक्तुमशक्यमेवेति व्यवहारमात्रोच्छेद एव स्यात् , तसादेकान्तसग्रहनयाभिनिवेशपरित्यागेनैव वचनादिप्रवृत्तिरिति प्रमाणविषयीकृते सत्त्वासत्त्वाद्यनेकान्तात्मके वस्तुनि घटादौ सवं सङ्ग्रहनयविषयो यद्येकान्तेन स्यात्तदा तत्प्रतिपक्षीभूतमसत्त्वं व्यवहारनयविषयस्तत्र न स्याद्विरोधादिति तद्विरोधभञ्जनाय स्याद्वादी स्यात्पदेन निमित्तभेदं तयोरुपदर्य विरोधमुपहस्तयति, निमित्तभेदेन तत्र सत्त्वं विषयीकुर्वतः सङ्ग्रहस्यासत्त्वं विषयीकुर्वतो व्यवहारस्य सुनयत्वमुपढौकयतीति सुनयाश्रिता सप्तभङ्गी प्रमाणतामाबिभ्रतीति,घटे स्वद्रव्याद्यपेक्षया सत्त्वं, महासामान्यमपि घटस्यैव स्वद्रव्यादिस्वरूपनियतं सङ्कचितस्वरूपं भवति,एवमसत्त्वादिकमपीति बोध्यम् । ननु सर्वस्य वस्तुनः सदसदात्मकत्वे सत्ता यथा सर्वगतका तथाऽ. सत्ताऽपि सर्वगतैकैव, एवञ्च सत्तैकैच असत्ता तु विशेषणभेदाद्भिद्यते इति प्राचीनोक्तिः कथं सङ्गतिमश्चतीति चेत् , उच्यते, सत्ता सङ्ग्रहनयविषयः, सहनयश्चैकमनेकानुगतं सामान्यमभ्युपैतीत्यतः सा भवत्येकैत्र, यद्यपि तस्या अपि घटसत्ता पटसत्ता मठसत्तेत्येवं घटवृत्तित्वपटवृत्तित्व-मठवृत्तित्वादिविशेषणभेदाढ़ेदो भवितुमर्हति तथापि विशेषणमेदाढ़ेद औपचारिक एव, उपचारश्च सहनयेन नेष्यत इत्यतो न तनयेन विशेषणभेदाझेदः, किन्तु विशिष्टशुद्धयोरक्यमेवेति, असत्ता तु सत्ताप्रतिपक्षभूता तदभावरूपा सम्भवत्येका, किन्तु व्यवहारनयविषयतयाऽभ्युपगता सा, व्यवहारनयश्च विशेषावगाहनप्रवणो न किश्चित्सर्वानुगतमेकमभ्युपतीत्यतो न सका, उपचारबहुलश्च व्यवहारः, पन्था गच्छति कुण्डिका प्रवति गिरि देहतीत्याधुपचारस्य तेनाभ्युपगमात् , तथा च विशेषणभेदानेदे सत्येवाननुगता सा व्यवहारनयविषय इति युक्तमुक्तमसत्ता तु विशेषणभेदाद्भिद्यत इति, यदेव स्वरूपसच्वं विभिन्न घटपटादीनां व्यवहारनयविषयस्तदेव परद्रव्याद्यपेक्षयाऽसवमित्युच्यते, तच विशेषरूपत्वादेवानुगतसामान्यरूपसत्तायाः प्रतिपक्षभूतमपि भक्तीति बोध्यम् , घटादेः स्वरूपसवस्य ११ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy