________________
सम्मतिः काग 1, गा• 0 तस्परिस्फूतौ तु सावच्छिन्नप्रकृतावच्छेदकपुरस्कारेणैव प्रतिनियतदेशदेशावच्छेदेन वा निर्णयस्त्वावयोः समानः, देशदेशस्य नावच्छेदकत्वमिति तु नीलपीतकपालिकास्थकपालसमवेतघटनीलप्रत्यक्षान्यथानुपपत्या परेण वक्तुमशक्यम्, तत्र नीलकपालिकावच्छिनचक्षुस्संयुक्तसमवायसम्बन्धावच्छिन्नाधारतयैव घटे नीलप्रत्यक्षोपपादनात् , इयोस्तु विशेष:-यत्परेषां देशदेशस्यावच्छेदकत्वं स्वाभाविकसम्बन्धविशेषेण, अस्माकं तु वैज्ञानिकसम्बन्धविशेषेण, तत्र परेषां परम्परासम्बन्धेन गोष्ठकोणस्य साक्षात्सम्बन्धेन कोणावच्छिमगोष्ठस्य गवावच्छेदकत्वमिति कोणे गौर्न तु गोष्ठे इति सूक्ष्मेक्षिकानुपपत्तिा, अस्माकं तु मध्यमनैगमभेदकृतवैज्ञानिकसम्बन्धेन गोष्ठकोण एव तथात्वं न तु गोष्ठ इति तदुपपत्तिा, न च कोणे गौ तु गोष्ठे इति सूक्ष्मेक्षिका न भवत्येव, किन्तु न तु सम्पूर्णगोष्ठ इत्येव, सा च यावत्कोणेषु गवावच्छेदकतावच्छेदकत्वपयोप्त्यभावमवगाहत इति परेषामपि नानुपपत्तिरिति वाच्यम्, एवं सति सम्पूर्णकोणेऽपि तदभावात्कोणे गोष्ठे गौरित्यस्याप्यनुपपत्तेर्नयविशेषकतसम्बन्धं विना न विचित्रप्रतीत्युपपत्तिरित्यधिकं नय. रहस्यादौ" इति । ननु सबहनयविषयं महासामान्यस्वरूपं सचमखण्डमेकं निरवच्छिमं प्रतिपादयन् प्रथमभङ्गः प्रवर्तत इति कथमस्य स्वद्रव्याचपेक्षया सन् घट इत्येवंरूपता, निरवच्छिनस्वरूपे निरुक्तसवे स्वद्रव्याद्यपेक्षत्वस्य स्वद्रव्याद्यवच्छिन्नत्वलक्षणस्याऽसम्भवात् , तथापि तथाप्रतिपादने तत्प्रतिपादकस्य प्रथमभङ्गस्य बाधितार्थकत्वापत्तिा, एवं निरुक्तसच. प्रतिपक्षभूताऽसत्ताऽपि तदभावरूपैका निरवच्छिन्नेति न तस्या अपि परद्रव्याघवच्छिन्नत्व. लक्षणं परद्रव्याद्यपेक्षत्वमिति व्यवहारनयविषयनिरुक्तासत्त्वप्रतिपादनप्रवणो द्वितीयभङ्गोऽपि परद्रव्याद्यपेक्षयाऽसन् घट इत्येवं रूपो न सम्भवति, निरवच्छिन्नस्यापि निरुक्तासत्वस्य सावच्छिन्नतया प्रतिपादने वा तथातत्प्रतिपादकस्य तस्यासम्भवितार्थप्रतिपादकत्वेन बाधितार्थकत्वापत्तिा, एवं भङ्गद्वयस्य बाधितार्थकत्वे तत्सापेक्षाणां तदनन्तरप्रवृत्तिकानां तृतीया. दिभङ्गानामपि बाधितार्थकत्वं स्यात्, तथा च निरुक्तसप्तभङ्गसमष्टिस्वरूपा सप्तमन्यपि बाधितार्थविषयाऽप्रमाणतामास्कन्दतीति सप्तभङ्गीवाक्यं प्रमाणवाक्यमिति सद्धान्तो जैनानां न सङ्गतिमश्चतीति चेत्, न, धर्मत्वेन हेतुना धर्ममात्रस्याव्याप्यवृत्तित्वं साधयतां स्याद्वादिनां मते निरवच्छिन्नत्वाखण्डत्वैकत्वादीनां महासामान्यसत्वगतानामन्याप्यवृत्तित्वेन महासत्ताया अखण्डत्वादिवत्सखण्डत्वादेरप्युपगमात्, सत्तायां सखण्डत्वाधसद्भावे अखण्डस्वादेस्तत्राच्याप्यवृत्तित्वस्यैव प्रमाणसिद्धस्यापलापतो महासामान्यस्य सत्वस्याखण्डत्वायेकान्ताकलितस्य दुर्नयात्मकसहविषयत्वेऽपि सुनयात्मकसनहाविषयत्वात् , सप्तमङ्गी च सुनयाश्रिता सुनयविषयप्रतिपादनप्रवणभङ्गासप्तकरूपेवेति तस्या अबाधितार्थकत्वात्प्रामाण्यमेव, द्वितीयभङ्गोऽप्युक्तदिशा नाखण्डत्वाद्येकान्ताकलितसत्त्वामावलक्षणाऽसस्वप्रतिपादनप्रवणः, किन्त्वनेकान्ताखण्डत्वाद्यास्पदासत्वप्ररूपणकुशल एव, किश्च महासामान्यस्या
"Aho Shrutgyanam"