________________
सम्मति• काय , गा० ॥ संहतरूपतया विशेष्या? येन संहृतरूपा रूपादयो घटो भवेदित्येवमप्यवाच्या, अनेकान्तवादे च कथञ्चिदवाच्यः ॥ १४ ॥ .
अथवा घटो रूपादिमानिति यदुच्यते तत्र रूपादयोऽर्थान्तरभूताः, मतुबर्थो निजः, ताभ्यामादिष्टो घटोऽवक्तव्या, रूपाधात्मकैकाकारावभासप्रत्ययविषयव्यतिरेकेणापररूपसम्बन्धस्यानवगतेः रूपादिमानित्यत्र विशेष्यस्य सम्बन्धस्याभावाद्र्पादिमान् घट इति वक्तुं न शक्यत इत्यवाच्यः, घटात्मकैकाकारप्रतिभासग्राह्यघटस्वरूपव्यतिरेकेण नापरस्य रूपादे: प्रतिभास इति रूपादिमानित्यत्र मतुवर्थविशेषणस्य रूपादेरभावादपि रूपादिमान् घट इति वक्तुं न शक्यत इत्यवाच्यः, अनेकान्ते तु कश्चिदवाच्यः ॥ १५ ॥
अथवा बाह्योऽर्थान्तरमता, उपयोगस्तु निजा, ताभ्यामादिष्टोऽवक्तव्यः, तथाहि य उपयोगः स घट इत्येवमुपयोगत्वमनूय घटत्वं यदि विधीयते तद्युपयोगमात्रं घट इति सर्वोपयोगस्य घटत्वप्रसक्त्या विभिन्नोपयोगनिबन्धनविभिन्न स्वरूपलक्षणप्रतिनियतस्वरूपाभावात्तथा वक्तुं न शक्यत इत्यवाच्यः। अथ यो घटस्स उपयोग इत्येवं घटत्वमनूयोपयोगत्वं विधीयते तदाऽर्थात्मक उपयोग इत्युपयोगस्यार्थत्वप्रसक्याऽर्थातिरिक्तस्य तद्व्यवस्थापकस्योपयोगस्याभावाद् घटायर्थस्याभावात्कथं नावाच्यो घटः ॥ १६ ॥
इत्येवमुपदिष्टाः षोडशावक्तव्यविकल्पाः, तत्रैकादशसु विकल्पेषु प्रथमद्वितीयभङ्गानन्तरमवक्तव्यभङ्गप्रवृत्तिः, द्वादशादिषु पञ्चसु प्रथमत एवावक्तव्यभङ्गप्रवृत्तिः, तत्रोपाध्यायभगवन्त इत्थमनेकान्तव्यवस्थायां स्वविचारमावेदयन्ति-" अत्र च निजार्थान्तरपर्यायैरनेकान्तोपजीविनगमव्यवहारविशुद्धितारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रमसहचद्भिः क्रमेण युगपचादिष्टैरुपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः सम्भवन्ति, द्वादशादिषु च पञ्चसु च स्वतन्त्रैकान्ते नयापितस्तैः प्रत्येकं समुदाये च सर्वथा. ऽवक्तव्यत्वभङ्ग एवोत्तिष्ठते-सच बाधितः सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथश्चित्वं च मङ्गडयाधीनम् , इत्थं च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदायसिद्धमिति । व्युत्पत्तिमहिम्ना ततोऽपि स्याद्वादविदुषो भङ्गत्रयसम्भव इति विवेकः, इत्थं च यत्पशुपालेनोक्तम्-"सर्वत्रानेकान्ताभ्युपगमे 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ' इति वचनमेवानुपपन्नम्, स्वपररूपयोरप्यनिर्धारणादिति" तदपास्तं दृष्टव्यम्, पूर्व नयविशेषेण स्वपररूपयोः सङ्कोचविकासावुपजीव्य तदनुसारेणैव सप्तमङ्गीप्रवृत्तेः, अवच्छिन्नसप्रतिपक्षधर्मद्वयाभिधानस्थले एकान्ततोऽवच्छेदकनिर्णयस्य तवाप्यभावात् , इदानीं गोष्ठे गोर्न तु वाजिशालायामित्यादौ शुद्धगोष्ठादेरप्यवच्छेदकत्वस्य निर्णेतुमशक्यत्वात् , इह कोणे गोष्ठे गौ परकोणे इति प्रतिसन्धाने एतत्कोणावच्छिन्नगोष्ठस्यैतत्कोणस्य वा तथात्वसम्भवात् , अवच्छेदकावच्छेदकस्यावच्छेदकसकोचस्य वाऽपरिस्फूत्तौ शुद्धावच्छेदकपुरस्कारेण.
"Aho Shrutgyanam"