________________
१५८.
[० का १, पा० ३६
सम्मति ० रूपं तस्याप्यनन्वयित्वादवाच्यस्वमिति तद्रपेणाप्यवाच्यो घटः, प्रत्येक वक्तव्याम्यां ताभ्यां युगपदादिष्टोऽपि घटोsवक्तव्यः, अनेकान्तपक्षे तु कथश्चिदवक्तव्यः ॥ १२ ॥
अथवा साङ्खमते प्रतिनियतार्थ क्रियाकारितावच्छेदकैक्य परिणतिलक्षण सन्द्भुतरूपाना• पन्नाः सत्वरजस्तमोऽभिधाना गुणा अर्थान्तरम्, प्रतिनियतार्थक्रियाकारितावच्छेदकैक्यपरिणतिलक्षणं सन्द्रुतरूपं घटस्य निजम्, ताभ्यामादिष्टो घटोsवक्तव्यः, यतः निरुक्तैक्यपरिणतिलक्षणस्य सन्द्रतरूपस्य सत्वरजस्तमस्तु भावे सत्वरजस्तमसामभावप्रसक्तिः, तेषां परस्परवैलक्षण्येनैव सच्चादिरूपत्वात् सन्द्भुतरूपत्वे च वैलक्षण्पाभावादभाव इति सन्द्रुतरूपाः सच्वादयः घट इत्यत्र सन्दुतरूपा इति विशेषणं सच्चादय इति विशेष्यं, तत्र विशेष्यीभूतानां सच्चादीनामभावात् सन्द्रुतरूपास्सच्वादय इति वक्तुं न शक्यत इत्यवाच्यः, सश्वरजस्तमस्तु सन्द्भुतरूपस्याऽभावे तु असतस्सन्द्रुतरूपस्योत्पादादसत्कार्योत्पादप्रसङ्गः न च सत्कार्यवादिभिस्साङ्खयैरसत्कार्योत्पादोऽभ्युपगम्यते, यदि च तद्राद्धान्तोच्छेदभीतिमगणयित्वैव तथोपेयते तदा सच्चादिषु सन्द्रुतरूपत्वं विशेषणन्नास्तीति विशेषणाभावात्सन्दुतरूपास्तच्चादय इति वक्तुं न शक्यत इत्यवाच्यः, यदैक्यपरिणतिस्तेषां भवति तदानीं सन्द्रुतरूपस्थ सद्भाव विशेषणाभाव इति चेत्, न, कालभेदेन सन्द्रुतरूपासन्द्रुतरूपयोरेकत्र समावेशाम्युपगमेऽनेकान्त प्रवेशात् प्राक् शक्तिरूपेण सन्द्वतरूपं तेषु समस्ति न च शक्तिरूपेण सन्दुतरूपसवं सच्चादिवैलक्षण्यव्याहन्तु, व्यक्त्या तु घटसामग्रीत एव सन्द्रुतरूपं स्यादिति चेत्, व्यक्तेरप्याविर्भावलक्षणायाः प्राक् सन्द्रुतरूपस्य तेषु सच्चे तेषामभावप्रसक्तिः, असच्चे असत्कार्यवादप्रसङ्ग इत्येवं सदसद्विकल्पग्रासात् । अथ नैयायिकादीनां यथा भूतले घटसच्चदशायां सतोsपि घटाभावस्य न सम्बन्धः, किन्तु तदपसारणदशायामेव तदपसारणकालावच्छिन्नस्वरूपात्मा सम्बन्धः, तथा ममापि सन्दुतरूपस्य प्राक्सवेsपि प्राकालावच्छिन्नस्वरूपात्मा न सम्बन्धो, घटसामग्रीसम्पत्तौ च सम्बन्धलाभाद्व्यवहारसिद्धिरिति चेत्, न, उभयोरपि वादिनोर्यथोक्तसम्बन्धस्याऽनेकान्तं विनाऽवाच्यत्वादिति दिक् ॥ १३ ॥
अथवा असंहृतरूपा रूपादयो यर्थान्तरभूताः संहतरूपत्वं सामूहिक प्रत्ययग्राह्यं निजम्, ताभ्यामादिष्टो घटोsवक्तव्यः यथा ह्यरूपादिव्यावृत्तरूपा रूपादयः तर्हि रूपादीनां घटतावाच्या, अरूपादित्वाद् घटस्थ; न हि परस्परविलक्षण बुद्धिग्राह्या रूपादय एकानेकात्मकप्रत्ययग्राह्याsरूपादिरूपघटतां प्रतिपद्यन्त इति रूपादीनामेकानेकप्रत्ययं ग्राह्यत्वलक्षण संहृतरूपतायामरूपादिस्वप्रसङ्गतो रूपादितैव नास्तीति संहृतरूपा रूपादयो घट इत्यत्र संहृतरूपत्वं विशेषणं रूपादयश्च विशेष्या इति विशेष्यीभूतानां रूपादीनां विलोपात्संहृतरूपा रूपादयो घट इत्येवं वक्तुं न शक्यते इत्यवाच्यः, यदि चारूपव्यावृत्तत्वेन रूपादीनां नोपगमः किन्त्वरूपत्वेनैव, एवमपि रूपादय एव न भवन्तीति तेषामभावे के
"Aho Shrutgyanam"