________________
संम्मति. काण्ड , गा० ३६ रिव सर्वदाऽसत्वमेवानुषज्यत इति कदाचिदपि घटार्थिनस्तत्र प्रवृत्तिर्न स्यात्, निरुक्तोमयरूपमध्यादेकान्तत एकरूपस्याभ्युपगमे तु तदेकान्तरूपं नास्त्येव वस्त्विति सर्वदाऽभाव एवेत्यसत्वादेवावाच्यः ॥ ४॥ .
तस्मिन्नपि मध्यावस्थारूपे घटे चर्चमानक्षणरूपं निजं, तेन रूपेण सत्वात्प्रथममङ्गः, अवर्चमानक्षणस्वरूपमर्थान्तररूपं तेन रूपेणासत्वाद् द्वितीयो भङ्गा, ताभ्यां युगपदभिधातुमशक्यत्वादवाच्यलक्षणस्तृतीयभङ्गा, अत्रेयं मीमांसा-यदि वर्तमानक्षणस्वरूपो घटो वर्तमानक्षणवत्पूर्वोत्तरक्षणयोरपि भवेत्तदा पूर्वोत्तरक्षणयोर्वर्त्तमानत्वमवश्यमापतेत् , विभिन्नकालीनयोराधाराधेयभावाभावावर्चमानक्षणस्वरूपस्य वर्तमानक्षणेनैव सम्बन्धादित्यतीतानागतकालाभावप्रसक्त्या तदभावे तदपेक्षस्य वर्तमानक्षणमात्रस्याप्यभावा प्रसज्येत, यथा यद्यतीतानागतक्षणरूपतया घटोऽघटस्तथा वर्तमानक्षणरूपतयाऽप्यघटस्तहि सर्वदा घटाभावप्रसक्त्या घटार्थिनस्तत्र प्रवृत्तिनं स्यात्, तयोरेकान्तैकरूपाभ्युपगमेऽप्येकान्तस्याभावादेवावाच्यः ।।५॥
एवं क्षणपरिणतिरूपस्य घटस्य चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वं विवक्षितत्वानिज रूपं तेन सत्वादाद्यो भङ्गा, अन्येन्द्रियजन्यप्रतिपत्तिविषयत्वमविवक्षितत्वादर्थान्तरं, तेनासत्वाद् द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टो वक्तुमशक्यत्वात्तृतीयो भङ्गा, तथाहि यथा लोचनजन्यप्रतिपत्तिविषयत्वेन घटो घटस्तथा यदीन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेनापि घटा तदा लोचनजन्यप्रतिपत्तिविषयमावपरिणतिस्वरूपे इन्द्रियान्तरजन्यप्रतिपत्तिविषयमावपरिणतिप्र. वेश आवश्यक इति चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वत एवेन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वमितीन्द्रियान्तरकल्पनावैयर्थ्यप्रसङ्गः, चक्षुरिन्द्रियस्वरूपमपि यदीन्द्रियान्तरस्वरूपं भवेत् तदैव चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वपरिणतिरिन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वपरिणतिरितीन्द्रियसङ्करप्रसङ्गश्च, यथा यदीन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेन घटो न घटस्तथा चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेनापि न घटस्तदा तस्याऽरूपत्वं प्रसज्येत, उक्तरूपद्वयमध्यादेकान्तेनैकस्याभ्युपगमे इतरापेक्षस्य तस्येतराऽमावेऽभावादवाच्य एव ॥ ६ ॥
लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटे घटशब्दवाच्यता निजं रूपं तद्रूपेण सत्वात्प्रथमो मङ्गः, कुटादिशब्दवाच्यत्वमर्थान्तरम् , तद्रूपेणासत्वाद् द्वितीयो भङ्गो, युगपत्ताभ्यामिष्टस्तथाऽभिधेयपरिणामामावादवाच्य इति तृतीयो भङ्गा, यथा घटशब्दवाच्यत्वेन घटस्तथा यदि कुटशब्दवाच्यत्वेनापि घटस्तदाऽन्यशब्दवाच्यस्याप्येकशब्दवाच्यत्वस्य स्वहस्तितत्वाद्-यथा घटशब्दादन्यः कुटशब्दः तथा पटमठादिशब्दा अपि घटशब्दादन्य एवेति कुटशन्दवाच्यस्य यथा घटशब्दवाच्यत्वं तथा पटमठादिशब्दवाच्यानामपि घटशब्दवाच्यत्वमित्येवं सर्वस्यैकशब्दवाच्यत्वासनेन त्रिजगत एकशब्दवाच्यत्त्वप्रसक्ति, एकान्दवाच्यस्य
"Aho Shrutgyanam"