________________
पम्मति० काम , मा. ३६ वाऽनेकशम्दवाच्यत्वस्वाङ्गीकृतत्वाद् घटस्य कुटादिशब्दवाच्यत्ववत्पटादिशब्दवाच्यत्वस्यापि प्रसंक्तिरिति घटे घटश दवाच्यत्वप्रतिपत्तौ तत्स्वरूपसनिविष्टाशेषशब्दवाच्यत्वप्रतिपत्तिप्रसङ्गे सति घटशब्दप्रतिपत्तिवत्तद्वाचकसमस्तशब्दप्रतिपत्तिप्रसङ्गः, अर्थे वाच्यतायाः शन्दे वाचकतायाश्च समानसंविसंवेद्यत्वादेकप्रतिपत्तावन्यप्रतियत्तेरवश्यम्भावात् , एवं कुटादिशब्देनावाच्यो घटो यदि घटशब्देनाप्यवाच्यस्स्यात्तदा स्ववाच्यप्रतित्यर्थ शब्द उच्चार्यते नान्यथेति घटशब्दावाच्यस्य घटस्य घटशब्दोचारणेऽपि न प्रतीतिरिति घटशब्दोचारणवैययं स्यात्, तयोरेकान्ताभ्युपगमे त्वेकान्तकरूपस्य घटस्यासत्त्वादेव सङ्केतद्वारेणापि न तद्वाचकः कविच्छन्दः इत्यवाच्य एव ॥ ७ ॥ .. अथवा घटशब्दाभिधेयस्य तस्यैव घटस्योपादेयान्तरणोपयोगरूपं निजं रूपं तेन सत्वाप्रथमभङ्ग, हेयबहिरङ्गाऽनुपयोगरूपमर्थान्तरं तेनासवाद्वितीयो मङ्गः, ताभ्यां युगपदादिष्टो घटस्तथाऽभिधेयपरिणामाभावाद्वाचकस्य कस्यचिदभावादवाच्य इति तृतीयो भङ्गः, यथाऽर्थक्रियाक्षमादिरूपेण घटस्तथा यदि हेयबहिरङ्गानर्थक्रियाकार्यऽसभिहितरूपेणापि घटस्स्यातर्हि पटादीनामपि घटत्वं स्यात् , यथा हेयबहिरङ्गानर्थक्रियाकार्यऽसनिहितरूपेणापटस्तथा यदि उपादेयादिरूपेणाप्यघटः स्यात्तदाऽन्तरङ्गस्य वक्तृश्रोतगतहेतुफलभूतघटाकारावबोधकविकल्पोपयोगस्याप्यभावे घटस्याप्यभावप्रसङ्ग इत्यवाच्या, एकान्ताभ्युपगमेऽप्येकान्तस्यामावादेव वक्तृश्रोतगतहेतुफलभूतघटाकारावबोधकविकल्पोपयोगस्याभावे घटस्याभावप्रसङ्ग इत्यवाच्यः ॥ ८॥ __ अथवा तस्मिन्नेवोपयोगस्वरूपे घटेऽमिमतार्थावबोधकत्वं निजं रूपं तेन सत्त्वात्प्रथममङ्गः, अनभिमतार्थानवबोधकत्वमर्थान्तररूपं तस्य स्वगतत्वेऽप्यन्तरत्वेन विवक्षणात् , तेन रूपेणासत्त्वाद्वितीयो मङ्गः, ताभ्यां युगपदादिष्टस्तथाभिधेयपरिणत्यमावात्तथावाचकस्याप्यभावादवाच्य इति तृतीयो मङ्गा, यथाऽभिमतार्थप्रतिपादकत्वेनोपयोगलक्षणो घटो घटस्तथाऽनमिमतार्थानवबोधकत्वरूपेणापि यदि घटः स्यात्तदा प्रतिनियतोपयोगाभावः प्रसज्यते अभिमतार्थप्रतिपादकत्वानमिमतार्थानवबोधकत्वयो.लक्षण्येन तदुभयाध्यासितस्य प्रतिनियत. स्वाभावात् , उपयोगस्य प्रतिनियतत्वाभावे च विविक्तरूपोपयोगप्रतिपत्तिर्न स्यात् , यथाऽनमिमतार्थानवबोधकत्वेनाघटस्तथा यद्यभिमतार्थावबोधकत्वलक्षणविवक्षितोपयोगस्वरूपेणाप्यघटा स्यात् तर्युक्तदिशा पटादिरप्यपटादिरिति सर्वामावा, यथा घटस्याघटत्वं तथा पटादेरप्यघटत्वमिति पटादितो घटस्याविशेषप्रसङ्गश्च, पटाद्यविशिष्टत्वेन घटस्याप्रतीत्या तथाऽऽपादनस्येष्टापादनत्वासम्भवात् , तयोरेकस्यैवैकान्ततयाऽभ्युपगमे त्वेकान्तस्याप्रतीत्यैवासस्वेन सर्वाभावाविशेषप्रसङ्गतादवस्थ्यादवाच्यः ॥ ९ ॥
अथवा घटस्य घटत्वं निजं रूपमसाधारणत्वात् , तेन रूपेण सत्वात्प्रथमो भगः, सचम.
"Aho Shrutgyanam"