________________
सम्मति काण्ड, गा० ३६
तथाऽभिधेयपरिणामरहितत्वाचस्येत्येवोत्तरम्, एवमग्रेऽपि, यथा विधित्सितरूपेण घटस्तथाविधित्सितरूपेणापि यदि घटः स्यात् तर्हि प्रतिनियतनामादिव्यवहारोच्छेद एव भवेत्, एवश्व व्यवहाराभावो व्यवहर्त्तव्याभावादेवेति विधित्सितरूपस्याप्यभावे सर्वाभाव एव भवेत्, तथा यथा विधित्सितप्रकारेण घटोऽघटस्तथा विधित्सितप्रकारेणाऽप्यघटः स्यात्तदा घटस्य सर्वप्रकारेणाभावे घटसत्त्वनिबन्धनव्यवहार एव विलीयेत, इति विधित्सितरूपेण घटत्वमविधित्सितरूपेणाऽघटत्वमिति तत्प्रतिपादकौ प्रथमद्वितीयमङ्गौ, विधित्सितरूपमविधित्सितरूपव्यवच्छेदमन्तरा न सम्भवति, अविधित्सितरूपव्यवच्छेदो विधित्सितरूपमन्तरा न सम्भवतीति विधित्सिता विधित्सितनिषेधयोरेकस्यैवैकान्तस्याभ्युपगमे तदितराभावे तस्याtयभाव इत्यभिधेयाभावादभिधानस्याप्यभाव इत्यवाच्य इति तृतीयभङ्गः, नन्वनेक गुणवति वस्तुनि एकगुणरूपेण विधित्सा प्रयोजनानुरोधिनी भवतु नाम नेयं रूपान्तरावच्छिन्नसत्त विरुणद्धि, रूपवश्वेन घटस्य विधित्सायामपि रसवत्वेन तत्सत्ताया अनपायादिति चेत्, न, गुणात्मक सत्ताया गुणरूपत्वेऽपि व्यावहारिक्यास्तस्यास्तदभिधेयपरिणाम पर्यवसितवेन विधित्सानुसारित्वात् एवश्व नामरूपेण विधित्सितस्य घटस्य नामरूपाभिधेयपरिणामववमेव नाविधित्सितरूपाभिधेयपरिणामवच्चमर्थात्तद्रूपेणाभिधेयो न भवतीत्यतोऽविधित्सितरूपेण घटोsवट एवेति एवमग्रेऽध्याक्षेपपरिहारौ वाच्यौ ॥ २ ॥
१५४
नामादिचतुष्टयप्रकारेषु प्रतिनियतस्थापनासंस्थानविशेषस्वरूप एव घटो यदाऽभिमतस्तदा प्रतिनियतस्थापनासंस्थानस्वरूपेण घटः, इतरेण चाघट इति प्रथमद्वितीयौ, ताभ्यां युगपत्प्रधानतया विवक्षिताभ्यामभिधातुमशक्यत्वादवाच्य एव घट इति तृतीयो भङ्गा, यथा विवक्षित स्वासाधारण संस्थानरूपेण घटो घटस्तथाऽन्यघटगत संस्थानस्वरूपेणापि यदि घटस्तदैकस्य सर्वघटात्मकत्वमासज्यते । अथ यथेतरसंस्थानादिरूपेणाघटस्तथा विवक्षित संस्थानस्वरूपेणाप्यघटस्तदा घटार्थिनः पटादाविव तत्राप्यप्रवृत्तिः स्यात्, उक्तदिशा घटत्वाघटत्वयोरुभयोरप्येकत्रभावे तन्मध्यादेकान्तेनैकस्याभ्युपगमे तथाभूतस्य प्रमाणाविषयत्वादसत्वादवाच्यो घटः ॥ ३ ॥
संस्थानविशेषस्वरूपेण स्वीकृतेऽपि घटे यन्मध्यावस्थायां पृथुबुध्नोदरादिलक्षणं संस्थानं तद्घटस्य निजं रूपं तद्रूपेण घटो घटः, पूर्वोत्तरावस्थे कुशूलकपालादिलक्षणे संस्थाने अर्थान्तररूपं तद्रूपेण घटोsघट इत्येवं प्रथमद्वितीयमङ्गौ युगपत्प्रधानतया विवक्षिताभ्यां ताभ्यां वक्तुमसामर्थ्यादवाच्य एव घट इति तृतीयो भङ्गः, यथा पृथुबुध्नोदराद्याकारलक्षणमध्यावस्थास्वरूपेण घटस्तथा यदि कुशूलकपालादिलक्षणपूर्वोत्तरावस्था स्वरूपेणापि घटः स्यात्तदा तस्य त्रिकालावस्थायिनोऽनाद्यनन्तत्वं प्रसज्येत यदि यथा पूर्वोत्तरावस्थास्वरूपेणाघटस्तथा मध्यावस्थारूपेणाप्यघटस्तदा क्वचिदपि कालेऽवर्त्तमानस्य तस्य शशशृङ्गादे
"Aho Shrutgyanam"