________________
धम्मति० काम , गा. वृत्चेरपि तस्य गुणानां द्रव्यद्वारेणैव तिष्ठत्यादिक्रियाधारत्वेन द्रव्याश्रितगुणप्रतिपादकत्वतः प्राधान्येन गुणद्वयप्रतिपादकत्वाभावात् , उत्तरपदार्थप्रधानस्य तत्पुरुषस्याप्य. प्रार्थेऽप्रवृत्तः, सङ्ख्यावाचिपूर्वपदस्य द्विगोरपि प्रकृते प्रवृत्त्यभावात् , गुणाधारद्रव्यविषयस्वात् , कर्मधारयोऽपि सत्वासचोभयं युगपत्प्राधान्येन प्रतिपादयितुं सामथ्र्य नालम्बते, समासान्तरश्च नास्त्येवेति न समासवचनं युगपत्प्राधान्येन विवक्षितसत्त्वासत्त्वोमयप्रतिपादकं समस्तीति सिद्धम् , वृश्यसम्भिन्नार्थत्वाद् व्यासवाक्यमपि तथाभूतगुणद्वयप्रतिपादकं नास्त्येव, शत्शानचयोस्सकेतितसच्छब्दवत्किमपि वचनं तथाभूतगुणद्वयसङ्केतित यदि भवेत्तदा विकल्पप्रभवशब्दवाच्यत्वं स्याद्, विकल्पानां च युगपदप्रवृत्ते कदा तयो. स्तद्वाच्यतासम्भवा, समूहालम्बनात्मकविकल्पो यद्यपि युगपदुभयग्रहणपटुस्तथापि तत्प्रभवपदानां बुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितनानाशक्यतावच्छेदकत्वेन परमार्थतो नानार्थस्थानीयत्वेन तेभ्यः प्रकरणादिनियन्त्रितप्रतिनियतैकार्थबोधस्यैवैकदा सम्भवात् , सदसदुभयसङ्केतितपदस्य पुष्पदन्तादिव द्वित्वेनैवोमयप्रतिपादकत्वेन द्वित्वावच्छिन्नस्य तस्यैकत्वावच्छिन्ने निराकासत्वादन्वयो न सम्भवतीत्यतो द्वित्वेन सत्वासचोमयस्य प्राधान्यं, न तु सवस्य असत्वस्य च स्वस्वासाधारणधर्मरूपेण प्राधान्यं युगपद्विवक्षितं ततः प्रतिपत्तुं शक्यमिति तथाऽवाच्यत्वस्यैव सिद्धेः, अत एव वस्त्वादिपदं सदसदुमये न सहे. त्यते, द्वित्वावच्छिन्नस्य तस्यैकत्वावच्छिन्नान्वयाऽयोग्यत्वेन तथा प्रतिपादनासम्मवाद , किन्तु सदसदुभयात्मकैकजात्यन्तरे सङ्केत्यते जैना, घटस्य घटत्वमघटव्यावृचौ सत्यामेव सम्भवतीति घटे घटशब्दप्रवृत्तिनिमित्ते घटत्वेऽभ्युपगम्यमाने पटाद्यर्थप्रतिषेधस्तत्राभ्युपगत एव भवतीति न घटे पटाद्यर्थप्रतिषेधस्यासम्बद्धता, स्वद्रव्याद्यपेक्ष्यसव-परद्रव्याद्यपेक्ष्याऽसत्रयोः समानसंविसंवेद्यता मानसबोध एव, न शाब्दबोधे, 'शाब्दी ह्याकाहा शब्देनैव प्रपूर्यते' इति न्यायात्, तथा च स्वद्रव्यादिना सत्वप्रतिपादकप्रथमभङ्गवत्परद्रव्यादिनाऽसवप्रतिपादकद्वितीयभङ्गोऽप्यावश्यक इति न प्रथमभङ्गेन द्वितीयमङ्गस्य गतार्थता, एवमुक्तदिशाऽवक्तव्यत्वप्रतिपादकत्तीयभङ्गोऽध्यावश्यका, अथवा सर्व सर्वात्मकमिति साथमतव्यवच्छेदाय द्वितीयभङ्ग उपादीयते, प्रथममङ्गेन घटस्य घटत्वप्रतिपत्तावपि पटत्वादिव्यवच्छेदप्रतीत्यभावात् न साह्वयमतव्यवच्छेदो भवेत् , द्वितीयभङ्गेन पटत्वादिनाऽसवप्रतिपत्तौ तद्वयवच्छेदस्याऽवश्यम्भावात् १, घटस्य नामस्थापनाद्रव्यभावमेदेन चातुर्विध्ये सति तत्रैकविधस्य विधिसितत्वमन्यविधस्य चाविधित्सितत्वमिति यद्विधि: रिसतं रूपं तद्रूपेणास्तित्वमिति तत्प्रतिपादकः प्रथमभङ्गः, यदविधित्सितं रूपं तद्रपेण नास्तित्वमिति तत्प्रतिपादको द्वितीयो भङ्गा, विधित्सिताविधित्सितप्रकाराभ्यां युगपदक्तुं न शक्यते इति युगपदवाच्यत्वप्रतिपादक तृतीयो भङ्गा, कथं न वक्तुं शक्यते इत्यत्र
२०
"Aho Shrutgyanam"