________________
धम्मति० काण्ड ), गा० ३६ एवं चतुर्थादिभङ्गोत्थापकारसंशयास्सूपपादा इत्युक्तं प्रागेव । ननु स्वद्रव्यादीनां सत्वस्य परद्रव्यादीनां चासत्त्वस्यावच्छेदकत्वमुररीकृत्य प्रथमद्वितीयत्तीयभङ्गा उपपादिताः, परं स्वद्रव्यादीनां स्वाधिकरणत्वमेव परद्रव्यादीनाश्च स्वाभावाधिकरणत्वमेव प्रतीतिपथमवतरति, न त्ववच्छेदकत्वं, भावस्यावच्छेदकत्वं तु स्वरूपसम्बन्धरूपं किश्चिदधिकरणकृत्ति त्वरूपं सवं यापेयते तदाऽऽधेयत्वस्य सखण्डधर्मत्वात् सखण्डधर्माणाश्च सावच्छिन्नस्वनियमाद् युज्येतापि, यदि तु घटत्वादिवत्सवमपि अखण्डधर्मविशेष एव तदा घटत्वादीनां यथा न सावच्छिन्नत्वं तथा सत्यादिलक्षणास्तित्वादेरपि न सावच्छिन्नत्वमिति न तदवच्छेदकत्वं स्वभावभूतस्यापि घटत्वादेरिति स्वद्रव्याद्यवच्छेदेन घटादेस्सत्त्वस्यैवाभावात् , एवं परद्रव्याघवच्छेदेन घटादेरसत्वस्याभावात्तदुभयाभावे तनिवन्धनाऽवक्तव्यत्वस्याप्यभावानोक्तमङ्गत्रयसम्भवः, तदभावे च प्रथमद्वितीयसंयोगजस्य चतुर्थस्य, प्रथमत्तीयसंयोगजस्य पञ्चमस्य, द्वितीयतृतीयसंयोगजस्य षष्ठस्य, प्रथमद्वितीयतृतीयसंयोगजस्य सप्तमस्य चाभावादुक्तसप्तभङ्गसमाहाररूपा सप्तभङ्गी न सिद्धिपथमवतरतीति चेत् , उच्यते, अवच्छेदकत्वकल्पना हि प्रतीत्यनुसारेण भवति, तत्र धर्ममात्रं सखण्डमखण्डं वाऽव्याप्यवृत्तितयैव प्रतीयत इति सावच्छिन्नत्वे धर्मत्वमेव प्रयोजकं, न तु सखण्डधर्मत्वं, घटत्वादेरपि च किश्चिदपेक्षया घटादौ प्रतीत्युपपत्तये सावच्छिन्नत्वं स्वीक्रियत एव, घटस्य द्रव्यपर्यायोभयात्मनः घटत्वं न मृद्रव्यापेक्षया, किन्तु पृथुबुध्नोदरायाकारलक्षणपर्यायापेक्षयैव, इत्थश्च यद् यदपेक्षया प्रतीयते तस्य तदवच्छिन्नत्वं प्रतीतिशरणैरभ्युपेयम्, प्रतीयते च घटादेरस्तित्वं स्वद्रव्याद्यपेक्षया, नास्तित्वञ्च परद्रव्याद्यपेक्षयेति स्वद्रव्यादीनां सखण्डस्याखण्डस्य वा सवस्यावच्छेदकत्वम् , एवं परद्रव्यादीनामसत्वस्य तथाभूतस्यावच्छेदक त्वम् , यदा च प्रतीत्यनुरोधेनैवावच्छेदकव्यवस्थाऽऽस्थीयते, तदा सङ्कोचविकाशशालिदेशे सति सङ्कुचितदेशापेक्षया सवप्रतीतौ तद्देशावच्छिन्नदेशस्यावच्छेदकत्वम् , देशदेशस्य वाऽवच्छेदकत्वम्, विकाशदेशापेक्षया सत्त्वप्रतीतौ च तद्देशस्य तद्वथापकदेशस्य वाऽवच्छेदकत्वं स्यादेव, एवं कालादेरपि सूक्ष्मस्थूलरूपतयाऽपेक्षाश्रयणेन सच्चप्रतीतौ तथाऽवच्छेदकत्वमवसेयम् ,एवञ्चावच्छेदकसङ्कोचविकासाद्यपेक्षया सच्चासत्वोमयधर्मव्यवस्थितौ तत्प्रतिपत्यथे तद्विवक्षातस्स्यादस्त्येव घट इति प्रथमभङ्गस्य स्यात्रास्त्येव घट इति द्वितीयमङ्गस्य च सिद्धौ सत्यां स्वस्त्रनिमित्तभेदापेक्षया युगपदेकर वर्तमानस्य सत्वासचोभयस्य युगपदेव प्राधान्यविवक्षया प्रतिपत्त्यर्थ वक्ता समुत्सुकोऽपि तथा प्रतिपादकवचनमप्रेक्षमाणस्स्यादवक्तव्य एव घट इत्येवं तृतीयमङ्गं प्रयोक्तुमर्हति, तथाहि युगपत्प्राधान्येन तदुमयप्रतिपादकं समासवचनं तावन्न सम्भवति, प्रकृते बुबोधयिषितस्य प्राधान्येन युगपदुभयस्य प्रतिपादनेऽन्यपदार्थप्रधानस्य बहुव्रीहेरसामर्थ्यात्, अव्ययीभावस्य पात्रानधिकारात्, उभयपदार्थप्रधानस्यापि द्वन्द्वस्य द्रष्यवृत्तेः प्रकृतार्थाप्रतिपादकत्वात् गुण
"Aho Shrutgyanam"