________________
सम्मति०] काण्ड १, गा० ३६
१५१
,
भिन्नधर्मान्तरनिष्ठावच्छेदकतानिरूपितधर्म्यन्तरनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठ प्रकारतानिरूपकबोधजनकत्वस्यैव धवखदिरावित्यादौ दृष्टत्वेन तृतीयभङ्गे तादृशबोधजनकत्वाभावेन तस्याध्यप्रवृत्तेः, तृतीयभङ्गेनाऽस्तित्वत्वेन नास्तित्वत्वेन रूपेण प्रधानतया सहार्पितास्तित्वनास्तित्वोभयविवक्षासद्भावेनेतरेतरात्मकेन द्वन्द्वेन च दर्शितरीत्या तादृशोभयबोधजनकत्वासम्भवेन प्रकृते तस्यानुपयोग एव । नापि समाहाररूपोऽपि सः, यतस्तेन वाक्त्वचं छत्रोपानहमित्यादौ समासघटकपदार्थ समाहारविशेष्यक बोधस्यैवोत्पादः, न च प्रकृते तथाबोध इष्ट इति तस्याप्यत्राप्रवृत्तेः, नापि तत्पुरुषः, तस्योत्तरपदार्थप्रधानत्वेन राजपुरुष इत्यादावुत्तरपदार्थविशेष्यकबोधजनकत्वात्, अत्र च तदभावात्, अत एव तत्पुरुषविशेषरूपस्य कर्मधारयस्याप्यत्र न सम्भवः, तद्घटकपदार्थानां विशेषणविशेष्यभावस्य नियमेन भावात्, कृष्णसर्प इत्यादौ पूर्वपदार्थप्रकारकोत्तरपदार्थविशेष्यकबोधजनकत्वात्, अत्र च तथाऽनभ्युपगमात्, अत एव तद्विशेषो द्विगुरपि न सम्भवति, तस्य सङ्ख्यावाचिपूर्वपदकत्वनियमात् अत्र च सङ्ख्यावाचिपूर्वपदस्यैवाभावात् न च समासान्तरसद्भावोऽस्ति, येन तद्वाच्यताऽपि शक्यसम्भावना स्यात्, न चैकशेषवृच्या तथाबोधस्सम्भवी, रामश्च रामश्च रामौ रामच रामश्र रामश्च रामा इत्यादौ सरूपाणामेकशेषस्य विधानात् प्रकृते तु सरूपत्वाभावेनैकशेषविधानस्याशक्यत्वात्, विरूपाणामपि समानार्थानामेवैकशेषस्य दृष्टत्वात्, प्रकृते तु समानार्थकत्वा भावात्, अन्यस्य चैकशेष विधायकविधेस्तत्तच्छन्दविषयकत्वेन तस्याप्यत्रासम्मवित्वात् । नच विग्रहवाक्येनापि तथाबोधप्रत्याशा कर्त्तव्या, विग्रहवाक्यस्य वृत्तिसमानार्थकत्वनिय मात्, वृत्तेश्च तादृशार्थाऽबोधकत्वे निश्चिते विग्रहवाक्यस्य तादृशार्थबोधकत्वस्य सुतरामसम्भवात् । तथा चोक्तनीत्याऽस्तित्वनास्तित्वो भयात्मके वस्तुनि युगपदस्तित्व नास्तित्वोभयप्रतिपादकवचनाभावाद् युगपदस्तित्वनास्तित्वोभयात्मना घटेऽवक्तव्यत्वं सिद्धमिति तद्विषयतृतीयभङ्गप्रवृत्तिस्सङ्गच्छत एवेति तृतीयभङ्गघटकस्यात्पदं तु सहार्पितास्तित्वनास्तित्वोभयात्मकोऽथों न सर्वथा वचनागोचरः, तथा सत्यवक्तव्यशब्दप्रतिपाद्योऽपि स न स्यात्, किन्तु कथञ्चिदवक्तव्य एवेति सूचयितुमिति । अवधारणार्थश्चैव कारपदमिति । न चावक्तव्यत्वस्यास्तित्वनास्तित्वो भयात्मकत्वे आद्येन भङ्गेनास्तित्वस्य द्वितीयेन च नास्तित्वस्य ज्ञाने तदुभयज्ञानं सञ्जातमेवेत्ययं तृतीयभङ्गो निष्फलत्वेनोपादेयो नेति वाच्यम्, सहार्पितास्तिस्वनास्तित्वात्मकाऽवक्तव्यत्वज्ञानस्याद्याभ्यां भङ्गाभ्यामनुत्पाद्यस्योत्पादकतया साफल्येनोपादेयत्वात्, यतो न हि सहार्पितयोस्सच्वासत्त्वयोस्स्यादवक्तव्य एवेति भङ्गेनाभिधानम्, किं तर्हि ? तथार्पितयोस्तयोस्सर्वथा वक्तुमशक्तेरवक्तव्यत्वस्य धर्मान्तरस्य तेन भङ्गेन प्रतिपादनमिष्यते । अत एव तत्संशयं प्रत्याद्यभङ्गजन्यस्वद्रव्याद्यवच्छिन्नसत्त्वनिश्चयस्य द्वितीयभङ्गजन्यपरद्रव्याद्यवच्छिन्ननास्तित्वनिश्चयस्य च कथमपि प्रतिबन्धकत्वाऽसम्भवेन तज्जन्यजिज्ञासादिक्रमेण तृतीयभङ्गावतारस्सुघट एव ।
"Aho Shrutgyanam"