________________
सम्मतिः काण्ड 1, गा० ३६ सभेव स्यादसभेवेति द्वौ भङ्गो भवतः । 'दोहि समयमाईहिं' द्वाभ्यामादिभ्यां प्रागुक्ताभ्यां प्रकाराभ्यां समकं युगपद्विवक्षितमिति शेषः 'दवं' द्रव्यं 'वयणविसेसाईयं' वचनविशेषातीतं सत्तथाविधवचनवाच्यताऽनापन्न सद् 'अवत्तव्वं पडई' अवक्तव्यकं पतति तृतीयमङ्गविषयतामास्कन्दतीति गाथार्थः । अष्टसहरूया त्वेवमर्थः कृतः-अर्थान्तरभूतः पटादिः निजो घटादिः, ताभ्यां द्वाभ्यां सदसत्वं घटवस्तुनः प्रथमद्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति सोपस्कारं व्याख्येयम् । 'समयमाईहिं' इत्यनन्तरं तुर्गम्या, द्वाभ्यामिति चानु. वर्तते, समकमादिरादानं ययोस्ताभ्यां सहार्पिताभ्यां तु द्वाभ्यामित्यर्थः । वचनविशेषातीत वचनस्य विशेषः शक्तिः, तमतीतमनाक्रान्तं सत्तथाविधवाचकाविषयीभूतमिति यावत् , द्रव्यं घटादि अवक्तव्यम् , पतति अशक्तिभाराद्वक्तव्यताशिखरे स्थातुं न शक्नोति, अवक्तव्यता वा पततीति । अयम्भावा-अनुयोग्युपस्थापकसमानविभक्तिकप्रतियोग्युपस्थापकपदसमभिव्याहृतनो भेदप्रत्यायकत्वेन शाखायां वृक्षः कपिसंयोगी न मूले इत्यबाधितानुभव. बलायथा शाखावच्छेदेन य एव वृक्षः कपिसंयोगी स एव मूलावच्छेदेन कपिसंयोगिभेदवानिति नव्यनैयायिकैरभ्युपगतं, यद्वोक्तप्रतीत्या कपिसंयोगतदत्यन्ताभावयोरव्याप्यवृत्तितयैकस्मिन्नेव वृक्षे शाखामूलावच्छेदेन कपिसंयोगतदत्यन्ताभावसत्त्वं प्राचीननैयायिकैरभ्युपगतं, तथैव स्वद्रव्यक्षेत्रकालभावापेक्षया घटस्सन् परद्रव्यक्षेत्रकालभावापेक्षया चासमित्यवाधितानुभवबलात् स्वद्रव्यक्षेत्रकालभावावच्छेदेन य एव घटस्सन् कथश्चित्तादात्म्य. सम्बन्धेन सदाश्रयः सत्त्ववान् वा, स एव घटः परद्रव्यक्षेत्रकालभावावच्छेदेनासन् कथश्चित्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकसद्धेदवानिति यद्वा सत्रात्यन्ताभाववानिति सत्तद्भेदयोस्सत्वतदत्यन्ताभावयोर्वा सामानाधिकरण्यमभ्युपगन्तव्यम् , कपिसंयोगितद्भेदयोरिव सत्तद्भेदयोः कपिसंयोगतदभावयोरिव सवतदत्यन्ताभावयोर्वाऽव्याप्यवृत्तित्वाऽ. भ्युपगमे बाधकामावात् , तथा च सचं स्वाभावसमानाधिकरणं स्वसमानाधिकरणात्यन्ताभावप्रतियोगिभूतधर्मत्वात् कपिसंयोगवदित्यनुमानेन सत्त्वेऽव्याप्यवृत्तित्वसिद्धौ तदन्यथाऽनुपपत्याऽभ्युपगम्यमानस्यावच्छेदकत्वविशेषस्य स्वद्रव्यादी स्वीकारः, तथा च स्वद्रव्यक्षेत्रादावऽवच्छेदकता सवादिधर्मस्याव्याप्यवृत्तित्वोपोद्वलिका, तामुपादायैव स्यात्पदप्रवृत्तिरुपेयत इति । ननु प्रतियोग्यनवच्छेदकस्यामावावच्छेदकत्वे तत्वस्य सर्वत्राविशेषात् परद्रव्यक्षेत्रादेरिव प्रमेयत्वादेरपि सत्त्वाभावावच्छेदकत्वं स्यादिति तदपेक्षा याऽपि घटे सच्चाभावस्स्यात् , स चानुभवबाधिता, न हि कोऽपि तत्वज्ञः प्रमेयत्वेन घटोऽसनिति वक्तीति चेत्, मैवम् , उक्तातिप्रसङ्गस्यानुभवविनिगमनेनैव निवारणात , अनुभवश्वात्र घटो मृद्रव्यस्य पाटलिपुरक्षेत्रस्येदानींतनकालस्य च घटत्वात्मकमावस्य रक्तत्वात्मकभावस्य वाऽपेक्षया सन् तन्तो राजगृहस्यातीतानागतकालस्य पटत्वस्य नीलत्वस्य वाऽपेक्षयाऽसन्नित्याकारका । न तु प्रमेयत्वाद्यपेक्षयाऽसन्नित्याकारक इति,
"Aho Shrutgyanam"