________________
सम्मति० काण्ड १, गा० ३१ पृथक् लक्ष्यत्वे स्वाद्यायां वाक्ये सकलादेशत्वं द्वितीयायाश्च विकलादेशत्वं विशेषणं देयम् , एवं भेदाभेदनित्यत्वानित्यत्वादिविरुद्धधर्मापेक्षाभेदप्रयोज्याविरोधद्योतकस्यात्पदलाञ्छितसप्तम. अयन्तररचना ज्ञातव्या, वस्तुनोऽनन्तधर्मात्मकत्वेन प्रतिधर्म सप्तभङ्गीप्रवृत्तेः । तदुक्तम्
"धर्मे धर्मेऽन्य एवार्थो, धर्मिणोऽनन्तधर्मणः।
अङ्गित्वेऽन्यतमान्तस्य, शेषान्तानां तदङ्गता ॥१॥" तत्र धर्मे धर्म प्रतिधर्ममित्यर्थः । अर्थ इति प्रयोजनादिरित्यर्थः । अनन्तधर्मवतो धर्मिणः प्रतिधर्म सप्तभङ्गीकथनं प्रधानीभूतैकैकधर्ममुद्दिश्यैकर्मिविशेष्यकसप्तविधधर्मप्रकारकबोधात्तद्विषयकसंशयाज्ञानभ्रान्तज्ञाननिवृत्तिफलकमिति भावः । अन्यतमान्तस्येति-सप्तविधधर्मा. न्यतमधर्मस्येत्यर्थः, अङ्गित्वे-प्रधानत्वे, शेषान्तानाम्-तद्भङ्गप्रविष्टस्याच्छब्दसूचिततदितरधर्माणाम् । तदङ्गता तद्गुणभावः। प्रधानगुणभावश्च वक्तुर्विवक्षाधीन एव । एतेन ननु यदि विवक्षितेनैकेन केनचिद्भङ्गेन विवक्षितधर्मस्येव तदितरधर्माणामपि प्रतिपादने तेनैव शेषमङ्गजन्यतदितरधर्मप्रतिपत्तिफलसिद्धेश्शेषमङ्गनिरूपणं व्यर्थमेवेत्यारेकाऽपि निरस्ता, विवक्षितभङ्गेन प्रधानतया तदितरधर्मप्रतिपत्त्यनुत्पादनादिति । ननु नयास्तत्तद्वादीययावद्वचनप्रकारा. स्तावन्त एवेति केन नयेनेयं सप्तमङ्गी प्रवृत्ता केन चेयमिति कथं निश्चेतव्यमिति चेत्, उच्यते, आद्यमङ्गस्य प्रतिपाद्यो यो धर्मः प्रधानभूतः स यनयविचाराऽऽधीनसिद्धिकस्तद्धर्मप्रतिपादकाद्यभङ्गघटितसप्तमङ्गी तन्नयप्रयुक्ताऽभ्युपगन्तव्या, तदुक्तं खण्डखाधे-" यत्र मूलभङ्गार्थो यन्त्रयविचाराधीनसिद्धिकस्तत्सप्तमङ्गयां तदीयत्वव्यवहारात्" इति । अत एवधीग्राह्ययोर्न हि भिदाऽस्ति सहोपलम्भात्, प्रातिस्विकेन परिणामगुणेन भेदः। इत्थं तथागतमतेऽपि हि सप्तभङ्गी, सङ्गीयते यदि तदा न भवेद्विरोधः ॥३८॥ ___ इत्युक्तं सङ्गच्छते, ग्राह्यग्राहकयोस्स्यादभेद एव, स्याद्वेद एव, स्यादभेदस्यान्दोमयमेव, स्यादवक्तव्य एवेत्यादिसप्तभङ्गयां स्यादभेद एवेत्याधमङ्गस्य प्रतिपायोऽभेदरूपो यो प्रधानार्थस्स तथागतदृष्ट्यैव सिद्ध इत्यत उक्तसप्तमङ्गयां तदीयत्वव्यवहारात्तथागतमतेऽपि सप्तमङ्गीप्रकथने न भगवत्सिद्धान्तविरोधः, सर्वमतव्यापकत्वाद् भगवदर्शनस्येति भावः॥३५॥
तदेवमेकैकवस्तु प्रतिधर्म सप्तभङ्गीप्रतिपाद्यसप्तधर्मोपेतमिति वचनेन तथैव प्रतिपादयन वक्ता यथार्थवक्ता भवति, नान्यथेति गाथासमूहस्सप्तविकल्पोत्थाननिमित्तमुपदर्शयन् प्रथममायभनन्नयोत्थाननिमित्तमाह
अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं ।
वयणविसेसाईयं, दन्चमवत्तव्वयं पडइ ॥ ३६ ॥ "अत्यंतरभूएहि प," अर्थान्तरभूतैश्च परपर्यायैः ‘णियएहि य' निजकैश्च स्वपर्यायः, अर्थान्तरभूरः पटत्वादिः, निजो घटत्वादिः, ताभ्यां निजार्थान्तरभूताभ्यां क्रमेण घटस्स्या
"Aho Shrutgyanam"