________________
१५६
सम्मति० काण्ड 1, गा० ३५ तृतीयभङ्गप्रतिपाद्यतामेतीति वाच्यम् , धर्मधर्मिणोः कथञ्चिदभेदाश्रयणेनावक्तव्यत्वाऽs. श्रययोरस्तित्वनास्तित्वयोर्विधिनिषेधरूपत्वे तदाश्रितावक्तव्यत्वस्यापि तथात्वाव, तृतीयभङ्गविषयत्वं तु तस्यास्तित्वनास्तित्वाभ्यां कथश्चिद्भेदविवक्षयवोपपादनीयम्, अवक्तव्यस्वस्य धर्मिपिा सस्वमस्तित्वनास्तित्वावच्छेदकोभयाऽवच्छेद्यमिति भावनीयम् ॥ चतुर्थभङ्गप्रतिपाद्यस्य क्रमार्पितकथञ्चिदस्तित्वनास्तित्वोभयस्याद्यद्वितीयभङ्गप्रतिपाद्याभ्यां कथञ्चिद. स्तित्वनास्तित्वाभ्यां कथञ्चिद्व्यतिरिक्तत्वेन तत्तदभावप्रकारकसंशयो नाधमङ्गजन्यकथञ्चि. दस्तित्वनिश्चयस्य द्वितीयभङ्गजन्यकथञ्चिन्नास्तित्वनिश्चयस्य च प्रतिवध्य इति स स्यादेवेति तजन्यजिज्ञासादिक्रमेण चतुर्थभङ्गस्सुघट एवेति । स्यादस्त्येव स्यानास्त्येव घट इति वाक्यात् क्रमाप्तिस्यादऽस्तित्वनास्तित्वोभयधर्मवन्तममुं घटं जानामीत्यनुभवाच्च स भङ्गो. ऽतिरिक्त एव, तत्र स्यात्कारेण सच्चासत्चावच्छेदकधर्मयोरेव परामर्शाजात्यन्तरत्वस्यार्थसिद्धत्वादिति । अत्रेदमवधेयम्-न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्व शब्देन भासते ॥ १ ॥ इति वाक्यपदीयोक्तेश्शब्दविशिष्टस्यैवार्थस्य ज्ञाने भानमिति भर्तृहरिमतप्रवचकनयेन शब्दगतस्य क्रमस्यार्थेऽध्यारोपणाचतुर्थभङ्गेऽर्थगततया क्रमभानं भावनीयम् , अथवा शब्दगतोऽर्थगतो वा क्रमो नावभासत एव, किन्तु 'एकत्र द्वयम्' इतिरीत्या तत्र ज्ञानमुपजायते, तदाकारविशेषोपलक्षकमेव ‘क्रमात्' इत्यभिधानम् , अत एव विधिनिषेधयोः क्रमार्पितत्वं शाब्दे न भासते । एवं पञ्चमादिभङ्गोत्थापकाः संशयास्पपादा इति तनिवर्तकानां पञ्चमादिमङ्गानां समुद्भवो ज्ञातव्यः, तृतीयादिभङ्गानां प्रथमभङ्गद्वयमूलकत्वात् तसिद्धौ तन्नान्तरीयकतदुत्तरभङ्गानां सुतरां सिद्धिभावात् , न चैवमभ्युपगमे सप्तभङ्गानां प्रतिभङ्गं संशयजिज्ञासादिना व्यवधाने सति एकधर्मिविशेष्यकव्यस्तसमस्तविधिनिषेधात्मकसप्तधर्मप्रकारकसमुच्चयबोधजनकत्वं न स्यादिति प्रानिकप्रश्नज्ञानप्रयोज्यत्वे सति एकवस्तुविशेष्यकाविरुद्धविधिप्रतिषेधात्मकसप्तधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वरूपसप्तभङ्गीलक्षणक्षतिस्स्यादिति वाच्यम् , यतः पुनरव्यवधानेनोपस्थितिकल्पनया सप्तभङ्गीभावमापन्नानां भङ्गानां तादृशसमुच्चयात्मकबोधजनकत्वं स्यादेव । उक्तसप्तभङ्गीलक्षणतात्पर्यमप्येवं ज्ञेयम्-एकवस्तुविशेष्यकसवासत्त्वादिसप्तधर्मप्रकारकशाब्दबोधजनकतापर्याप्यधिकरणं वाक्यं सप्तभङ्गीति, विरोधस्फूत्तौं वाक्यस्याबोधकत्वेनैवाविरुद्ध त्यस्य गतार्थत्वात् , प्रश्नस्य च क्वाचिकत्वाच्छिष्यजिज्ञासयेव कचिद्गुरोर्जिज्ञापयिषयैव सप्तभङ्गीप्रयोगसङ्गतेः प्रानिकेत्यादिविशेषणस्यापि लक्षणेऽप्रवेशात् , नानावस्तुषु सत्वासच्यादिबोधकवाक्येऽतिप्रसङ्गवारणायकवस्तुविशेष्यकेति, एकत्र रूपरसादिसप्तधर्मबोधकेऽतिप्रसङ्गवारणाय सच्चासत्वादीति, खण्डवाक्ये तद्वारणाय पर्याप्तिनिवेशः, प्रमाणसप्तभङ्गीवनय सप्तभङ्गथा अपि लक्ष्यत्वान्न तत्रातिव्याप्तिः, प्रमाणनयसप्तभङ्गयोः पृथक
-"Aho Shrutgyanam"