________________
सम्मति० काण्ड , गा० -३५
आयेन द्वितीयेन च भङ्गेन क्रमाप्तेि स्वद्रव्यक्षेत्राद्यवच्छेदेन कथश्चिदस्तित्वे परद्रव्यक्षेत्राद्यवच्छेदेन कथञ्चिन्नास्तित्वे च ज्ञाते सति सहार्पितास्तित्वनास्तित्वोभयस्योपस्थितिसम्भवेन प्राधान्येन युगपत् स्वद्रव्यादिपरद्रव्याद्यवच्छेदकभेदेन तदुभयमस्ति न वेति संशये सति तन्मूलकतद्धर्मजिज्ञासाप्रभवतद्धर्मप्रश्नसमुद्भवे युगपत्प्राधान्येनास्तित्वनास्तित्वोभयधर्मसद्भावेऽपि तथा तत्प्रतिपादकस्य कस्यचिदेकपदस्य समासविग्रहान्यतरात्मकवाक्यस्य वाडभावात्स्यादवक्तव्य एव घट इत्याकारकस्य तृतीयभङ्गस्यावतारस्सम्भवत्येव, न च "पुष्पदन्तावेकोच्या शशिभास्करौ" इति कोशस्वरसादेकोच्या प्राधान्येन चन्द्रत्वसूर्यत्वोमयरूपेण चन्द्रसूर्योभयप्रतिपादकपुष्पदन्तशब्दवत् " तो सत्" ३।२ । १२७ । इति पाणिनीयसूत्रेण प्राधान्येन 'शवशानन्' इत्युभयसङ्केतितसच्छब्दवच्च प्राधान्येन सच्चाऽसचोभयधर्मसङ्केतितयत्किञ्चिदेकशब्देन युगपत् प्राधान्येन सत्चासत्वोभयधर्मस्य प्रतिपादनसम्भवातद्रूपेण वक्तव्य एव घट इति नोभयधर्मयुगपत्प्राधान्यविवक्षायामपि स्यादवक्तव्य एव घट इति तृतीयभङ्गावतारस्तम्भवतीति वाच्यम् , पुष्पदन्तपदेन चन्द्रत्वेन चन्द्रस्य सूर्यत्वेन सूर्यस्य युगत्प्रतीतावपि चन्द्रत्वसूर्यत्वयोरेकेनोभयत्वेनाऽनुगमनात्तथाबोधस्य समूहालम्बनबोधात् साक्षात्परम्परया निरूप्यनिरूपकमावाऽनापन्नभिन्न प्रकारतानिरूपितभिन्नविशेष्यतानिरूपकाचन्द्रनिष्ठविशेष्यतानिरूपितचन्द्रत्वनिष्ठप्रकारतानिरूपितोभयत्वनिष्ठावच्छेदकतानिरूपितसूर्यत्वनिष्ठप्रकारतानिरूपितसूर्यनिष्ठविशेष्यतानिरूपकत्वेन साक्षात्परम्परया परस्परनिरूप्यनिरूपकमावापन्नविषयताकस्य लक्षण्येऽपि नैकधर्मिणि चन्द्रत्वसूर्यत्वोमयधर्मस्य बोधनम् । यद्वा पुष्पदन्तपदं चन्द्रे सूर्ये च शक्तमित्याकारकशक्तिप्रहसहकतादेकोच्चारणान्तर्भावेन चन्द्रत्वसूर्यत्वविशिष्टशक्तात्पुष्पदन्तपदाच्चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारको बोधः, तत्र चन्द्रत्वसूर्यत्वयोर्द्वयोरपि पुष्पदन्तपदप्रवृत्तिनिमित्तत्वेन रूपेणकीकृतयोरपि नैकधर्मिणि बोधनम् , प्रकृते तु सत्त्वासखोभयस्य सत्वत्वेनाऽसत्वत्वेन युगपदेवैकत्र धर्मिणि बोधनमभीप्सितमिति न पुष्पदन्तपदं तथा बोधने समर्थमिति न तदृष्टान्तबलाचथावोधनसमर्थमेकपदं कल्पयितुं शक्यम् , सत्पदमपि सत्वेनैकधर्मेणैव शतृशानचोर्बोधनसमर्थमिति न तदृष्टान्तस्याप्यवकाशः, न च सत्यासत्वोमयसङ्केतितमप्युभयपदं प्राधान्येन सत्वत्वेनासत्वस्वेन च तदुभयप्रतिपादकं, किन्तूभयत्वेनैवेति व्यासज्यवृत्तिधर्मेणोमयत्वेन रूपेणास्तित्वनास्तित्वधर्मद्वयावच्छिमबोधस्योमयपदात्सम्भवेऽपि ताशबोधाकारः 'उभयम्' इत्येव स्यादिति नोमयपदादपि सत्वत्वेनाऽसत्वत्वेन युगपत्प्राधान्येन सन्चासत्त्वयोः प्राधान्येनास्तित्वनास्तित्वोमयाकारो बोधस्सम्भवतीति नोभयपदेनापि तथा वक्तव्यो घट इति सत्व. त्वेनासत्वत्वेन युगपत्प्राधान्येन सस्थासयोभयप्रतिपादकवचनाभावात् स्यादवक्तव्य एव घट इति तृतीयमङ्गसम्भवत्येवेति । न चावक्तव्यत्वधर्मो विधिनिषेधात्मा नेति न
"Aho Shrutgyanam"