SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ * सम्मति० काण्ड १, गा० ३५ जिज्ञासां तदभिलापकप्रश्नवाक्यं किं घटः स्यादस्ति न वैत्याकारमन्तरेण प्रतिपाद्यः पुमान् प्रतिपादकं पुमांसमवगमयितुं प्रभविष्णुरिति प्रतिपाद्येनोक्तस्वरूपे प्रश्नवाक्ये उच्चारिते सति तथाविधेन तेन तस्य जिज्ञासाविशेषमवगम्य प्रतिपादकः प्रतिपाद्यपुरुषीय जिज्ञासाकारणसंशयनिवृत्तिर्यादृशवाक्यात्स्यात्तादृशमेवोत्तरवाक्यं प्रयुञ्जीत, तच्च घटः स्यादस्त्येवेत्याकारं प्रथमभङ्गरूपमेव, तत्रास्तित्वधर्मसमभिव्याहृतस्यात्पदं स्वद्रव्यक्षेत्रकालभावा पेक्षास्फोरक मिति निमित्तभेदेनाविरोधद्योतनेन द्रव्याद्यपेक्ष प्रतिनियतस्त्ररूपप्रतिपत्तये स्यात्पदं प्रयोक्त व्यम्, यतस्तत्तदपेक्षागर्भतत्तदनेकपर्यायकरम्बितत्वाद् वस्तुनस्तथा तथा प्रयोगे तत्तदपेक्षालाभार्थ स्यात्कारमेव प्रयुञ्जते सर्वत्र प्रामाणिकाः, अन्यथा निराकाङ्गमेव सर्वं वाक्यं प्रसज्येत, एवं येन रूपेणास्तित्वं तेनैव रूपेण नास्तित्वरूपानिष्टार्थनिवृत्तयेऽवधारणार्थ कमेव कारपदमपि प्रयोक्तव्यमेव । उक्तञ्च खण्डखाद्येऽष्टमश्लोकटीकायाम् - " निमित्तभेदेनाविरोधद्योतनार्थ स्यात्पदस्य अवधारणार्थं च एत्रकारस्य प्रतिभङ्गं प्रयोग इति " । अयम्भावः - - एवकारप्रयोगे घटो नील एवेत्यत्र सर्वावयवावच्छिन्ननीलवत् सन्नैव घट इत्यतस्स्वद्रव्यक्षेत्रादिपरद्रव्यक्षेत्रादिसर्वावच्छिन्नसश्च प्रतीतौ तदपवादाय स्वद्रव्यक्षेत्र कालभावात्मक नियतावच्छेदकस्फोरणार्थ स्यात्पदधौव्ये येन रूपेणाऽस्तित्वं तेनैव रूपेण नास्तित्वरूपाऽनिष्टार्थं निवृत्यर्थं सावधारणः प्रयोगो युक्त एव, तथा च स्वद्रव्यक्षेत्रकालभावरूपेण प्रधानतया घटेऽस्तित्वविवक्षयाऽसच्वोपसर्जनसच्च प्रतिपादनपरः प्रथमभङ्गः, वक्त्रा स्यादस्त्येवेत्याद्य मङ्गेऽभिहिते भोत्रा तेन कथञ्चिदस्तित्वे ज्ञाते तस्य प्रथमभङ्गप्रविष्टस्यात्पदमहिम्ना किं घटे नास्तित्वधर्मोऽस्ति न वेति संशयस्समुद्भवति, तेन च मे घटे नास्तित्वधर्मज्ञानं जायतामिति जिज्ञासोद्भवति, तया च किं घटेऽस्तित्वमिव नास्तित्वमप्यस्ति १ येन स्यात्कार उपादीयत इति प्रश्ने क्रियमाणे परद्रव्यादिना कथञ्चिन्नास्तित्वधर्मोपदर्शनार्थं स्यान्नास्त्येवेति द्वितीयभङ्गः प्रयुङ्क्ते वक्ता, तत्र सर्व हि वाक्यं सावधारणमिति न्यायमनुसृत्य क्रियमाणैत्रकार प्रयोगेण नास्तित्वस्यावधारणादसम्भवाशङ्काव्यवच्छेदेऽप्येकान्तनास्तित्वधर्मप्रसक्त्या तत्कथं कथश्चिदस्तित्वविरुद्धं तत्र सङ्गतमित्याशङ्कोत्तिष्ठते, तद्वयवच्छेदार्थं स्यात्पदप्रयोगः, तेन परद्रव्यादिना कथञ्चिन्नास्तित्वप्रतीत्या सोपशाम्यतीति स सार्थक एव, एकान्तवचनं मिथ्याचचनमिति जिनप्रवचनतच्ववेदिनो मिथ्यावादित्वपरिजिहीर्षया सर्वमपि वाक्यं स्यात्कारपुरस्सरमेव भाषन्ते, न तु जात्वपि स्यात्कारविरहितम्, तद्विरहितवाक्यस्यैकान्तावधारणवाक्यरूपत्वेन ओहारणी भासां नेव भासेत " " अवधारणीं भाषां नैव भाषेत " इत्यनेन तन्निषेधात् यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात् स्यात्पदं प्रयुञ्जते, तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छन्दो दृष्टव्यः प्रयोजकस्य कुशलत्वात् । उक्तञ्च - " अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । 41 विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः ॥ १ ॥ " इति । " Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy