________________
अम्मति• काड , गा३५ भावापेक्षया स्यादस्त्येव घटा, परद्रव्यक्षेत्रकालभावापेक्षया स्यानास्त्येव घट इत्यादिपरस्परसाकाङ्क्षवाक्यसप्तकसमाहारस्वरूपसप्तमगीभावमापनं महावाक्यमेव प्रयुक्त तदैव, तथैक प्रतिपादयतश्च निपुणत्वं भवति, वस्तुनो यथास्वरूपं तथैव प्रतिपादनात, स्यात्पदालाञ्छितैकवाक्यमात्रप्रतिपादने तु तस्याऽनैपुण्यमेव स्यात् , यतः प्रतिपाद्यस्याज्ञानसंशयविपः र्ययनिरासार्थमेव वाक्यं प्रयुज्यते, नान्यथा, तत्र घटगतास्तिस्वस्वरूपेऽनभिज्ञ संशयितं भ्रान्तं वा प्रत्यज्ञानादिनिरासार्थ यदि स्यात्पदाऽलाञ्छितं घटोऽस्तीत्येतावन्मानं प्रयुज्यते तदास्तित्वधर्मसमभिव्याहृतस्यात्पदद्योत्यस्वद्रव्यक्षेत्रकालभावरूपापेक्षोक्तेरभावाचता सर्व प्रकारेणास्तित्वमेव घटस्य निश्चिनुयात्प्रतिपाद्या, नच सर्वथाऽस्तित्वं घटे वर्तते, तथा सति घटत्वात्मकस्वस्वरूपेणेव पटत्वमठत्वादिपररूपेणापि घटस्यास्तित्वे प्राप्ते घटस्य सर्वात्मकत्वप्रसङ्गः, न हि पटादीनां पटादिस्वरूपता पटत्वादिनाऽस्तित्वमन्तरेणान्या, आपादनश्चात्र घटो यदि पटत्वकटत्वमठत्वादिनास्तित्ववान् स्यात् तदा पटकटमठाद्यात्मकस्स्यात्, पटकटादिवत् , यद्वा स्वद्रव्यरूपेणेव परद्रव्यरूपेणापि सत्त्वे स्वाश्रयद्रव्यप्रतिनियमो न स्यात् । अथ संयोगविमागादेरनेकद्रव्याश्रयत्वेऽपि तद्र्व्यप्रतिनियमो न विरुध्यत एव तद्वत्प्रकृतेऽपीति चेत् ,न, तस्यानेकद्रव्यगुणत्वेनानेकद्रव्यस्यैत्र स्वद्रव्यत्वात् , स्वानाश्रयद्रव्यान्तरस्य परद्रव्य स्वात्, ततोऽपि सत्वे स्वाश्रयद्रव्यप्रतिनियमव्याघातस्य तदवस्थत्वात् , परद्रव्यरूपेणेष स्वद्रव्यरूपेणापि कस्यचिदसत्त्वे सकलद्रव्यानाश्रयत्वप्रसङ्गादिष्टद्रव्याश्रयत्वं न स्यात् , तथा स्वाधारक्षेत्ररूपेणेव पराधारक्षेत्ररूपेणापि सचे कस्यचित्प्रतिनियतक्षेत्रवृत्तित्वव्यवस्थितिर्न स्यात्, परक्षेत्ररूपेणेव स्वक्षेत्ररूपेणापि चाऽसत्त्वे निःक्षेत्रतापत्तिस्स्यात्, तथा स्वकालापेक्षयेत्र परकालापेक्षयाऽपि सखे प्रतिनियतकालवृत्तित्वव्यवस्थितिने स्यात् , परकालापेक्षयेव स्वकालापेक्षयाप्यसत्वे सकलकालावृत्तित्वं स्यात् , स्वभावरूपेणेव परभावरूपेणापि सच्चे प्रतिनियतभावात्मकत्वं न स्यात् , परमावरूपेणेव स्वभावरूपेणाप्यसवे विवक्षितभावशालि. स्वमपि न स्यात् , न च घटोऽस्तीत्यत्र घटपदसमभिव्याहारादस्तिपदं घटत्वेनाऽस्तित्वं बोषयतीति न सर्वप्रकारेणास्तित्वप्रसक्तिः स्यात्पदाऽप्रयोगेऽपीति वाच्यम् , एवं सति घटे सस्थामावप्रतिपादनेच्छयोचरिते घटो नास्तीति वाक्येऽपि घटपदसमभिव्याहारेण नास्ती. त्यस्य घटत्वेन नास्तित्वप्रतिपादकत्वमेव स्यात्, न चैवमभ्युपगन्तुं युक्तम् , एकस्यैवैकेनैव रूपेणास्तित्वनास्तित्वयोर्विरोधात् । न च घटोऽस्तीत्यनेन घटत्वपटत्वादिना केनापि प्रकारेणास्तित्वं न प्रतिपाद्यते, किन्तु सामान्यत एवास्तित्वं घटस्य, तच्चाबाधितमेवेति वाच्यम्, यतो घटोऽस्तीत्यनेन घटे सामान्यतोऽस्तित्वस्य ज्ञाने तस्य कथश्चिदस्तित्व सर्वथाऽस्तित्वयोः साधारणतया साधारणधर्मज्ञानस्य च संशयकारणत्वेन घटः कथञ्चिदस्तिन वेति संशयस्स्यात् , संशयस्य च जिज्ञासाम्प्रति कारणत्वेन संशये सति घटे कथञ्चिदस्तित्वज्ञानं मे जायतामित्याकारा. जिज्ञासाऽपि न निरोद्धं शक्या, न च तादृशीं स्वीय
"Aho Shrutgyanam'