________________
१४२
सम्मतिः काल , ह. ३५ नुगताऽभिकस्वरूपतया पुरुषः पुरुष इत्येवमुच्यमानं नित्यमविकल्पं भेदं न प्रतिपद्यते इति भावः । नन्वेतावता पुरुषद्रव्यस्यैकान्तेनाविकल्परूपत्वमेव प्रासं, तच्च स्याद्वादविरुद्धमित्यतस्तस्य सविकल्परूपत्वप्रतिपादनेन कथश्चिदद्भेदाभेदात्मकस्थाद्वादरूपताप्रतिपादनायोचराईमाह-"बालाइवियप्पं" इत्यादि । 'से' तस्य पुरुषद्रव्यस्य 'अस्थपजाओ' अर्थपर्याय अर्थपर्यायग्राहिऋजुसूत्रादिनयः, उपचारेण विषयेण विषयिणो ग्रहणात् , 'पुण' पुन: 'बालाइवियप्पं बालादिविकल्पं बालकुमारादिभेदं 'पासइ' पश्यति, व्यञ्जनपर्यायमतेनाभिनमपि पुरुषद्रव्यमर्थपर्यायग्राहिऋजुत्रादिनयविषयबालादिपर्यायस्वरूपतया भेदमप्यनुत इति भावः ॥ ३४ ॥
एतावत्प्रबन्धेन निर्विकल्प-सविकल्पोभयस्वरूपतया प्रतिपादिते पुरुषादिवस्तुनि सति एकान्तेन सविकल्पमेव निर्विकल्पमेव वा तद्वस्तु प्रतिपादयन् स्वीयवस्तुतत्वानमिज्ञतामेव विदुषां चेतसि प्रत्याययतीत्युपदर्शयत्राह
सवियप्प-णिवियप्पं, इय पुरिसं जो भणेन अवियप्पं ।
सवियप्पमेव वा णिच्छएण, ण स निच्छिओ समए ॥ ३५॥ "सवियप्प-णिन्नियप्पं' सविकल्पनिर्विकल्पं, सविकल्पश्च निर्विकल्पश्चेति अनयोस्समाहारः सविकल्पनिर्विकल्पं तत्तदपेक्षोपस्थापकस्यात्पदद्योत्यानेकान्तात्मकतदुभयधर्मोपेतं स्यात्सविकल्पं स्यानिर्विकल्पं 'पुरिसं' पुरुष तदुभयपदघटितसप्तभङ्गयात्मकमहावाक्यजबोधविषयं पुरुषद्रव्यं 'जो' यः प्रतिपादकोऽविदितयथार्थतत्वः "अवियप्पं सवियप्पमेव वा इय" एवेत्यस्योभयत्रान्वयात्, अविकल्पमेव सविकल्पमेव वेति “णिच्छएण" निश्चयेन एकान्तेन 'भणेज' भणेत् ब्रूयात् 'ण स णिच्छिओ समएस एकान्ततत्वप्रतिपादकः, समये सम्यग् ईयते परिच्छिद्यते इति समयः, यथावस्थितोऽर्थः, तस्मिन् , निश्चितं निश्चयः तदस्यास्तीति निश्चिता, अर्श आदित्वादचूप्रत्ययः, सम्यगर्थ इत्यर्थके समय इत्यत्र सप्तम्या विषयत्वार्थकत्वेन यथाऽवस्थितार्थविषयकनिश्चयवान स इत्यर्थः, दुर्नयाभिनिवेशामयाज्ञत्वाद्वा सम्पूर्णानेकान्तवस्तुस्वरूपाऽपरिच्छेदाद्वा न यथार्थतत्त्वक्ष इति भावः। नन्वेवं तर्हि सम्पूर्णानेकान्तात्मकवस्तुस्वरूपविषयकं निराकासपरिपूर्णपोधमाधातुं प्रति पादकः प्रतिपाद्यस्य कथं प्रभवतीति चेत् , उच्यते, यदा कथश्विनेदाभेदोभयात्मके वस्तुनि व्यञ्जनपर्यायापेक्षया स्यादभिन्न एव पुरुषः, बालाद्यर्थपर्यायापेक्षया स्याद् भिन्न एव पुरुषः, युगपत्तदुभयार्पणया स्यादवक्तव्य एव, क्रमिकोभयाणया स्यादमिन एवं स्यादिन्न एव च, व्यञ्जनपर्यायत्रिवक्षया युगपत्तदुमयार्पणया च स्यादभिन्नः स्यादवक्तव्य एव, बालाघर्थपर्यायविवक्षया युगपत्तदुभयविवक्षया च स्याद्भित्रः स्यादवक्तव्य एत्र, क्रमिकतदुभयार्पणया युगपत्तदुभयार्पणया च स्यादभिन्नः स्यादिनः स्यादवक्तव्य एव, एवं स्वद्रव्यक्षेत्रकाल
"Aho Shrutgyanam"