________________
सम्मति काण्ड १, पा० ३४ रूप एवेति नासौ स्वयमेव वाली युवा स्थविरश्चेत्यादिभेदरूपतां प्राप्नुयात् , अन्यमपि पुरुष तथैवैकरूपमभ्युपगच्छन् अभेदरूपं तं पुरुषं न बालादिभेदरूपं पश्येदिति । ननु बालाधव. स्थाऽपि पारमार्थिकी नास्त्येवेति चेत्, तर्हि तदप्यमेदरूपं पुरुषवस्तु बालादितुल्लतामसद्रूपतया प्राप्नुयादित्याह-"तुल्लं व पावेजा" बालाघवस्थाया अपारमार्थिकत्वे अवस्थातद्वतो. कथञ्चिदभेदात्तदनुगामिपुरुषद्रव्यस्याप्यभावप्रसङ्गस्स्यात् , परमार्थवृत्या भेदाप्रतीतावभेदस्याप्यप्रतीतेः। एकान्ताभेदवदेकान्तभेदोऽपि न प्रमाणार्ह इत्यप्युक्तमाथातो लभ्यते, तथा हि-अस्थित्ति' अस्ति इत्येवं 'णिवियप्पं निर्विकल्पं निश्चितो विकल्पो भेदो यस्मिन् पुरुषद्रव्ये तद् निर्विकल्पं, भेदरूपमिति यावत् , भेदरूपापन्नं 'पुरिसं' पुरुषं 'पुरिसकालम्मि' पुरुषस्वरूपलाभकाले तदुत्पत्तिसमय इति यावत् , 'जो भणई' यो भणति, स 'बालाइवियप्प नालादिविकल्पं 'न लहइ' न लभेत, य एवं वक्ता सोऽपि पुरुषस्वरूप इति स्वयं पुरुषस्वरूपलाभकाले बालादिभेदं न प्राप्नुयात् , अभेदाभावे भेदस्याप्यभावात् । 'अथवा तल्लं व पावेजा' असद्रूपतया द्रव्यतुल्यतामेवासौ प्राप्नुयात् , यथा द्रव्यमसत्, एकस्वरूपानभ्युपगमात् , तथैकस्वरूपाभावे तदग्रहे भिन्नस्वरूपस्याप्यमावेनाग्रहादभेदवद्भेदस्वरूपमप्यसदेव स्यात् । न चैवमेव न्याय्यम् , सयवहारोच्छेदापत्तेरिति भेदवदभेदोऽपि वस्तुगत्याऽभ्यु. पेयः, तथा च भेदाभेदोभयस्वरूपं पुरुषद्रव्यमिव तदृष्टान्तेनान्यदपि वस्तु भेदाभेदोमयस्वरूपमेवाभ्युपेयमिति भावः ॥ ३४ ॥ अमुमेवार्थमुपसंहरनाह
वंजणपज्जायस्स उ पुरिसो पुरिसोत्ति निश्चमवियप्पो।
बालाइवियप्पं पुण पासइ से अस्थपन्जाओ ॥ ३४ ॥ शब्दपर्यायेणाविकल्पः पुरुषो बालादिना स्वर्थपर्यायेण सविकल्प इति सचिसार्थः। विस्तृतार्थस्त्वेवम्-'वंजणपजायस्स' व्यञ्जयति बोधयति व्यनक्ति वाऽर्थानिति व्यञ्जनम् , शब्दा, न पुनः शब्दनयः, तस्यर्जुसूत्रेण सह पर्यायविषयत्वेन तुल्यत्वात् , अर्थात् ऋजुत्रो यथा क्षणिकमर्थपर्यायमभ्युपगच्छति तथा शब्दनयोऽपि, एवं च व्यञ्जनपदेन शब्दनयग्रहणे व्यञ्जनपर्यायः शब्दनयविषयीभूतक्षणिकखरूपपर्याय एव स्यात् , तथा च. तादृशपर्यायग्राहिनयेन पुरुषपदप्रतिपाद्यं पुरुषात्मकं वस्तु मिन्नमेव भवेत् , न त्वाजन्ममरणान्तमभिनस्वरूपम्, ध्यञ्जनपदेन शब्दग्रहणे तु तस्य पर्यायः आजन्मनो मरणान्तं यावदभित्रस्वरूपपुरुषद्रव्यप्रतिपादकत्वलक्षणा, तस्य, विषयेण विषयिण उपलक्षणात् तद्वाहकनयस्य मतेनेति शेषा, "पुरिसो पुरिसोत्तिनिचमवियप्पो" पुरुषः पुरुष इत्येवममिनस्वरूपतया पुरुषशब्दप्रतिपाय आजन्मनो मरणपर्यन्तं पुरुषरूपोऽर्थो 'नित्यम्' अनवरतम् 'अविकल्पः' विकल्पो भेदस्तेन रहितः, व्यञ्जनपर्यायमतेन पुरुषद्रव्यं तत्तत्क्षणभेदभिन्नपूर्वोत्तरनिखिलस्त्रपर्यायेष्व
"Aho Shrutgyanam"