________________
१४०
सम्मति० काण्ड १, गा० ३२-३३ पुरिसम्मि पुरिससद्दो, जम्माई मरणकालपजन्तो।
तस्स उ थालाईआ, पनवजोया बहुवियप्पा ॥ ३२ ॥ 'पुरिसम्मि' अतीतानागतवर्तमानानन्तार्थपर्यायव्यञ्जनपर्यायात्मके पुरुष पुरुषवस्तुनि । 'पुरिससहो' पुरुष इति शब्दो वाचको यस्यासौ पुरुषशब्दः, पुरुषशन्दाभिधेयोऽर्थी, स कियत्कालपर्यन्त इत्यत आह-'जम्माई मरणकालपञ्जन्तो' जन्मादिमरणकालपर्यन्तः, पुरुषोत्पत्तेरारभ्य पुरुषमरणकालावधिवृत्तिको भवतीत्यतो बालादितत्तदवस्थाभेदेऽपि तदनुगामितया पुरुषव्यक्त्यात्मकस्सोऽभिन्न एव, प्रतिक्षणाहियमाणाहारादिपुद्गलैरवयवोपचयापचयाभ्यां परिमाणभेदेन भिन्नभिन्नशरीरादिव्यक्तौ सत्यां बालकुमारयुवा. घवस्थाभेदेन तद्विशिष्टात्मनो भेदेऽपि बालावस्थायां पुरुषोऽयं युवाद्यवस्थायामपि पुरुषोऽयमित्यनुगतप्रतीतिव्यवहारभावात् , यश्चानुगततया प्रतीयते व्यवाहियते च सोऽभिन्नतया सर्वैरप्यविगानेन घटत्वादिवत्स्वीक्रियत एव, पुरुषाभिधेयपरिणामवतस्तस्यार्थपर्याया अनेकविधा इत्युपदर्शयितुमुत्तरार्द्धमाह-"तस्स उ बालाईया पज्जवजोया बहुवियप्पा" तुः अवधारणार्थे, तस्यैव न त्वन्यस्य, बालादयः पर्याययोगाः परिणतिसम्बन्धाः प्रतिक्षणसूक्ष्मपरिणामलक्षणा अर्थपर्यायरूपाः, बहुविकल्पा अनेकविधाः, प्रतिक्षणं संयोगिद्रव्योपचयापचयतः पर्यायान्तरोत्पत्तेः, बालावस्थायामयं बालो न तु युवादियुवावस्थायामयं युवा न तु बालो वृद्धो वेत्यादिभेदप्रतीते, एवञ्च व्यञ्जनपर्यायेण 'स्यादेका' इति मङ्गप्रतिपाद्योऽभिन्ना, अर्थपर्यायैः 'स्यादनेकः' इति भङ्गप्रतिपाद्यो भिन्नः पुरुषः सिद्धः, अन्यथाऽभ्युपगमेऽतिप्रसङ्ग " अस्थिति निवियप्पं " इत्यनन्तरगाथया दर्शयिष्यति ॥ ३२॥
यथा पुरुष उक्तस्वरूपस्तथा वस्तुमात्रं तत्तत्कालोत्पन्न भिन्न भिन्नावस्थात्मकार्थपर्यायैरनेके विवक्षितक्रमिकाऽर्थपर्यायानुगामिकालत्रयावच्छिन्नव्यक्त्यात्मकव्यञ्जनपर्यायेण चैकम् , वथैवोपलव्धेः, अन्यथाऽभ्युपगमे एकान्तरूपमपि तन्न भवेदित्युपदर्शयनाह
अथिति णिब्वियप्पं, पुरिसं जो भणइ पुरिसकालम्मि ।
सो बालाइवियप्पं, न लहइ तुलं व पावेजा ॥ ३३ ।। 'अथित्ति' 'अस्ति' इति । एवं 'णिवियप्पं ' निर्विकल्पं निर्गतो विकल्पो भेदो यस्मात्स तथा तं, अभेदरूपमिति यावत् 'पुरिसं ' पुरुषं पुरुषशब्दवाच्यं, 'जो भगइ' यो भणति ब्रवीति, 'सो' स 'पुरिसकालम्मि' पुरुषकाले पुरुषोत्पत्तिक्षण एव, “बालाइवियप्पं ' बालादिविकल्पम् , अत्रादिपदेन कुमारयुवादिग्रहणेन विकल्पस्य च भेदार्थकत्वेन बालकुमारयुवादिभेदं न लहई' न लभते-न प्राप्नोति, जन्मसमय एव बालादिभेदमपि न प्राप्नुयात् , अयम्भाव:-पुरुषद्रव्यमेकरूपमेवेत्येवं वक्ताऽपि पुरुषो जन्मादिमरणपर्यन्तमेक
"Aho Shrutgyanam"