________________
सम्मति• का , गा. ३१ अनन्ता अनन्ताऽनन्ताः, एको हि परमाणुळ्यणुकादिभिरनन्ताणुकान्तैर्द्रव्यैस्सह संयुज्यमानोऽनन्तान् परिवर्तान् लभते,प्रतिद्रव्यं परिवर्तभावात् ,अनन्तत्वाच परमाणूना,प्रतिपरमाणु चानन्तत्वात्परिवर्तानां परमाणुपुद्गलपरिवानामनन्तानन्तत्वं दृष्टव्यमिति । 'पुग्गलपरियट्ट 'त्ति-पुद्गगलैः पुद्गलद्रव्यैः सह परिवाः -परमाणूनां मीलनानि पुद्गलपरिवर्ताः, 'समनुगन्तव्याः ' अनुगन्तव्या भवन्तीति हेतोः 'आख्याताः' प्ररूपिता भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥ अथ पुद्गलपरावर्तस्यैव भेदामिधानायाह 'कइविहे ण'मित्यादि, ओरालियपोग्गलपरियट्टेत्ति-औदारिकशरीरे वर्तमानेन जीवेन यदौदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसावौदारिकपुद्गलपरिवर्तः, एवमन्येऽपीति ॥ 'तावइयं तं हवइ दवं' इति जात्येकवचनप्रयोगादेकैकं द्रव्यं सर्व सर्वद्रव्यार्थतया सर्वपर्यायार्थतया च प्राक विपरिवर्ति पश्चाद् विपरिवर्तिध्यते चेति तत्तदेकैकं द्रव्यमपि सर्वास्मकमवबोद्धव्यं भवति, तस्यातीतानागतवर्तमानसर्वद्रव्यपर्यायार्थतया परिणमनस्वभाव. स्वाद । एकवाक्यतया संवदति चात्र
"जे एगं जाणइ से सव्वं जाणइ ।
जे सव्वं जाणइ से एगं जाणइ ॥ सू० १२२ ॥" इत्यस्याऽऽचाराङ्गत्रोक्तस्य व्याख्यायां यः कश्चिदविशेषितः 'एक' परमाण्वादिद्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति ' परिच्छिनत्ति स सर्व स्वपरपर्याय जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनामावित्वात् , इदमेव हेतुहेतुमद्भावेन लगयितुमाह-'जे सवं' इत्यादि, या सर्व संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादिवस्तु जानाति, तस्यैवातीतानागतपर्याय भेदैस्तत्तत्स्वभावापत्त्याऽनाघनन्तकालतया समस्तवस्तुस्वभावगमनादिति । तदुक्तम्
" एगदवियस्स जे अत्थपञवा, अयणपजवा वावि।
तीयाणागयभूया, तावइयं तं हवइ दव्वं ॥१॥" इत्युक्तमिति, एतच्चाग्रे विवेचयिष्यते ॥ ३१ ॥
एकैकद्रव्यमर्थपर्यायव्यञ्जनपर्यायस्वैकालिकानन्तपरिणामात्मकत्वेनानेकान्तात्मकमिति प्रतिपाद्याधुना पुरुषतदीयवालाद्यवस्थादृष्टान्ताभ्यां क्रमेण व्यञ्जनपर्यायस्य त्रिकालानुयायित्वेन जन्मादिमरणावधिस्थूलकालस्थायितयाऽनुगतामेदप्रत्ययहेतुत्वम् अर्थपर्यायाणा सूक्ष्मवर्तमानकालमात्रवर्तित्वेन प्रतिक्षणसूक्ष्मपरिणामरूपतया तत्तत्क्षणापेक्षभिन्नभिमस्वरूपस्वेन भेदप्रत्ययहेतुत्वमिति पुरुषद्रव्यस्य व्यञ्जनपर्यायेणाभेदः, अर्थपर्यायैश्च भेद इत्येकानेकत्वेनानेकान्तात्मकत्वमुपदर्शयितुमाह
"Aho Shrutgyanam"