________________
१२८
सम्मति० का १, ० ३१
यस्मिनेकद्रव्ये जीवाद 'जे' ये 'अत्थपजया' अर्थ पर्याया:- अर्थग्राहकाः सङ्ग्रह - व्यवहारऋजुसूत्राख्याः, तद्ब्राह्या वा तत्तदर्थाः, 'वयणपजया वाचि' वा अथवा, वचनपर्याया अपि, शब्द- समभिरूढ - एवम्भूताख्याः शब्दनया अपि ग्राह्यपदार्थस्यानन्तप्रमाणत्वे तत्तदर्थग्राहकतया परिणतानां नयानामप्यनन्तप्रमाणत्वमिति सूचनपराः, तद्विषयीभूता वस्त्वंशा वाऽपि, यत्तदोर्नित्यसम्बन्धात्ते 'तीयाणागयभूया' अतीतानागतभूता अतीतानागतवर्त्तमानकालावच्छिन्नविवृत्तविवर्त्तिष्यमाणविवर्त्तमानानन्तपरिणामाः 'चतुर्थ चरणोक्तस्य 'तावइयं' इत्यस्य यावच्छब्देन सह नित्यसाकाङ्गत्वाद् यावन्तः " तावइयं तं हवह दवं " तावत्प्रमाणं तद्द्रव्यं भवति, पर्यायाणामानन्त्यात्कथञ्चित्तदभिन्नवस्त्वाख्यद्रव्यमपि तावत्प्रमाणं भवति, पुद्गलपयत्वावच्छिन्नम्प्रति पुद्गलद्रव्यत्वेन पुद्गलद्रव्यस्योपादानभावः, न तु जन्यपृथिवीत्वावच्छि नम्प्रति पृथिवीत्वेन जन्यजलत्वावच्छिन्नं प्रति जलत्वेनेत्यादिरूपेण सः, उपादानकारणत्वञ्च शक्तिविशेषरूपम्, न तु तदतिरिक्तं सखण्डरूपम्, तत्राभिव्यञ्जकविधया पुद्गलत्वमवच्छेदकमित्यतो मयूराण्डकरसे शिरोग्रीवाचञ्चु नेत्रपिच्छोदरचरणादितत्तदनेकाव यत्रतद्गतवत्तद्रूपरसाद्यनुकूलानन्तशक्तिवदुपादानीभूत पुद्गलपरमाणुष्वप्यतीतानागतवर्त्तमानानन्ततचत्पुङ्ग -ल पर्यायपरिणमनशक्तिसद्भावादनन्तकालेन विस्र सा प्रयोगादितत्तत्सामग्री समवधाने सति सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनासादितत्वादवस्थातुश्रावस्थानां कथञ्चिदनन्यस्वाद् घटादयस्सर्वे पदार्थाः पटपुरुषादिसर्वस्वरूपेणापि कथञ्चिद्विवृत्त विवर्त्तन्ते विवर्त्ति यन्त इति सर्वं सर्वात्मकं कथश्चिदिति स्थितम् दृश्यते चैकं पुद्गलद्रव्यमतीतानागतवर्त्तमानद्रव्य - गुण-कर्म- सामान्य- विशेष - परिणामात्मकं युगपत्क्रमेणापि तत्तथाभूतमेव, एकान्ताऽसत उत्पादायोगात्, सतथ निरन्वयविनाशासम्भवादिति । अत एव द्वादशारनयचक्राद्यश्लोकघटकव्यापिपदव्याख्यायां 44 एकः परमाणुर्वर्ण गन्धरसस्पर्शपरिणामैः सप्रभेदैः स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैव द्व्यणुकादिभिस्सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्त्रसिकैः प्रायोगिकैश्च कार्मणशरीरादिभिरभिसम्बद्ध्यते " इत्युक्तं सङ्गच्छते ।
संवदति चात्र- " एएसि णं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवारणं अगतागंता पोग्गलपरियट्टा समणुगंतवा भवतीति मक्खाया ? हंता गोयमा । एएसि गं परमाणुपोग्गलाणं साहणणा जाव मक्खाया ॥ कइविहे णं भंते ! पोग्गलपरियडे पण्णत्ते ? गोयमा ! संतविहा पो० परि० पण्णत्ता, तं जहा - ओरालियपोग्गलपरियट्टे वेउद्द्वियपो० तेयापो० कम्मापो० मणयो परियढे वइपोग्गलपरियट्टे आणापाणुपोम्गलपरियडे " इति व्याख्याप्रज्ञप्तिद्वादशशतकचतुर्थोद्देशगदितभगवद्वचनमपीति । एएसि ण मित्यादि, एतेषां अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः, साहणणामेयाणुत्राएणंति - साहणणत्ति प्राकृतत्वात् संहननं - सङ्घातो, भेदश्व वियोजनं, तयोरनुपातो - योगः संहननभेदानुपातस्तेन, सर्वपुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः । अणवाणंतति अनन्तेन गुणिता
"Aho Shrutgyanam"