________________
सम्मति. काण्ड,१, गा० ३०
व्यञ्जनविकल्पः, “ सहप्पहाणमस्थोवसजणं सेसया चिंति" इति भाष्यवचनादर्थोपसर्जनतया शब्दप्राधान्येन श्रोतुः प्रत्ययोत्पत्तेश्शब्दसमभिरूदैवम्भूताख्यशब्दनयत्रयविषयव्यञ्जनपर्यायो माज्यो विकल्पनीयः, शब्दनये स्वस्ववाचकयावच्छब्दवाच्य एकोऽर्थः, समभिरूवादिनये शब्दतद्धर्मभेदेनार्थभेदाभ्युपगमादेकार्थवाचकपर्यायशब्दाभावात् पर्यायत्वेन शब्दनयाऽभ्युपगत. शब्दभेदेन भिन्नोऽर्थः, तथा चैकस्यार्थस्यानेक शब्दो वाचक इत्यतो भिन्नो व्यञ्जनपर्यायः, एकस्यार्थस्यैक एव शब्दो वाचक इत्यतोऽभिन्नो व्यञ्जनपर्याय इत्येवं स भिनोऽभिन्नश्चेत्यर्थः । अयम्भावः-शब्दनयस्तावत्समानलिङ्गानां समानवचनानां शब्दानां भेदेऽपि तद्वाच्याऽर्थभेदं नाम्युपैति घटकुटकुम्भकलशादिपर्यायशब्दभेदेऽपि तद्वाच्यस्यार्थस्य भावघटात्मकस्यैक्यात् , तथा च तन्मते समानलिङ्गसमानवचनान्तपर्यायशब्दभेदेऽप्यथै क्याभ्युपगमेनानेकाभिधानो भिन्नो व्यञ्जनविकल्पः, अत्रार्थस्याऽभेदेऽपि प्रधानीभूतवाचकशब्दभेदाद्भिन्नो व्यञ्जनपर्याय इति भावः । समभिरूढनयस्तु नैवमङ्गीकरोति, शब्दनयेन भिन्नलिङ्गभिन्नवचनानां स्त्री दारा
आपो जलमित्यादिशब्दानामभ्युपगतस्याऽर्थभेदस्येव समभिरूढनयेन समानलिङ्गसङ्ख्यावचनानामपीन्द्रशक्रपुरन्दरादिशब्दानां घटकलशकुम्भनिपादिशब्दानाञ्च स्वस्ववाच्यार्थभेदस्याभ्युपगमात् , धातुप्रत्ययनिष्पन्नतत्तच्छन्दभिन्नभिन्नव्युत्पत्तिप्रतिपाद्यभिन्न भिन्न क्रियानिमित्तकानां तेषां भिन्नार्थत्वात् , निमित्तभेदाचार्थभेदो दृष्टः, छत्रिदण्ड्यादिवत् । तथा चेन्द्रपुरन्दरादिशब्दा न पर्यायात्मका भिन्नव्युत्पत्तिनिमित्तात्मकप्रवृत्तिनिमित्तत्वादित्यतस्तन्मते एकार्थ एकश्शब्दः, एकस्यार्थस्यैक एव शब्दो वाचक इत्यभिन्नो व्यञ्जनविकल्पः। एवम्भूतनयस्तु व्युत्पत्तिनिमित्तक्रियां यदैव यः करोति तदैव तच्छन्दवाच्यस्सोऽर्थ इत्यभ्युपैति, नान्यदेति चेष्टासमय एव घटो घटशब्दवाच्यः, अन्यथाऽतिप्रसङ्गादिति तत्तक्रियाविशिष्टस्यार्थस्य तत्तक्रियाव्युत्पत्तिनिमित्तक एक एव शब्दो वाचक इति तन्मतेऽप्यभिन्नो व्यञ्जनविकल्प इति । ननु व्यञ्जनविकल्पश्शब्दात्मा, स च वस्त्वन्तरत्वान्न पुरुषादेव्यस्य धर्मः, येनासौ तस्य व्यञ्जनपर्यायो भवेदिति, चेत्, मैवम् , नामनामवतोरभेदाश्रयणेन पुरुष इति वाचकशब्दोऽपि पुरुषरूपार्थस्य व्यञ्जनपर्याय इत्यभ्युपगमादिति ॥ ३० ॥ .
अथ यद्वस्तु सहविषयेण सद्रूपेणैकं व्यवहारविषयेण च द्रव्यत्वादिरूपेणैक ऋजुसूत्रादिपर्यायार्थिकनयविषयेण पूर्वोक्ततत्तद्विशेषरूपेणानेकमित्येवमेकानेकस्वरूपं प्रदर्य तदेव वस्तु त्रैकालिकानन्तार्थपर्यायव्यञ्जनपर्यायात्मकत्वादनन्तप्रमाणमित्युपदर्शयितुमाह
एगदवियम्मि जे अत्थपजया वयणपजया वावि ।
तीयाणागयभूया, तावइयं तं हवइ दव्वं ॥ ३१ ॥ चतुर्थचरणोक्तं तं' इति यत्पदं तेन सह यच्छब्दस्य सम्बन्धाद् ‘एगदवियम्मि'
"Aho Shrutgyanam'