________________
१३६
सम्मतिः बाम गा. तद्विषयकस्य पर्यायार्थिकनयस्य प्रवृत्तिरेव न स्यात, प्रवृत्तौ का द्रव्यार्थिकनयनिरपेक्षव तत्प्रवृत्तिवेत, यदा तु द्रव्यार्थिकनयस्य भेदरूपो विशेषरूपो यो व्यवहारस्स द्रव्यपृथि. व्यादिरूपेण विशेषस्वरूपमपि स्वीकरोति तदा तद्विशेषावान्तरविशेषपरम्परापर्यालोचनया पर्यायार्थिकनयविषयः क्षणिकादिविशेषोऽपि भेदरूपो विचारमार्गमवतरत्येवेति सुकरा पर्यायार्थिकनयप्रवृत्तिस्तद्विषयेति, तदुभयनयापेक्षया कश्चिद्भेदसम्पृक्ताऽभेदात्मकमेव वस्त्व. भ्युपगन्तव्यमिति भावः ॥ २९ ।। एवं कथञ्चिभेदाभेदरूपं वस्तूपदर्य भेदस्य पर्यायार्थिकनयविषयस्य द्वैविध्यमाह
सो उण समासओ चिय, वंजणणियओ य अत्थणियओ य।
अत्थगओ य अभिन्नो, भइअव्वो वंजणवियप्पो ॥३०॥ पर्यायार्थिकनयविषयविशेषात्मकभेदोऽपि शब्दनयनिबन्धनोऽर्थनयनिबन्धनश्चेति द्वि. भेदः, तत्र द्वितीयभेदरूपोऽर्थनयविषयोऽर्थपर्याय एकविध एव, अर्थनयेन सहव्यवहारर्जुसूत्र. लक्षणेनाभिन्नार्थपर्यायाभ्युपगमात् , शब्दनयविषयव्यञ्जनपर्याय आधभेदलक्षणस्तु भिन्नोऽभि. भश्चेति भेदद्वयात्मकः, तत्र साम्प्रताख्यशब्दनय एकस्यार्थस्यानेकपर्यायशब्दो वाचक इत्यतो मिन्नः, समभिरूढनये एवम्भूतनये चैकस्यार्थस्यैक एव शब्दो वाचक इत्यतोऽभिन्न इति संक्षिप्तार्थः । विस्तृतार्थस्त्वेवम्-'सो उण समासओ चिय' स इति तच्छब्दरूपम् , तच्छन्दश्च पूर्वोपदर्शितपरामर्शक इति स पर्यायनयविषयः पूर्वप्रदर्शितो विभागः पुनस्समासतः सझेरतो द्विविध एव, द्विविधत्वमेवाह-- 'वंजणणियओ य अत्यणियओ य' व्यञ्जननियतश्च-व्यज्यते प्रकटीक्रियते बोध्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः, लक्षणया व्यञ्जनपदेन शब्दप्रधानत्वाच्छब्दनयो ग्राह्यः, तन्नियतः तन्निबन्धनः। अर्थनियतश्च-अर्थ्यते-परिच्छिद्यते इत्यर्थः, प्रकृतेऽर्थपदेनार्थप्रधानत्वादर्थनयो ग्राह्यः, तानियतः-तत्प्रयुक्तः, चस्समुच्चये । तत्र प्रथम द्वितीय भेदस्यैकविधत्वमुपदर्शयितुमाह-' अत्थगओ य अमिण्णो' अर्थगतश्च अभिन्नः, चशब्दस्तुशब्दार्थे, अर्थगतस्तु विभागोऽभिन्नः “अत्थप्पवरं सद्दोवसजणं वत्थुमुज्जुसुत्तंता" इति भाष्यवचना. सनहव्यवहारर्जुसूत्रान्ता अर्थनयाः, शब्दोपसर्जनतयाऽर्थप्राधान्येनैव वक्तुः प्रत्ययोत्पत्तः, ते चार्थप्रधानत्वाच्छब्दतद्धर्मभेदेनार्थमेदं नाभ्युपगच्छन्तीति तद्विषयोऽर्थपर्यायोऽभिन्नः एकप्रकारः, सङ्घहोऽसत्यवच्छेदेनाभिन्नसपार्थपर्याय व्यवहारोऽद्रव्यव्यवच्छेदेनाभिन्नद्रव्यात्मकार्थपर्यायश्च ऋजुसूत्रोऽतीतानागतव्यवच्छेदेनाभिन्नवर्तमानाऽर्थपर्यायश्च मनुत इति समहाधर्थनयविषयस्य क्रमशोऽसदद्रव्यातीतानागतव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात् , तद्विषयकार्थनयनियतः 'अर्थगतो विभागोऽभिन्नः' इत्युच्यते, अर्थनयविषयोऽर्थपर्याय एकविध इति भावः।
पूर्वोक्ताघमेदस्प द्विविधत्वं प्रतिपादयितुमाह-' भइयवो वंजणवियप्पो' भक्तव्यो
"Aho Shrutgyanam"