________________
सम्मति० काण्ड १, गा. १९ नयप्रतिबन्धेन स्वार्थाप्रतिपादकत्वाद्वा । 'तान्' नयान पुनः अदृष्टसमयः' अज्ञातसिद्धान्तपरमार्थः, विभजते एकान्तेन निश्चिनोति, सत्यान् अलीकान् वा, स्यात्सत्यत्वासत्यत्वप्रतिपादने तु दृष्टसमयतेवेति मावः ॥ २८॥
अतो नयप्रमाणात्मकैकरूपताव्यवस्थितमात्मस्वरूपमनुगतव्यावृत्तात्मकम् उत्सर्गापवादरूपग्राह्य ग्राहकात्मकत्वाद् व्यवतिष्ठत इत्यर्थप्रदर्शनायाह
दव्वट्ठियवत्तव्वं, सव्वं सव्वेण णिश्चमवियप्पं ।
आरद्धो य विभागो, पज्जववत्तव्वमग्गो य ।। २९ ।। 'दचट्ठियवत्तव' द्रव्यार्थिकवक्तव्यं यत् किञ्चिद् द्रव्यार्थिकस्य सङ्ग्रहादेर्नयस्य सदादिरूपेण व्यवस्थितं वस्तु वक्तव्यं परिच्छेद्यं तत् 'सवं' सर्व ' सवेण' सर्वेण प्रकारेण 'णिचं' नित्यं सर्वकालं 'अवियप्पं ' अविकल्पं विकल्पो भेदस्तेन रहितम् , सर्वस्य सदसद्विशेषात्मकत्वात् , सबहनये यत्किश्चिद्वस्तु तत्सद्रूपेण व्यवस्थितम् , सर्वस्य वस्तुनः सद्विशेषात्मकत्वेना. भिन्नत्वादेव, न चैवन्तर्हि सदात्मकत्वेनेत्येव वक्तव्यम् , न तु सद्विशेषात्मकत्वेन, तथा सति सतो विशेषस्सद्विशेषः, स च द्रव्यत्वपृथिवीत्वादिभेदरूप एवेति तदात्मकत्वेन निर्मंदत्वं न स्यादिति वाच्यम् , संश्वासौ विशेषः सद्विशेषः असन्यावृत्तस्वरूपस्तदात्मकत्वादित्यर्थस्यात्राश्रयणात् , तथा च सद्विशेषात्मकत्वादित्यनेन सदात्मकत्वादित्येवार्थो लब्धा, तथा च सद्रपेण निर्मंदत्वं सद्भहनयेन सर्वस्य वस्तुन इति सिद्धम् , असद्विशेषात्मकत्वादिति च व्यवहारनयापेक्षयोक्तम् , तन्मते द्रव्यपृथिव्यादिरूपेण व्यवस्थितं सर्व वस्तु नित्यं निर्भेदम् , असद्विशेषात्मकत्वात् , अत्र द्रव्यपृथिव्यादेस्सद्रूपत्वेऽपि महासामान्यसत्तातो भेदमाश्रित्यासदूपत्वं, तदेवाऽद्रव्यादितो व्यावर्तकत्वाद्विशेषरूपं तदात्मकत्वाद्र्व्यार्थिकव्यवहारनयस्य परिच्छेद्यं सर्व वस्तु द्रव्यत्वपृथिवीत्वादिना निर्भेदम् , यतोऽनुगतैकाकारप्रतीतिविषयत्वादेवाभेदस्तेन व्यवहारनयेनाश्रितः, अतो यद्र्येण द्रव्यत्वप्रथिवीत्वादिना स्वरूपसत्तात्मकेन साजात्यं तद्रूपेणानुगतैकाकारप्रतीतिविषयत्वादभिन्नत्वमित्यभिसन्धिः । तश्च मेदेन सम्पृक्तमिति प्रदर्शनार्थमुत्तरार्द्धमाह-" आरद्धो य विभागो, पजववत्तवमग्गो य" सहनयेन विषयीकृतसत्तारूपो यश्चकारानुकर्षणीयोऽविभागस्म एव व्यवहारनयेन यद्द्रव्यत्वपृथिवीत्वादिकं द्रव्यपृथिव्यादिस्वरूपं द्रव्यपृथिव्यादिविभाजकं तदात्मकेन द्रव्यपृथिव्याद्याकारेण " आरद्धो य विभागो" आरब्धश्च प्रस्तुतश्च विभागो मेदः सहन याभ्युपगतमहासामान्यसत्तातो व्यवहारनयाभ्युपगतद्रव्यत्वपृथिवीत्वादिस्वरूपसत्ताया भेदलक्षणो द्रव्यपृथिव्यादिविशेषरूपो " पजववत्तवमग्गो य" पर्यायवक्तव्यमार्गश्च पर्यायास्तिकस्य यद्वक्तव्यं विशेषाख्यतचं तस्य मार्गः पन्था पर्यायार्थिकनयविषयविशेषरूपतां प्राप्तः । सनहनयेन सदूपेणैक्यमेव सर्वस्य वस्तुन उक्तं स्यात् तदा विशेषस्यावकाश एव नास्तीति
"Aho Shrutgyanam"