________________
सम्मति • काण्ड १, गा० २०
अपीतरयविषयव्यवच्छेदेन स्वविषये प्रवर्त्तमाना भ्रान्तज्ञानात्मकतया मिथ्यात्वं प्रतिपद्यन्त इत्युपसंहरन्नाह -
१३
णिययवयणिज्जसच्चा, सव्वणया परवियालणे मोहा । ते उण ण दिट्ठसमयो, विभयइ सच्चे व अलिए वा ॥ २८ ॥
'णिययवयणिञ्जसच्चा' निजकवचनीये निज एव निजकः वक्तुं योग्यो वचनीयो निजकवासौ वचनीयश्च निजकत्रचनीयस्तस्मिन् अथवा निज एव निजकस्तेन निजकेन स्वेन वचनीयः - प्रतिपाद्यो विषयस्तस्मिन् स्वविषये स्वांशे परिच्छेद्य इति यावत्, सत्याः सम्यग्ज्ञानरूपाः 'सवणया' सर्वनया रसग्रहादयः, गजनिमीलिकान्यायेन तेषां नयानां स्वविषयांतरांशाऽप्रतिक्षेपित्वेन स्वविषयस्य सत्यरूपतया तद्वन्निष्ठविशेष्यता निरूपिततनिष्ठ प्रकारता निरूपकत्वात्तेषाम् । 'परवियालणे मोहा' परविचालने परविषयोत्खनने, स्वविषयमात्रस्यैव सत्यरूपतया व्यवस्थापनं कृत्वा परनयविषयस्यासत्यत्वेन ज्ञापने सतीति यावत्, मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, सामानाधिकरण्यसम्बन्धेन स्वेतर - धर्माभावविशिष्टतद्धर्मस्याभाववति तादृशतद्धर्मप्रकारकत्वात्, परविषयोत्खननेऽसमर्था वा, परनयविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, स्वान्यनय विषयस्यापि स्वविषयेण सहाविनाभावित्वेन तदभावे स्वविषयस्यापि सत्यत्वेनाव्यवस्थितेः, मिथोनान्तरीयकत्वात् । अतः परनयविषयस्याभावे स्वविषयस्याप्यसस्वात् तत्प्रत्ययस्य मिध्यात्वमेवेत्यवधारयन् ' दिट्ठसमओ ' दृष्टस्समयः सिद्धान्तवाच्योऽनेकान्तात्मकः पदार्थों येन विदुषा स तथा निर्णीतानेकान्ततश्व इति यावत्, ' ते उण' तानेव नयान् पुनशब्दस्यावधारणार्थत्वात्, 6 ण विभयह सच्चे व अलिए वा, ' नेति प्रतिषेधो विभजनक्रियायाः, तथा च सत्यान् अलीकान् वा न विभजते किन्त्वितरनयविषयसव्यपेक्षतया ' अस्त्येव द्रव्यार्थतः ' इत्येवं भजनया स्वनयामिप्रेतमर्थं सत्यमेवावधारयति, अयम्भावःनयप्रामाण्याप्रामाण्ययोर्नैकान्तमवधारयति किन्त्वितरांशसापेक्षो यदशो यदपेक्षया यत्र तत्र तदपेक्षया तर्दशग्राहकत्वे तत्तन्नयानां प्रामाण्यम्, तद्वति तत्प्रकारत्वात्, अन्यथा ग्राहकत्वे चाप्रामाण्यम्, तदभाववति तत्प्रकारकत्वादित्येवमनेकान्तमेव निश्चिनोति स्याद्वादतज्ञः । इयमेव गाथा गुरुतच्चविनिश्चये
"
" यियवयणिज्जसच्चा, सव्वणया परविद्यालणे मोहा । ते पुण अदिसमओ, विभयह सच्चे व अलिए वा ॥ ४५ ॥ इत्येवं दृश्यते, तत्र चास्या अयमर्थः कृतः - 'णियय 'त्ति निजकवचनीये सत्या अर्थप्रतिपादकत्वात् सर्वे नया नैगमादयः परस्य नयस्य विचारणे परेण नयेन विचालने स्वार्थस्य परित्याजने वा 'मोघा' विफला असत्या इति यावत् । अन्यार्थाप्रतिपादकत्वात्, अन्य
7
"Aho Shrutgyanam"