________________
सम्मति कान्ह १ मा० २७
तदभावरूपाऽसच्चादिधर्मस्याऽप्येकस्मिन् वस्तुन्यनुभूयमानत्वेन तदात्मकत्वेनानेकान्तात्मकमेव, न च सत्त्वतदभावयोर्विरोधान्नैकत्र सच्यम्, येन तदुभयात्मकत्वेना ने कान्तात्मकं वस्तु प्रमाणकोटिप्रविष्टं स्यादिति वाच्यम्, प्राचीननैयायिकमते शाखायां वृक्षः कपिसंयोगी न मूले इत्यबाधितानुभवबलात् शाखामूलादिविभिन्नावच्छेदेनैकस्मिन्नेव वृक्षे कपिसंयोगतदभावयोरिव नव्यनैयायिकमते शाखामूलावच्छेदेन कपिसंयोगितद्भेदयोरिव बौद्धमते चित्रज्ञाने नीलाकारत्व पीताकारत्वयोरिव स्वद्रव्यादिपरद्रव्यादितत्तन्निमित्तापेक्षया तयोरप्यविरुद्धत्वात्, अत एवाविरोधद्योतकस्यात्पदघटितमेव वाक्यं प्रयुञ्जते स्याद्वादतत्त्वज्ञाः ।
44
अप्रयुक्तेऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः ॥ १ ॥ "
इत्युक्तेर्यत्रापि स्यात्पदाऽप्रयोगस्तत्रापि सर्वत्रार्थात्तं प्रतियन्ति एकान्तव्यवच्छेदाय, शङ्खः पाण्डुरः पार्थो धनुर्धरः, नीलं सरोजं भवतीत्यायोगस्यान्ययोगस्यात्यन्ताऽयोगस्य व्यवच्छेदायाप्रयुक्तमध्येवकारं प्रकरणसामर्थ्यात्तद्विदोऽवगच्छन्ति, तद्वदिति । विरुद्धधर्मद्वयस्य तत्तन्निमित्तापेक्षयाऽविरोधानभ्युपगमे नैयायिकंवैशेषिकमते भ्रान्तज्ञाने धर्म्यपेक्षया प्रामाण्यं प्रकारापेक्षया चाप्रामाण्यमित्येवं प्रामाण्याप्रामाण्ये न स्याताम् । साङ्ख्यमतेऽपि एकस्या एव प्रकृतेत्रिगुणात्मकत्वं न स्यात्, बौद्धमतेऽपि चैकस्मिन्नेव चित्रज्ञाने नीलाकारत्व पीता कार त्वादिकं न स्यात्, उत्तररूपं प्रति पूर्वरूपस्योपादानकारणत्वम् उत्तररसम्प्रति निमित्तका - रणत्वमित्यपि न स्यात्, स्त्रीकृतचोक्तवादिभिः प्रामाण्याप्रामाण्याद्युक्तधर्माऽविरोधो भ्रान्तज्ञानाद्युक्तस्थलेष्विति तत्र स्याद्वादमवलम्बमानास्ते वादिनो यदि सलजास्तदा भगवंस्तव मतं नैव निन्दन्ति, तन्निन्दायाः स्वपदकुठारप्रहारतुल्यत्वात् । यदुक्तं खण्डखाद्ये श्रीमहावीरस्तवापरनामके
१३३
"साङ्ख्यः प्रधानमुपयंस्त्रिगुणं विचित्रां, बौद्धा धियं विशदयन्नथ गौतमीयः । वैशेषिकच भुवि चित्रमनेकमेकं वाञ्छन् मतं न तव निन्दति चेत् सलज्जः ॥ ४४ ॥ " इति ।
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभिर्वीतरागस्तोत्रे ऽप्युक्तम् -
" चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ।
योगो वैशेषिको वाऽपि, नानेकान्तं प्रतिक्षिपेत् ॥ १ ॥ " इति
तथा चोक्तनीत्याऽनेकान्तात्मकतया वस्तुनि सिद्धे सर्वेऽपि सङ्ग्रहादयो नयाः परनयविषयाणामपि कथञ्चित्सद्रपतया तदसत्रज्ञापनाऽसमर्थत्वात्तत्र गजनिमीलिकान्यायेनौदासीन्यवृत्या वस्त्वेकदेशरूपस्व विषय परिच्छेद रूपत्वात्तद्वति तत्प्रकारकत्वेन सम्यग्ज्ञानरूपा
"Aho Shrutgyanam"