________________
१३२
सम्मति• कान, गा० २. निकत्वे च प्रमाणाऽभावादिति । यद्यपि ब्रह्मकान्तवादस्तु पूर्वमेव निरस्तस्तथापि किश्चि-बिरस्यते, यच्च ब्रह्मैकान्तवादिना 'ब्रह्मैव सत्' इत्यायुक्तं तन्न समीचीनम् , सन् घटा सन् पट इत्यादिप्रत्यक्षात्मकप्रतीतौ चक्षुरिन्द्रियजन्यायां नीरूपस्य ब्रह्मणः सद्रूपस्य भानासम्भवेनोत्पादव्ययध्रौव्यात्मकत्वलक्षणसत्त्वस्थैव कथञ्चिद् घटाद्यात्मकस्य चक्षुरादीन्द्रिययोग्य. स्योक्तप्रतीतौ भासमानत्वेन सद्रूपस्य ब्रह्मणोऽसिद्धे, उत्पादव्ययधौव्यात्मकत्वस्य कथश्चिदनुगतत्वेन सदंशे उक्तप्रतीतेरनुगतावगाहित्वस्याप्युपपत्तेः, अतिरिक्तसत्तावादिनैयायिकादिमते ताशसत्तासम्बन्धस्य भेदामेदादिविकल्पदक्षितत्वेन भानापाकरणेऽपि जैनाभ्यु. पगतोत्पादव्ययध्रौव्यात्मकत्वस्य घटादिभिस्सम कथञ्चिद्भिन्नाभिन्नस्य विकल्पतो निरसितुमशक्यत्वात् , प्रपञ्चो मिथ्या दृश्यत्वादित्यायनुमानानां प्रपञ्चमिथ्यात्वसाधकानामपि मिथ्यात्वेन स्त्रयमेव वेदान्तिनाऽभ्युपगततया तैमिथ्यात्वसिद्धेरसम्मवान सद्पस्य जगतो ब्रह्मविवर्त्तत्वमिति 'जगचद्विवर्तरूपम्' इत्यभिधानमप्यसङ्गताभिधानमेव, जीवकोटिव्यतिरिक्त ईश्वरो यथा न युक्त्या सिद्ध्यति तथा ब्रह्मापि, इति ब्रह्मप्रतिपादक आगमोऽष्टविधकर्मविनिर्मुक्तं जीवात्मानमेव प्रतिपादयतीति न तेन जीवकोटिबहिर्भूतस्य ब्रह्मणः सिद्धिः, यदा च ब्रह्मविर्वतरूपं न जगत् , किन्तु प्रत्यक्षादिप्रमाणसिद्धस्वस्वकारणप्रभवघटादिसत्य. स्वरूपमेव, तदा ब्रह्मणि जगदारोपफलकतया दोषविधयाऽविद्याऽज्ञानादिपदवाच्याया परिणामिकारणात्मिकाया मायायाः कल्पनाऽपि युक्तिशून्यैवेति 'मायायाश्च अज्ञानपदवाच्याया विकाररूपं जगत् ' इति कथनमपि युक्तिरिक्तमेव, एवञ्च, ' तथा च ब्रह्मणो विवतः अज्ञानविकारश्च जगत् ' इति निगमनं द्रापेतम् , यदा च मायैव नास्ति तदा
" अयं जीवो न कूटस्थं, विविनक्ति कदाचन ।
अनादिरविवेकोऽयं, मूलावियेति गम्यताम् ॥ २५ ॥ विक्षेपावृतिरूपाभ्यां, द्विधाविद्या व्यवस्थिता । न भाति नास्ति कूटस्थ, इत्यापादनमावृतिः ॥ २६ ॥ अविद्यावृतकूटस्थे, देहद्वययुता चितिः।
शुक्तौ रूप्यवदध्यस्ता, विक्षेपाध्यास एव हि ॥ ३३॥" इत्यादिपञ्चदशीचित्रदीपप्रकरणोक्तस्वमतप्रक्रियाभिधानं वेदान्तिनोऽनाकर्णनीयमेव परीक्षकैः, तथा चैते वादाः कारणे परिणामिनि वा कार्य परिणामो वा सदेव, न कारणमेव कार्य किन्तु तद्भिनमेवासद्रूपं तत्, न कार्य न कारणम् किन्तु द्रव्यमानं तत्त्वम् , ब्रममात्रं वा तच्चमिति नियमेनैकान्ताभ्युपगमे मिथ्यावादा एवेति सिद्धम् ॥ २७ ॥ ___ तदेवं स्वेतरधर्माऽसंमिश्रसवायेकैकधर्मविशिष्टं वस्तु नैवानुभूयत इति नैकान्तात्मक तत् , किन्तु स्वद्रव्यक्षेत्रकालभावावच्छेदेन सच्चादिधर्मस्येव परद्रव्यक्षेत्रकालभावावच्छेदेन
"Aho Shrutgyanam"