________________
सम्मतिः काण्ड ,गा. २७
१३१ हानिप्रसङ्गः । तथा च बाह्यवादोच्छित्तिरेव, अन्वयव्यतिरेकस्वभावद्वयमूर्तिकत्वात्क्षणिकमावस्य, स्वभावद्वयस्य च मिथोऽनुस्यूतत्वादेकस्याभावे तन्नियतद्वितीयस्याप्यमावेन निस्स्वभावत्वं स्यादिति भावः । निर्विशेषणत्वेन शुद्धस्वरूपधर्म्यस्त्येव, सहकारिमिर्विना न करोतीति व्यतिरेकस्वभावमात्रं तु तत्र नास्तीति चेत्, ममापि कार्याकरणकाले सहकारिसाहित्यस्य विशेषणस्याभावात्तद्विशिष्टान्वयस्वभावस्याभावेऽपि निर्विशेषणत्वेन शुद्धस्वरूप धर्म्यस्त्येवेति समः समाधिः, अन्यत्सर्वमनभ्युपगतोपालम्भमात्रमित्युपेक्षणीयमेवेति । तदेवं सुन्दोपसुन्दन्यायेनैकान्तक्षणिकाऽक्षणिकपक्षयोमिथः प्रतिहन्तृत्वाकोऽप्येकान्तपक्षो युक्तः, किन्तु मिथस्सापेक्षमावेन स्याद्वादपक्ष एव युक्तः, गुडनागरसंयोगजन्यद्रव्यान्तरस्य विलक्षणतया कफपित्तोमयनाशकत्ववत् कश्चित्क्षणिकाक्षणिकोमयरूपत्वेनानेकान्तास्मकवस्तुनो जात्यन्तररूपतया तत्र प्रत्येकपक्षमाविदोषविनाशकत्वेन निराबाधस्वरूपतयोभयपक्षभाविदोषशङ्काकलकाऽकान्दिशीकत्वात् । एतच्च सविस्तरमस्मत्कृतस्याद्वादविन्दुतोऽबसेयम् । अभिहितश्च कलिकालसर्वज्ञश्रीहेमचन्द्राचार्येणान्ययोगव्यवच्छेदिकायामपि
" य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । __परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन! शासनं ते ॥ २६ ॥” इति
ननु स्याद्वादपक्ष एव युक्त इत्यत्र को हेतुरिति चेत् , उच्यते, एकस्मिन्नेव देवदत्त आपेक्षिकपुत्रपितृनप्तमागिनेयादिनानाव्यवहारस्यापेक्षिकलघुत्वमहत्त्वादिव्यवहारस्य चान्यथाऽनुपपल्या वस्तुमात्रे धर्मित्वस्वभावेनैकत्वस्येव परमार्थभूतेनौपाधिकस्वभावभेदेनाने. कत्वस्यापि वस्तुभूतस्यानुभूयमानत्वादित्येव जानीहि । अत एव कार्यतात्मकनिरूपकभेदेन कारणतास्वभावभेदस्तावदन्यैरप्येकनावश्यं स्वीकर्तव्य एव, अन्यथा विविक्तव्यव. हारोच्छेदस्स्यात् , न च स्वभावभेदः काल्पनिक इति विविक्तव्यवहारोऽपि कल्पनाशिल्पिनिर्मित एवेति वाच्यम् । तथा सति
"सर्व वै खल्विदं ब्रह्म, नेह नानास्ति किश्चन ।।
आरामं तस्य पश्यन्ति, न तत्पश्यति कश्चन ॥१॥" इत्याधुत्त्या ब्रमविवतं जगदिति ब्रुवाणस्याभेदवादिवेदान्तिन एव विजयस्स्यात्, तैर्जगमानात्वस्य कल्पनामूलत्वेनाभ्युपगमात् । तस्मात्स्वभावभेदस्याऽपि परमार्थभवत्वेन तत्प्रयोज्यानेकत्वस्यापि वास्तविकतयैकानेकस्वभावस्य वस्तुनः कथञ्चिनित्यानित्यतयैवार्थक्रियाक्षमत्वमवसेयमित्यलं पल्लवितेन, गौरवमीत्या नाधिकं प्रतत्यते । एतेनैकान्तद्रव्यमात्रवादोऽपि निरस्ता, कार्यकारणभावामावे प्रवृत्तिनिवृत्युपेक्षाव्यवहाराऽमावेन निरीहं जगस्यात्, न च कार्यकारणभावः पारमार्थिको नास्ति, काल्पनिकस्त्वस्त्येवेति नोक्तदोष इति वाच्यम् , तस्थानेकप्रमाणसिदत्वेन सर्वलोकैरविगानेनाभ्युपगतत्वेन पारमार्थिकत्वात् , काल्प
"Aho Shrutgyanam"