________________
सम्मति काण्ड १, गा० २७
तदेवं क्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधाचतोऽर्थक्रियानिवृत्तौ तद्व्याप्यं सत्त्वं व्यापकानुलब्धिबलेनैव निवर्त्तमानं गत्यन्तराभावादक्षणिक एवावकाशं लभत इति साध्यविपर्ययसाधनात्सच्च हेतुर्विरुद्ध इति न तेन क्षणिकत्वं सिध्यति । यच्च समर्थFarata क्षेपायोग इति विलम्बेन कार्यकरणे हेत्वभावेन कालान्तरभाविनी: क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यादिति पूर्वोक्तं, तत्र सहकारिसान्निध्ये सति क्षेपाsयोग इति वदामः तथा च सहकार्य सन्निधेर्विलम्बो युक्त एव, तथाहि-सहकारिषु सत्सु करोति तैर्विना न करोतीत्ययमस्य स्वभावो दर्शनवलादेवावगम्यते, एवंविधस्वभावस्य विरोधाभावादुभयवादिसिद्धत्वाच्च यतः क्षणिकोऽपि हि कुर्वद्रूपो भावः सहकारिभिः सहैव करोतीति स्वभावो भवद्भिरभ्युपगन्तव्य एव । इतरथा सहकारिणामसहकारित्वप्रसङ्गस्स्यात् । ननु नैते सहकारिणः, किन्तु सहितकारिण इति चेत्,
कैकस्य सामर्थ्ये पृथगेव कार्यजननापत्तिः, असामर्थ्ये सहितकारित्वमपि न भवेत्, न हि षण्ढ इतरसहकृतोऽपि पुत्रोत्पादको दृष्ट इति । अतस्सहकारिभिस्सहैव करोतीति नियमे सति तैर्विना न करोतीति विपर्ययनियमोऽध्यागत एव, अतः सहकार्य सन्निधेर्विलम्बो युक्त एव । कारणस्य स्वरूपलाभार्थं सहकार्यपेक्षा उतोपकारार्थं किं वा कार्यार्थमिति विकल्प्य यदुक्तं, तदप्यसङ्गतमेव, यतः कारणस्य फलोपधानात्मक कारणताशालिस्वरूपमेव सहकार्यपेक्षम्, सहकार्यपेक्षमेव च स्वरूपं सामर्थ्यशब्देनाप्युच्यते, तथा च सहकारिसत्ताधीनसत्ताकतया सामर्थ्यं सहकार्यपेक्षयैव स्वस्वरूपतां बिभर्तीति तदपेक्षाssवश्यकीति सहकारिसहितस्यैव समर्थत्वान पूर्वोक्तदोष इति । यच्च तैस्सह करोतीत्यत्र सहकारि साहित्यार्थकस्य तैस्सहेत्यस्य विशेषणत्वे कर्त्तृत्ववत्सहकारिसाहित्यस्यापि स्वभावानुप्रविष्टत्वात् सहकारिणो न कदापि जह्यादित्युक्तम्, तदपि तत्राऽपि समानमेव, सहकार्यऽसाहित्ये सति न करोतीति नियमे सहकारिणः स्वकारणादागच्छतोऽपि निवार्य न कुर्यात्, तैर्विना हि न करोतीत्ययमस्य स्वभाव इति । तस्माद् यद्युपनिबन्धेन यदि सहकारिणस्स्वकारणादागच्छेयुस्तदा कुर्यात्, यदि नागच्छेयुस्तदा न कुर्यादित्येवंविधे स्वभावे न कविदोष इति । स्यादेतत्-तैस्सह करोति तैर्विना न करोतीति योऽस्य स्वभावः स पञ्चादस्ति न वा, अस्तीति पक्षे कारणोत्पत्तिकाल इत्र कार्योत्पत्तिकालेऽपि व्यतिरेकस्वभावस्य विद्यमानत्वेन सहकारिसाहित्ये सत्यपि कारणं कार्यं न कुर्यात्, अन्यथोक्तव्यतिरेकस्वभावहानिप्रसङ्ग इति । नास्तीति पक्षे सुतरां तद्वतोऽप्यभावः, न हि स्वभावमन्तरेण स्वभाविनस्तत्रं युक्तमित्यस्मन्मताभ्युपगमः कृतस्स्यादिति चेत्, तदपि तवापि मते समानमेव, तैस्सह कुर्वतो योsस्य तैर्विना न करोतीति स्वभात्रः स यद्यस्ति, तदा न कुर्यादेव, तथा च क्षणिकबाह्यवादोऽप्युच्छिद्येत, क्षणिक भावस्य द्वितीयक्षणावच्छेदेनाप्यर्थक्रियाकारित्वाभावेनालीकरूपत्वादिति । यदि स नास्ति, तदा व्यतिरेकव्यावृत्तावन्वयव्यावृत्तिरिति स्वरूप
१३०
" Aho Shrutgyanam"