________________
सम्मति० काण्ड-१, गा० २७
?
कार्यकारित्वमेवोत्तरकालावच्छिन्न कार्यकारित्वम्, न त्वन्यदिति क्रमेणानेककार्यकारि गोऽपि न स्याच्छक्तिलक्षणस्वभाव मेदः कार्यसाङ्कर्यश्च । न च पूर्वक्षणावच्छिन्न कार्यानुकूलसामर्थ्यमेव यद्युत्तरक्षणावच्छिन्न कार्यानुकूल सामर्थ्यं तर्हि तयोरभेदात्पूर्वक्षणावच्छेदेनैवोत्तरकार्यानुकूलसामर्थ्य सद्भावात् पूर्वक्षण एवोत्तरकार्योत्पत्तिप्रसङ्गस्स्यादिति वक्तव्यम्, क्षणिकेऽप्यस्य समानत्वात् तथाहि — कारणस्य प्रथमक्षणावच्छिन्न सत्ताकाले द्वितीयतृतीयादिक्षणावच्छिन्न कार्यानुकूल सामर्थ्यस्याभावे उत्तरकालेऽपि तत्तत्कार्याणि न स्युरिति प्रथमक्षणेऽपि तादृशसामर्थ्य सद्भावेन युगपदेव तत्तत्कार्योत्पत्तिप्रसङ्गस्स्यात्, समर्थस्य क्षेपायोगादिति कार्यकारणयोरेककालीनत्वप्रसक्त्या कार्यकारणभाव एव विनश्येत । नन्वाद्यक्षणे सहकारिविरहान्नोत्तरक्षणावच्छिन्न कार्योत्पत्तिप्रसङ्ग इति चेत्, तक्षणिकपक्षेऽपि तुल्यमेतत् । अथोक्तसामर्थ्यस्योत्तरक्षणघटितत्वेन तच्छालिना कारणेन पूर्ववर्तिनोत्तरक्षणावच्छेदेनैव तत्तत्कार्योत्पत्तिः, न तु प्रथमक्षणावच्छेदेनेति यदि ब्रूयात्तदाऽक्षणिकवादेऽपि समानमेवैतत् । तन्न क्षणिकपक्षे युगपत्कार्यकारित्वं युज्यते, नापि क्रमिककार्यकारित्वं क्षणिक वस्तुनि प्रमाणपद्धतिमत्रलम्बते, सर्वकालमभिन्नस्वरूप एवं वस्तुनि तस्य घटमानत्वात्, देशकृतस्य कालकृतस्य च क्रमस्य तत्र सम्भवात् । प्रतिक्षणविनाशिनि च भावे नानादेशव्याप्तिलक्षणस्य देशक्रमस्य नानाकालव्याप्तिलक्षणस्य कालक्रमस्य चासम्भवात् । यदाहुः
“ यो यत्रैव स तत्रैव, यो यदैव तदैव सः ।
न देशकालयोग्यप्ति - र्भावानामिह विद्यते ॥ १ ॥ इति ।
१२९
"Aho Shrutgyanam"
--
अन्यथा तत्तत्पूर्वापरक्षणोत्पद्यमानघटपटमठादीनामपि क्रमवत्क्षणापेक्षया तत्तत्कार्यकारित्वेन क्रमिककार्यकारित्वप्रसङ्गरूपातिप्रसङ्गस्स्यात्, अथ यद्यपि स्वतः प्रतिक्षणमुत्पद्यमानः क्षणिक पदार्थो भिन्नभिन्न एव तथापि पूर्वापरक्षणवर्त्तिनां तेषां सौसादृश्यादेकत्वाध्यवसायात्काल्पनिकैकत्वेन क्रमकारित्वम्, क्रमोत्पद्यमानघटपटादीनां तु तदभावान्न तथात्वमित्यपि न च वक्तव्यम्, सर्वतो व्यावृत्तवस्तुवादिनां भिन्नेष्वभेदावगाहिभ्रान्तिनिमित्तस्य वस्तुभूतसाधर्म्यस्याभावात्, न चैकपरामर्शप्रत्यय हेतुत्वेन साधर्म्यमभ्युपगन्तव्यम्, चक्षूरूपालोकमनस्कारेष्वपि तस्य प्रसक्तेः काल्पनिक सादृश्यस्य तादृशभ्रान्तिनिमित्तत्वे च कल्पनाया निरङ्कुशत्वेन सर्वत्र तत्प्रसङ्गात् । वास्तविक सादृश्यस्य चाभ्युपगमे तस्य यदि क्षणिकत्वमुररीकरोषि न तर्हि क्षणेभ्यः कश्विद्विशेषः । अथाऽक्षणिकत्वमिति चेत्, तर्हि पर्यवसितं क्षणिकवादेन, अक्षणिकस्य सादृश्यस्य सद्भावात्, अभिहितश्च न्यायमञ्जर्याम् - " अथापि नित्यं परमार्थसन्तं, सन्ताननामानमुपैषि भावम् । उत्तिष्ठ भिक्षो फलितास्तवाशाः, सोऽयं समाप्तः क्षणभङ्गवादः ॥ १ ॥ " इति
१७