SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सम्मति काण्ड १, गा २७ १२८ न्तरमपेक्ष्यैव तं विधत्ते, एवमग्रेऽपीत्यनवस्थाऽऽद्या। सहकारिकृतोपकारेण समर्थन सर्वदा कार्योत्पादप्रसङ्गभीत्योपकारान्तरमपेक्षणीयं स्यात् , तेनाप्यन्योपकारोऽपेक्षणीयस्स्यात, तेना. प्यन्य इत्येवं द्वितीयाऽनवस्था । तथा सहकारिणा कर्त्तव्यस्योपकारस्य धम्यभेदे सहकारिणा धर्येवोत्पादितस्स्यात् , न चेदं युक्तम् , कारणीभूतस्य धर्मिणस्स्वसामग्रीत एवोत्पनत्वात् , धर्मिभेदे तु तस्य किमायातम् , भेदे सम्बन्धाऽयोगेन धर्मिणोऽनुपकृतत्वेन तदयस्थत्वात् । अथ मिन्नेनाप्युकारेण धर्मिणि किश्चिदुपकारान्तरमाधेयम् , तर्हि तेनापि तत्रान्यदाधेयं स्यादिति तृतीयाऽनवस्थाऽऽकाशतलावलम्बिनी स्यादिति तदेवमक्षणिके क्रमयोगपद्याभ्या. मर्थक्रियाविरोधात्ततः क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुलब्धिबलाद् व्यापकनिवृत्ती निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति, तदप्यर्थक्रियाकारित्वं व्यापकं निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयतीत्यक्षणिकस्यासचे सिद्धे प्रकारान्तराभावात् क्षणिक एव सत्वं विश्राम्यतीति सचक्षणिकत्वयोाप्तिसिद्ध्या क्षणिकत्वं सेत्स्यतीति चेत् , उच्यते, समाधिः क्षणिकेऽपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्याक्षणिकवादिनापि वक्तुं शक्यत एव, तथाहि-न हि कारणभेदमन्तरेण कार्यस्प भेद उपलभ्यते, अन्यथैकस्मादेव कारणादनेक कार्योत्पत्तिर्भविष्यतीति भिन्न कार्योत्पत्त्यर्थं भिन्न कारणोपादानार्थी प्रवृत्तिनिष्फला स्यात्, तथा चैकस्मादेव प्रदीपाद् युगपदेव स्वोपादेय-स्वविषयकज्ञान-घटादिविषयकज्ञान-तमोऽभि. भव-वर्त्तिविकारादयो भवन्ति, तत एकक्षणेऽप्ये कस्य प्रदीपस्थ कार्यभेदप्रयोज्यस्वभावभेदेन भवन्मतेऽनेकत्वं स्यात् , एवं पूर्वरूपस्योपादानभावेनोत्तररूपं प्रति, सहकारिभावेन चोत्तर. रसादिकं प्रति कारणत्वादेकस्यापि पूर्वरूपस्यानेकत्वं स्यात् , स्वभावभेदमन्तरेण कार्यभेदाs योगात , एकस्वभावजन्यत्वे च तेषां कार्याणामेकत्वापत्तेः, स्वभाव भेदे चैकत्वस्य व्याहते. नैकस्य युगपदनेककार्यकारित्वमभीष्टं सिद्धं स्यादिति । अथ स्वभावभेदादेव कार्य मेदो नेष्यते किन्तूपादानभेदादेवेति चेद्, भवत्वेवं, तथापि स्वभावभेदोऽभ्युपगत एव, उपादान भावेन सहकारिभावेन चैकस्य प्रदीपादे रूपादिक्षणस्य वा युगपदनेककार्योत्पत्तावुपयोगा. भ्युपगमात् । उपादानसहकारिस्वभावयोश्च परस्परं भेदात् , तथा च स्वभावभेदादेकस्या अपि प्रदीपादिव्यक्ते नात्वप्रसङ्गः स्यादिति । अथैकस्मिन् कार्ये य एवोपादानभावस्स एवं कार्यान्तरोत्पत्तौ सहकारिभाव इति तयोरभेदान्न स्वभावभेद इष्यत इति चेद , तर्हि किं सहकारिरूपं कारणमभ्युपगम्यते किं वोपादानरूपम् ,न तावदाद्यपक्षो युक्तः, उत्पादानस्यैवाभावात् कुतस्तद्भेदात्कार्यभेदः । न द्वितीयोऽपि पक्षः समीचीनः, यता प्रदीपः स्वोपादेयकार्य प्रति यथोपादानकारणं तथैव सहकार्यकार्यमानं प्रत्यपि, यथा पूर्वरूपमुत्तररूपं प्रत्युपादानकारणं तथैव रसादिकं प्रत्यपीत्युपादानभूतस्यैकत्वेनोपादानभेदात्कार्य भेद इति पक्षक्षतेभिन्नानि कार्याणि न स्युः । एवमपि यदि क्षणिककारणस्यक कार्य प्रत्युपादानभाव एवान्यकार्य प्रति सहकारिभाव इति न शक्तिलक्षणस्वभावभेदः, तीक्षणिकस्यापि कारणस्य पूर्वकाला. "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy