________________
सम्मतिः काण्ड १, गा• ३६
१४९ प्रतियोग्यनवच्छेदकत्वस्य सर्वत्राविशेषेऽप्युक्तविनिगमकादेव प्रतियोग्यनवच्छेदकमपि किश्चिदेव कस्यचिदभावस्य वृत्ताववच्छेदकं न तु सर्वस्येति प्रमेयत्वेन घटस्य सच्चे प्रमेयत्ववत: पटादेर्घटात्मकत्वं स्यादिति सर्वस्य सर्वात्मकत्वापत्तितो यदि घटत्वेन घटस्सन् न प्रमेयत्वे. नेत्यनुभवस्तदा स्वभावत्वं परभावत्वश्च विवक्षाधीनमिति प्रमेयत्वस्यापि परभावत्वेन विवक्षितत्वात् तस्याप्यभावावच्छेदकत्वमिष्टमेवेत्युक्तातिप्रसङ्गस्याभासरूपत्वमेवेत्याधपक्षः । अथवा परद्रव्याद्यपेक्षयेत्यस्य प्रतियोग्यनवच्छेदकावच्छेदेनेत्यर्थः । एकच प्रमेयत्वं न सत्वात्मकप्रतियोग्यवच्छेदकमिति प्रमेयत्वावच्छेदेन घटो न सन् इति द्वितीयभङ्गार्थों युक्त एवेत्यर्थ इति द्वितीयपक्षः। परद्रव्यादेर्यथाश्रुतार्थपरतायामपि प्रमेयत्वस्य परभावरूपतयाऽभावावच्छेदकत्वमिष्टमित्याशयेन प्रमेयत्वस्य परभावत्वं विवक्षया पूर्वमुक्तम् , इदानीं तु तस्य परभावत्वं भवतु मा वा, प्रतियोग्यनवच्छेदकत्वादेव प्रतियोग्यनवच्छेदकपदेन तस्यापि ग्रहणसम्मवात प्रतियोग्यनवच्छेदकावछेदेनेत्यनेन प्रमेयत्वावच्छेदेनेत्यपि लभ्यते इति भावः, यदि चाऽस्तित्वनास्तित्वयोर्विरुद्धयोरेकत्रापेक्षाभेदेन सत्वोपपत्तये स्वद्रव्यादीनां प्रतियोगिभूतस्य सन्चस्यावच्छेदकत्वं परद्रव्यादीनां सत्वाभावस्यावच्छेदकत्वमित्येवं कल्पना नाद्रियते, किन्तु सत्त्वासत्वयोः प्रकृते विशिष्टस्वरूपयोरेव प्रथमद्वितीयमङ्गविषयत्वम् , तथा च स्वद्रव्याद्य. वच्छिन्नं यत्सत्यं प्रथममङ्गविषयः परद्रव्याघवच्छिन्नसत्त्वनिष्ठप्रतियोगिताकामावरूपं यद. सत्त्वं द्वितीयभङ्गाविषयस्तयोः परस्पराभावरूपत्वाभावादेव न विरोध इत्येतावदेव प्रथमद्वितीयमङ्गयोरविरुद्धार्थकत्वोपपत्तिरिति द्वितीयभङ्गो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताका. भावपर एव, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकामावश्वाऽभ्युपगम्यते एव " यदि च घटत्वेन पटो नास्तीति प्रत्ययः स्वरसवाही लोकानां तदा व्यधिकरणधर्मावच्छिन्नप्रति. योगिताकाभाववारण गीर्वाणगुरोरप्यशक्यम् " इति वदता शिरोमणिनापि । अत एव-- "अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्या-ऽभावं प्रकल्प्य च कथं न शिरोमणे त्वम्। स्याद्वादमाश्रयसि सर्वविरोधिजैत्रं,ब्रूमः पसार्य निजपाणिमिति त्वदीया॥४५॥" . इति शिरोमणि प्रति शिक्षावचनमपि सङ्गच्छते । ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकामावस्य केवलान्वयित्वेन प्रकृतधर्मिमात्राऽसाधारणधर्मत्वाभावादव्यावर्तकत्वेन उत्प्रतिपादकमङ्गस्य वैयर्थ्यमिति चेत् , मैवम् , नास्त्येव घट इत्येतावन्मात्रोक्तावेवकारप्रतिपायसर्वथा नास्तित्वस्य प्रसक्तौ तद्वारणार्थ स्यात्कारप्रयोगः, यथा चित्रे घटे नील एवेति प्रयुक्ते सर्वथा नीलत्वप्रसक्तौ तद्वारणार्थ स्यात्कारप्रयोग इति स्यात्कारलाञ्छितद्वितीय: भङ्गस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावबोधकस्यापि सार्थक्यादिति तृतीयपक्षः । एवं घटत्वेन पटो नास्तीति प्रतीत्या घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभावविषयिकया सिद्धस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकामावस्येव शशशृङ्गे गोवृत्तित्वं नास्तीत्यादि
"Aho Shrutgyanam"