________________
सम्मति• काण्ड १, गा. २५ घटोघट इति प्रतीत्यापत्तिस्स्यात् । तस्मादुभयात्मकवस्तुन्येव तत्त्वम् , तथा च वर्तमानभविष्यत्कालावच्छिन्नघटादिव्यक्तेरैक्येऽपि पूर्वापरकालात्मकविशेषणभेदेन कथञ्चिद्भेदस्वी. कारेण विशेषणविशेष्यभावोपपत्तेः स्थास्यन् वर्तमानो घट इति प्रतीत्युपपतिस्स्यादेवेति, न चैकस्मिन् स्थिरे पदार्थे पूर्वापरकालसम्बन्धित्वयोर्विरोधदोषाघ्रातत्वानोपपत्तिरिति वाच्यम् एवं सत्येकस्य परमाणोः परमाणुषट्केन युगपत् संयोगसम्बन्धबलात्परमाणोरपि षट्त्वं स्यात् , तदुक्तम्-" षट्केन युगपद्योगात् परमाणोः षडंशता" इति । तस्मादेकस्य पर. माणोः तद्दिगवच्छेदेन तत्परमाणुना तदन्यदिगवच्छेदेन तदन्यपरमाणुना सह युगपत्संयोगः सम्बन्धवस्थिरस्थापि पदार्थस्य पूर्वोत्तरकालावच्छेदेन पूर्वापरकालसम्बन्धोपपत्ते परापरकालसम्बन्धप्रयोज्याऽपरापरस्वभावभेदो विरुद्धः, येन विरुद्धधर्माध्यासेन भेदापल्या क्षणिकत्वं सिद्धं स्यात् । एतेनेकस्य परमाणोः किं सर्वात्मनाऽपरपरमाणुभिरभिसम्बन्धः, किं वैकदेशेन, आये सम्बन्धिद्वययोरेकपरमाणुरूपत्वापत्या परमाणुमात्रं पिण्डस्स्यात् । द्वितीयविकल्पेऽपि ते एकदेशा देशिभूतपरमाणुस्वरूपाः किं वा तद्भिनस्वरूपा:, आये भिन्नैकदेशानामेवाभावान्नैकदेशेनाभिसम्बन्धः, द्वितीये च ते एकदेशाः परमाणुभिस्सम्बद्धा असम्बद्धा वा, यद्यऽसम्बद्धास्तदा स्वमतक्षतिः, सम्बद्धाश्चेत्तदा सर्वात्मना, एकदेशेन वा, सर्वात्मनाऽभिसम्बन्धपक्षे एकदेशैकदेशिनोरभेदादेकदेशाऽभावान्नैकदेशेनाभिसम्बन्धः पर. माणूनाम् । एकदेशेनैकदेशानामेकदेशिनाऽभिसम्बन्धपक्षेऽपि चैकदेशानां ततो भेदाभेद. कल्पनायां तदवस्थः पर्यनुयोगोऽनवस्था च, न च प्रकारान्तरं दृष्टम् , येन परमाणूनाममिसम्बन्धस्स्यादित्यतोऽनुपलभ्यमानसम्बन्धकल्पनायां प्रमाणाऽभावेन षट्केन युगपत्सम्बन्धात् परमाणोः षडंशता स्यादित्युक्तमापादनमपि न युक्तियुक्तमिति कुचोद्यावकाशोऽपि निरस्ता, परमाणूनां द्रव्यनयेन निरंशतयैवाभ्युपगमेन कात्स्न्येनैकदेशेन वैकपरमाणोः परमाण्वन्तरेणामिसम्बन्धाऽभावेऽपि इमो संयुक्ताविति प्रतीत्यन्यथानुपपत्त्या प्रकारान्तरेणैषां सम्बन्ध इति कल्पनाया एव प्रमाणभृतत्वात् अन्यथा परमाणूनामसम्बद्धानां जलधारणाद्यर्थक्रियाकारि. त्वमेवानुपपन्नं स्यात् । वंशादीनां चैकदेशाकर्षणे तदपरदेशाकर्षणमुपलभ्यमानं न स्यात् । अथाभावप्रयुक्तव्यवधानस्य योऽभावस्तल्लक्षणनैरन्तर्यमात्रादेव संयुक्तप्रतीत्याद्युपपत्तेः किमर्थान्तरसंयोगकल्पनयेति चेत् , मैवम् , तद्भावमुखेन प्रतीयते न स्वभावमुखेनेति तस्य भावरूपत्वे नामान्तर एव विवादात् , तथा च भावमुखेन प्रतीयमानस्य नैरन्तर्यात्मकस्यापि संयोगस्यानभ्युपगमे कार्योत्पत्तिरहेतुका स्यादिति सोऽभ्युपगन्तव्य एव, तस्मात्पूर्वापरकालसम्बन्धयोगेऽपि स्वभावभेदान्नैकान्ततः क्षणिकत्वम्, किन्तु नीलपीताधाकार. समूहालम्बनज्ञाने यथा स्वरूपत एकत्वेऽपि नीलाकारत्वपीताद्याकारत्वरूपविभिन्न स्वभावस्वेनानेकत्वमविरुद्धं भवताऽभ्युपगतं तथैकस्मिअप्यक्षणिकवस्तुनि तत्तत्कालसम्बन्धप्रयुक्ता. परापरस्वभावभेदेन कथञ्चिदनेकत्वमविरुद्धमित्येकानेकस्वरूपतया प्रतीयमाने पदार्थे एकान्त
"Aho Shrutgyanam"