________________
११६
सम्मति• काफ्ड 1, गा०:२७ मेदानुपपश्या स्वप्रतियोग्युत्तरभाविभावानपेक्षत्वहेतोरसिद्धेः विनाशे स्वप्रतियोग्युत्पत्तिक्षणाव्यवहितोत्तरक्षणभावित्वसिद्धिनेंति सिद्धम् । एतेन विनाशो निर्हेतुका स्वप्रति योग्युत्तरमावि. हेत्वनपेक्षत्वादित्यनुमानेन निहतुकत्वे सिद्धे विनाशः स्वप्रतियोग्युत्पश्यनन्तरमेव भवति निर्हेतुकवादित्यनुमानेन क्षणिकत्वसिद्धिरित्यपि निरस्तम् , मुद्गरादिना घटो ध्वस्त इति प्रतीतेविनाशस्य निर्हेतुकत्वस्यैवाऽसिद्धः। किशान्वयव्यतिरेकग्रहाधीन एव कार्यकारणभावग्रह इतीतरसकलकारणसद्भावे सति मुद्गरादिसच्चे घटध्वंसः, तदभावे तदभाव इत्यन्वय. पतिरेकाम्यां मुद्रादेहेतुत्वे सिद्धे विनाशस्य निर्हेतुकत्वं नियुक्तिकमेवेति पूर्वोक्तानुमानेन न क्षणिकत्वसिद्धिरिति । एतेन यो यन्मानहेतुको यो यदधीनत्वेन ध्रुवभावी वा स तदुत्पत्त्युत्तरक्षणेऽवश्यमभ्युपगन्तव्य इति सामान्यव्याप्तिमूलकं विनाशः स्वप्रतियोग्युत्पत्युत्तरक्षणेऽवश्य. मभ्युपगन्तव्यः स्वप्रतियोगिमात्रहेतुकत्वात् स्वप्रतियोग्यधीनत्वेन ध्रुवमावित्वाद्वेत्यनुमानमपि निरस्तम्, धंसवस्थितिरपि स्वाश्रयोत्तरक्षणेऽवश्यमभ्युपगन्तव्या स्वाश्रयमानहेतुकस्वाद स्वाश्रयाधीनत्वेन ध्रुवमावित्वाद्वैत्यापत्तिप्रसङ्गात् । अन्ततो यदेव हेमद्रव्यं कुण्डलरूपे. णोत्पद्यते तदेवाङ्गन्दादिरूपेण विनश्यतीत्यादिप्रत्ययानुरोधेनोत्पादध्वंसयोरेकाधिकरणवृत्तित्वायापि द्रव्यरूपस्थित्यन्वयस्याम्युपगन्तव्यत्वापत्तश्चेति । अथाऽक्षणिके क्रमेण तत्तत्कार्यकारित्वस्वभावत्वे तत्तत्कार्यभेदेन तत्तत्कार्यतानिरूपितकारणत्वस्वभावानां भिनत्वात्स्वभाव. तद्वतोरमेदाद् यावन्तस्स्वभावास्तावद्भेदप्रसङ्गेनैकत्वमेव तस्य व्याहतं स्यात् , युगपदेव कार्यकारित्वस्वभावत्वे चानागतकार्याणामप्युत्पत्तिप्रसङ्गा, अविकलकारणत्वात् , तथा चैकक्षण एव सकलकार्योत्पत्तेर्द्वितीयक्षणेऽकिश्चित्करत्वेन गगनारविन्दतुल्योऽक्षणिकभावस्स्यात् । न चैको भावः सकलकालकलाभाविनीयुगपत्सर्वाः क्रियाः करोतीति प्रातीतिकमपि । कि क्रमेणार्थक्रियां साधयन् स्थिरो भावो विवक्षिततत्तत्क्षणावच्छिन्नकार्य प्रतीव तत्तदुत्तरक्षणा. वच्छिन्नकार्य प्रति समर्थस्वभावः किंवाऽसमर्थस्वभावः, तत्र नाद्यपक्षो युक्तः, समर्थस्व. भावस्य क्षेपाऽयोग इति विलम्बेन कार्यकरणे हेत्वभावेन कालान्तरभाविनीः क्रिया प्रथमक्रियाकाल एव प्रसह्य कुर्यात् , समर्थस्य कालक्षेपाऽयोगात् , कालक्षेपाभ्युपगमे वाऽसामर्थ्य. प्राप्ते, नापि द्वितीयपक्षस्सङ्गतः, असमथेस्वभावत्वादुत्तरकालावच्छिन्नं तेन कार्य नोत्पद्यत ततोऽर्थक्रियाकारित्वाभावात्तदानीमसद्रूपं स्यात् । अथोत्तरकालावच्छिन्न कार्य प्रति पूर्वकालावच्छेदेनेवाऽसमर्थ न तूत्तरकालावच्छेदेनापीति चेत्तर्हि उत्तरपूर्वकालावच्छिन्नमामासामर्थ्यलक्षणविरुद्धधर्माध्यस्तत्वेनैकस्या अपि व्यक्तछंदप्रसत्या स्थैर्य न स्यात् । समर्थस्यापि सहकार्यपेक्षया विलम्ब इति चेत्, तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तिकं सञ्जातमिति भावस्स्वतोऽसमर्थस्वभावस्स्यात् , "सापेक्षमसमर्थम्" (पात. महा०३.१-८) इति वचनात् , तस्य स्वतस्सामध्ये वा सहकारिद्वारोपजायमानानि कार्याणि स नैवोपेक्षेत, अपि तु साटित्येव तानि घटयेत् , अन्यथा तत्सामर्थ्यस्वीकारोऽजागलस्तनवनिष्फलकस्स्यात्।
"Aho Shrutgyanam'